42119: ओर्देशे ठञ् ================== **Padacheda:** ओः | S | 5 | 1 | देशे | S | 7 | 1 | ठञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes ठञ् comes in the remaining senses after a प्रातिपदिक (Nominal Stem) denoting a locality and ending in उ। Vasu English Translation ------------------------ The affixes ठञ् comes in the remaining senses after a प्रातिपदिक (Nominal Stem) denoting a locality and ending in उ। The phrase 'वृद्धात्' does not govern this *sutra*. For had it been understood in this aphorism, there would have been no necessity of repeating it in the next. Thus तैषादकर्षुकः, शाबरजम्बुकः ॥ Why do we say देशे 'denoting a country'? Observe पाटवाः 'the pupils of पटु' formed by अण् ॥ In the previous *sutras*, the *anuvritti* of ठञ् and ञिठ् both were current; hence the repetition of ठञ् in this *sutra*, because we could not take the *anuvritti* of ठञ् from the last *sutra* without drawing the *anuvritti* of ञिठ् ॥ Kashika ------- वृद्धादिति नानुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्ताद् देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शाबरजम्बुकः। देश इति किम्? पटोश्छाात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम्॥ Siddhanta Kaumudi ----------------- उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः (SK834) इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥ Balamanorama ------------ **ओर्देशे ठञ्** - ओर्देशे ठञ् । निषादकर्षूरिति । 'कश्चिद्ग्राम' इति शेषः । नैषादकर्षुक इति । उगन्तात्परत्वात्कादेशः । Padamanjari ----------- नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ,'के' णःऽ इति ह्रस्वः ॥ Nyaas ----- `नैषादकर्षुकः। शावरजम्बुकः` इति। निषादकर्षूवरजम्बूशब्दाभ्यां ठञ्, `इसुसुक्तान्तात् कः` (7.3.51) , `केऽणः` (7.4.13) इति ह्रस्वः। ननु च ठञ् प्रकृत एव, स एवेहानुकृष्यते, तत्क ठञ्ग्रहणेन? इत्यत आह - `ठञ्ञिठयोः` इति। यथैव हि ठञ् प्रकृतः, एवं ञिठोऽपि। तत्र द्वयोरपि प्रकरणे ठञ् चानुवर्तिष्यते, नेतर इत्येतन्न लभ्यते। तस्मात् ञिठस्य निवृत्तये पुनष्ठञ्ग्रहणं कृतम्। ननु चास्वरितत्वादेव ञिठो नानुवर्तिष्यते? सत्यमेतत्; तदेवास्वरितत्वं ज्ञापयितुं ञिठस्य ठञ्ग्रहणं कृतम्। तच्चास्वरितत्वमाख्यायते मन्दबुद्धीनामनुग्रहाय॥ Prakriyasarvasvam ----------------- उवर्णान्ताद् देशात् ठञ् । उगन्तात् कः । 'केऽणः' । शम्बरजम्ब्वो भवं शाम्बरजम्बुकम् ॥