42105: ऐषमोह्यःश्वसोऽन्यतरस्याम्¶
Padacheda: ऐषमस्-ह्यस्-श्वसः | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix त्यप् is added optionally after the words 1. ऐषमस् 2. ह्यस् and 3. श्वस् , in the remaining senses.
Vasu English Translation¶
The affix त्यप् is added optionally after the words 1. ऐषमस् 2. ह्यस् and 3. श्वस् , in the remaining senses. As ऐषमस्त्यम् or ऐषमस्तनम् (4.3.23), ह्यस्त्यम् or ह्यस्तनम् (4.3.23); श्वस्त्यम् or श्वस्तनम् (4.3.23) or शौवस्तिकम् (4.3.15). The word ‘svas’ takes the augment तुट् also, hence the above three forms.
Kashika¶
ऐषमस् ह्यस् श्वस् इत्येतेभ्योऽन्यतरस्यां त्यप् प्रत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्यस्त्यम्, ह्यस्तनम्। श्वस्त्यम्, श्वस्तनम्। श्वसस्तुट् च (४.३.१५) इति ठञपि तृतीयो भवति। शौवस्तिकम्॥
Siddhanta Kaumudi¶
एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥
Balamanorama¶
ऐषमोह्यःश्वसोऽन्यतरस्याम् - ऐषमोह्रः । एभ्य इति । ऐषमस्, ह्रस्, आस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति ।सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्टउठ्युलौ तुट् चे॑त्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः ।परुत्परो र्यैषमो ।ञब्दे पूर्वे पूर्वतरे यती॑त्यमरः । ऐषमस्तनमिति । ठ्युठ्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्रस्त्यं, ह्रस्तनमिति । ह्रसित्यव्ययं गतेऽह्नि । तत्र भवमित्यर्थः । आस्त्यं-आस्तनमिति । आस् इत्यव्ययमनागतेऽह्नि । तत्र भवमित्यर्थः ।ह्रो गतेऽनागतेऽह्नि आः॑ इत्यमरः । पक्षे इति ।आसस्तुट् चे॑ति ठञि तस्य इकादेशे तुडागमेद्वारादीनां चे॑त्यैजागमेशौवस्तिक॑मित्यपि वक्ष्यमाणं रूपमित्यर्थः ।
Tattvabodhini¶
ऐषमोह्यःश्वसोऽन्यतरस्याम् - वक्ष्यमाणाविति ।सायंचिर॑मित्यादिने॑ति शेषः । वक्ष्यत इति ।आसस्तुट् चे॑त्यत्र ।
Padamanjari¶
ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ् चतुर्थः,’श्वसस्तुट् च’ इत्यत्र विकल्पाधिकारात् ट।लुट।लुलावपि भवतः ॥
Nyaas¶
ऐषमःप्रभृ-तीनि कालवाचीनि प्रातिपदिकान्यव्ययानि। सायञ्चिरम् (4.3.23) इत्यादिना परत्वाट्टउटउलोः प्राप्तयोरिदं वचनम्। शोवस्तिकम् इति। द्वारादीनाञ्च (7.3.4) इत्यैजागमः॥
Prakriyasarvasvam¶
एभ्यो वा त्यप् । अयं वत्सर ऐषमः । ऐषमस्त्यम् । ह्यस्त्यम् । श्वस्त्यम् । वेत्युक्तेर्वक्ष्यमाणौ द्युट्युलौ तुट् च । ऐषमस्तनम् । ह्यस्तनम् । श्वस्तनम् ॥