42118: विभाषोशीनरेषु¶
Padacheda: विभाषा | S | 1 | 1 |
उशीनरेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The affixes ठञ् and ञिठ् come optionally in the remaining senses after the वृद्ध words denoting वाहीक villages situated in उशीनर।
Vasu English Translation¶
The affixes ठञ् and ञिठ् come optionally in the remaining senses after the वृद्ध words denoting वाहीक villages situated in उशीनर। Thus आह्वजालिकी, लिका and लीया; so also सौदर्शनिकी, सौदर्शनिका and सौदर्शनीया ॥
Kashika¶
वृद्धादिति वर्तते, वाहीकग्रामेभ्य इति च। उशीनरेषु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यो विभाषा ठञ्ञिठौ प्रत्ययौ भवतः। आह्वजालिकी, आह्वजालिका, आह्वजालीया। सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया॥
Siddhanta Kaumudi¶
एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥
Balamanorama¶
विभाषोशीनरेषु - विभाषोशीनरेषु । पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । तदाह — एषु ये ग्रामा इति । उशीनरेषु ये ग्रामास्तद्विशेषवाचिभ्यः इत्यर्थः । सौदर्शनो नाम उशीनरदेशे कश्चिद्ग्रामः । सौदर्शनीयेति । ठञ्ञिठयोरभावे वृद्धाच्छः ।
Prakriyasarvasvam¶
उशीनरगताद् वृद्धम्लेच्छग्रामाद् वा टञ्ञिठौ । आह्वजालिकः स्त्रियां प्राग्वत् । वेति वृद्धाच्छः । आह्वालीयः ॥