42120: वृद्धात् प्राचाम्¶
Padacheda: वृद्धात् | S | 5 | 1 |
प्राचाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The affixes ठञ् comes in the remaining senses after a वृद्ध word ending in उ and denoting a locality of East-folks.
Vasu English Translation¶
The affixes ठञ् comes in the remaining senses after a वृद्ध word ending in उ and denoting a locality of East-folks. The phrase ओर्देशी is here understood. Thus आढकजम्बुकः, शाकजम्बुकः नापितवास्तुकः ॥
The affix ठञ् would have been valid by the last sutra also, the present sutra makes a नियम or restriction, showing that in the case of words denoting places of East, the rule applies to those words only, which are Vriddha. Therefore it does not apply to मल्लवास्तु, from which we have माल्लवास्तवः ॥
Kashika¶
ओर्दश इत्येव। उवर्णान्ताद् वृद्धात् प्राग्देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। आढकजम्बुकः। शाकजम्बुकः। नापितवास्तुकः। पूर्वेणैव ठञि सिद्धे नियमार्थं वचनम् — वृद्धादेव प्राचाम्, अवृद्धाद् न भवतीति। मल्लवास्तु — माल्लवास्तवः॥
Siddhanta Kaumudi¶
प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥
Balamanorama¶
वृद्धात् प्राचाम् - वृद्धात्प्राचाम् ।ओर्देशे ठ॑ञित्यनुवर्तते । प्राचामिति देशविशेषणं, नतु विकल्पार्थं, व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह — प्राग्देशेत्यादिना । आढकजम्बुक इति । आढकजम्बूर्नाम कश्चिद्ग्रामः । तत्र भव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । ‘केऽणः’ इति ह्रस्वः । एवे शाकजम्बुकः । मल्लवास्त्विति ।कश्चित् प्राच्यो ग्राम॑ इति शेषः ।
Padamanjari¶
वृद्धादेव प्राचामिति । विपरीतस्तु नियमो न भवति - प्राचामेव वृद्धादिति, अप्राग्देशवाचिनो वृद्धस्योवर्णान्तस्याभावाद् यत्र पूर्वसूत्रस्यातिप्रसङ्गः स्यात् । आढकजम्बुक इति । पूर्ववत्कादेशह्रस्वत्वे ॥
Nyaas¶
आढकजम्बुकः इति। पूर्ववत् कादेशो ह्रस्वत्वञ्च॥
Prakriyasarvasvam¶
प्राग्देशे तूवर्णान्ताद् वृद्धादेव ठञ् । नापितवास्तुकः । अवृद्धात् त्वणैव । मल्लवास्तोर्मालवास्तवः ॥