42104: अव्ययात्त्यप्¶
Padacheda: अव्ययात् | S | 5 | 1 |
त्यप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix त्यप् comes after an indeclinable in the remaining senses.
Vasu English Translation¶
The affix त्यप् comes after an indeclinable in the remaining senses. Karika अमेहक्वतसित्रेभ्यस्त्यब्विधिर्यो ऽव्ययात्स्मृतः । निनिर्भ्यो ध्रुवगत्योश्च प्रवेशो नियमे तथा ॥
This rule is too wide. The affix त्यप् is restricted to the following Indeclinables:- अमा ‘together’, इह ‘here’, क्व ‘where’, those that end in तसि (5.3.7) and त्र (5.3.10). As अमात्यः ‘a minister’, इहत्यः, क्वत्यः, ततस्त्यः , तत्रत्यः &c.
Why do we say ‘its application should be restricted’? Observe: औपरिष्टः, पौरस्तः, पारस्तः formed from the Indeclinables उपरि, पुर, and पार; moreover, the Indeclinables, that are Vriddha (i. e. having आ, ऐ and औ in the first syllable), take the affix छ in the same sense. As, आरातीय ॥
Vart:- The त्यप् is added to नि, in the sense of “fixed” as, नित्यम् = ध्रुवम् ॥
Vart:- The त्यप् is added to निस् in the sense of ‘going’. As निष्ट्यः “Chandalas &c who have gone out of the caste”.
Vart:- The त्यप् is added to the word आविस् in the Vedas: As, आविष्ट्यो वर्द्धते ॥
Vart:- The affix ण comes after अरण्यः e.g. आरण्याः सुमनसः ॥
Vart:- The affix एत्य comes after दूर, e.g. दूरेत्यः पथिकः ॥
Vart:- The affix आहञ् comes after उत्तर e. g. औत्तराहः ॥
Bhashya¶
अव्ययात्त्यप् (1525) (त्यप्प्रत्ययाधिकरणम्) (अव्ययपरिगणनभाष्यम्) परिगणनं कर्तव्यम्। अमेह क्वतसित्रेभ्यस्त्य- ब्विधिर्योऽव्ययात्स्मृतः॥ अमा -अमात्यः। अमा। इह -इहत्यः। इह। क्व -क्वत्यः। क्व। तसि -ततस्त्यः, यतस्त्यः। तसि। त्र। तत्रत्यः, यत्रत्यः। इतरथा ह्यौत्तराहौपरिष्टपारतानां प्रतिषेधो वक्तव्यः स्यात्। औत्तराहः, औपरिष्टः, पारतः॥ त्यब्नेर्ध्रुवे। त्यब्नेर्ध्रुवे वक्तव्यः। नित्यः॥ निसो गते। त्यब्वक्तव्य इति। निष्ट्यः॥ अरण्याण्णः। अरण्याण्णो वक्तव्यः। आरण्याः सुमनसः॥ दूरादेत्यः। दूरादेत्यो वक्तव्यः। दूरेत्यः॥ उत्तरादाहञ्ञ्। उत्तरादाहञ्ञ् वक्तव्यः। औत्तराहः॥ (5403 संग्रहवार्तिकम्॥ 1 ॥) - अव्ययात्त्यप्याविष्ट्यस्योपसंख्यानं छन्दसि - (भाष्यम्) अव्ययात्त्यबित्यत्राविष्ट्यस्य छन्दस्युपसंख्यानं कर्तव्यम्। आविष्ट्यो वर्द्धते चारुरासु॥ (5404 विप्रतिषेधेन छविधिबोधकवार्तिकम्॥ 2 ॥) - अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेर्वृद्धाच्छो विप्रतिषेधेन - (भाष्यम्) अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधिविधेर्वृद्धाच्छो भवति विप्रतिषेधेन। अव्ययात्त्यब्भवतीत्यस्यावकाशः -अमात्यः। वृद्धाच्छस्यावकाशः -शालीयः, मालीयः। आरादुभयं प्राप्नोति, आरातीयः। तीरोत्तरपदादञ्ञ् भवतीत्यस्यावकाशः -कखतीर -काखतीरी। छस्य स एव। वायसतीरादुभयं प्राप्नोति, वायसतीरीयः॥ रूप्योत्तरपदाञ्ञ्ञ्ञो भवतीत्यस्यावकाशः -चणाररूप्य -चाणाररूप्या। छस्य स एव। माणिरूप्यादुभयं प्राप्नोति। तं चापि छं परत्वाद्योपधलक्षणो वुञ्ञ्बाधते। माणिरूप्यकः॥ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तादञ्ञ्भवतीत्यस्यावकाशः -शिवपुर -शैवपुरः। छस्य स एव। वाडवकर्षादुभयं प्राप्नोति, वाडवकर्षीयः। कोपधादण् भवतीत्यस्यावकाशः -निलीनक -नैलीनकः। छस्य स एव। औलूकादुभयं प्राप्नोति, औलूकीयः॥ (5405 ठञ्ञ्ञ्ञिठोर्विप्रतिषेधबोधकवार्तिकम् ॥ 3 ॥) - तेभ्यष्ठञ्ञ्ञ्ञिठौ - (भाष्यम्) तेभ्यस्त्यबादिभ्यष्ठञ्ञ्ञ्ञिठौ भवतो विप्रतिषेधेन। अव्ययात्त्यब्भवतीत्यस्यावकाशः -अमात्यः। ठञ्ञ्ञ्ञिठयोरवकाशः -कारतन्तविकी, कारतन्तविका। आरान्नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति -आरात्की, आरात्का॥ तीरोत्तरपदादञ्ञ्भवतीत्यस्यावकाशः -करवतीर कारवतीरी। ठञ्ञ्ञ्ञिठयोः स एव। कास्तीरो नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोतिकास्तीरिकी, कास्तीरिका॥ रूप्योत्तरपदाञ्ञ्ञ्ञो भवतीत्यस्यावकाशः -चणाररूप्य -चाणाररूप्या। ठञ्ञ्ञ्ञिठयोः स एव। दासरूप्यं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति। तौ चापि ठञ्ञ्ञ्ञिठौ परत्वाद्योपधलक्षणो वुञ्ञ् बाधते। दासरूप्यकः॥ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तादञ्ञ्भवतीत्यस्यावकाशः -शिवपुर -शैवपुरः। ठञ्ञ्ञ्ञिठयोः स एव। शाकलं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति। शाकलिकी, शाकलिका। कोपधादण्भवतीत्यस्यावकाशः -निलीनक -नैलीनकः। ठञ्ञ्ञ्ञिठयोः स एव। सौसुकं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति। तौ चापि ठञ्ञ्ञ्ञिठौ परत्वात्कोपधलक्षणश्छो बाधते। सौसुकीयः॥ (5406 विप्रतिषेधवैफल्यबोधकवार्तिकम् ॥ 4 ॥) - न वा ठञ्ञादीनां छापवादत्वात्तद्विषये चाभावादितरेषाम् - (भाष्यम्) न वाऽर्थो विप्रतिषेधेन। किं कारणम्? ठञ्ञादीनां छापवादत्वात्। ठञ्ञादयश्छापवादाः, तद्विषये चाभावादितरेषाम्। तद्विषये -छविषये त्यबादीनामभावः॥ (5407 विप्रतिषेधवैफल्यबोधकवार्तिकम्॥ 5 ॥) - कोपधादणः पुनर्वचनमन्यनिवृत्त्यर्थम् - (भाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधः -योऽयं कोपधादणः, छस्य च॥ किं कारणम्? कोपधादणः पुनर्वचनमन्यनिवृत्त्यर्थम्। सिद्धोऽत्राण् उत्सर्गेणैव, तस्य पुनर्वचन एतत्प्रयोजनं योऽन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम्। स यथैव तदपवादमञ्ञं बाधते, एवं छमपि बाधेत॥ (5408 विप्रतिषेधाभावसमर्थकं वार्तिकम्॥ 6 ॥) - तस्मादन्तोदात्ते कोपधप्रतिषेधः - (भाष्यम्) तस्मादन्तोदात्ते कोपधादञ्ञः प्रतिषेधो वक्तव्यः॥ (विप्रतिषेधसमर्थकं भाष्यम्) न वक्तव्यः। मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवं कोपधादण अञ्ञं बाधिष्यते, छं न बाधिष्यते॥ (5409 विप्रतिषेधबोधकवार्तिकम्॥ 7 ॥) - छादोर्देशे कालाट्ठञ्ञ् - (भाष्यम्) छात् ओर्देशे ठञ्ञ् (4.2.119) कालाट्ठञ्ञ् (4.3.11) इत्येतद्भवति विप्रतिषेधेन। छस्यावकाशः -शालीयः, मालीयः। ओर्देशे ठञ्ञ्भवतीत्यस्यावकाशः -निषाहकर्षूर्नामदेशः -नैषाड्कर्षुकः। इहोभयं प्राप्नोति -दाक्षिकर्षुकः॥ कालाट्ठञ्ञ्भवतीत्यस्यावकाशः -आर्द्धमासिकम्, सांवत्सरिकम्। छस्य स एव। मासादुभयं प्राप्नोति, मासिकम्॥ (5410 विप्रतिषेधबोधकवार्तिकम्॥ 8 ॥) - नक्षत्रादण् - (भाष्यम्) नत्रक्षादण् छाद्भवति विप्रतिषेधेन। अणोऽवकाशः -तैषः, पौषः। छस्य स एव। स्वातेरुभयं प्राप्नोति, सौवातः॥ (5411 विप्रतिषेधबोधकवार्तिकम्॥ 9 ॥) - अव्ययाट्ट्युट्युलौ - (भाष्यम्) अव्ययाट्ट्युट्युलौ छाद्भवतो विप्रतिषेधेन। ट्युट्युलोरवकाशः -दोषातनम्, दिवातनम्। छस्य स एव। प्रातःशब्दादुभयं प्राप्नोति, प्रातस्तनम्॥ (5412 विप्रतिषेधबोधकवार्तिकम्॥ 10 ॥) - शरीरावयवाद्यत् - (भाष्यम्) शरीरावयवाद्यच्छाद्भवति विप्रतिषेधेन। यतोऽवकाशः -दन्त्यम्, ओष्ठ्यम्। छस्य स एव। पादशब्दादुभयं प्राप्नोति, पद्यम्॥ (5513 विप्रतिषेधबोधकवार्तिकम्॥ 11 ॥) - वर्गान्ताच्चाशब्दे यत्खौ - (भाष्यम्) वर्गान्ताच्चाशब्दे यत्खौ छाद्भवतो विप्रतिषेधेन। यत्खयोरवकाशः -अक्रूरर्वग्यः, अक्रूरवर्गीणः। छस्य स एव। वासुदेववर्गादुभयं प्राप्नोति, वासुदेवर्वग्यः, वासुदेववर्गीणः॥ (5414 विप्रतिषेधबोधकवार्तिकम्॥ 12 ॥) - बह्वचोऽन्तोदात्ताट्ठञ्ञ् - (भाष्यम्) बह्वचोऽन्तोदात्ताट्ठञ्ञ् (4.3.67) छाद्भवति विप्रतिषेधेन। ठञ्ञोऽवकाशः -नतानत -नातानतिकः। छस्य स एव। सामस्तशब्दादुभयं प्राप्नोति, सामस्तिकः॥ (5415 विप्रतिषेधबोधकवार्तिकम्॥ 13 ॥) - आयस्थानेभ्यष्ठक् - (भाष्यम्) आयस्थानेभ्यष्ठक् छाद्भवति विप्रतिषेधेन। ठकोऽवकाशः -शौल्किकम्, गौल्मिकम्। छस्य स एव। आपणादुभयं प्राप्नोति, आपणिकम्॥ (5416 विप्रतिषेधबोधकवार्तिकम्॥ 14 ॥) - विद्यायोनिसंबन्धेभ्यो वुञ्ञ् - (भाष्यम्) विद्यायोनिसम्बन्धेभ्यो वुञ्ञ्(4.3.77) छाद्भवति विप्रतिषेधेन। वुञ्ञोऽवकाशः -औपाध्यायकम्, पैतामहकम्। छस्य स एव। इहोभयं प्राप्नोति, आचार्यकम्, मातुलकम्॥ (5417 विप्रतिषेधोपपादकवार्तिकम्॥ 15 ॥) - ऋतष्ठञ्ञ् - (भाष्यम्) ऋतष्ठञ्ञ् (4.3.78) छाद्भवति विप्रतिषेधेन। ठञ्ञोऽवकाशः -हौतृकम्, स्वासृकम्। छस्य स एव। इहोभयं प्राप्नोति, शास्तृकम्, भ्रातृकम्॥ (5418 विप्रतिषेधवार्तिकम्॥ 16 ॥) - रूप्यमयटौ - (भाष्यम्) रूप्यमयटौ छाद्भवति विप्रतिषेधेन। रूप्यमयटोरवकाशः -देवदत्तरूप्यम्, देवदत्तमयम्। छस्य स एव। वायुदत्तादुभयं प्राप्नोति, वायुदत्तरूप्यम्, वायुदत्तमयम्॥ (5419 विप्रतिषेधवार्तिकम्॥ 17 ॥) - अचित्ताट्ठक् - (भाष्यम्) अचित्ताट्ठक् छाद्भवति विप्रतिषेधेन। ठकोऽवकाशः -आपूपिकः, शाष्कुलिकः, मौदकिकः। छस्य स एव। पायसादुभयं प्राप्नोति, पायसिकः॥ (5420 विप्रतिषेधवार्तिकम्॥ 18 ॥) - गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् - (भाष्यम्) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् (4.3.99) छाद् भवति विप्रतिषेधेन। वुञ्ञोऽवकाशः -ग्लौचुकायनकः, त्रैगर्तकः। छस्य स एव। इहोभयं प्राप्नोति, गार्गकः, वात्सकः, मालवकः॥ (5421 विप्रतिषेधवार्तिकम्॥ 19 ॥) - णिनिरन्तेवासिब्राह्मणेभ्यः - (भाष्यम्) णिनिरन्तेवासिब्राह्मणेभ्यश्छाद्भवति विप्रतिषेधेन। णिनेरवकाशः -हारिद्रविणः, तौम्बुरविणः, भाल्लविनः। छस्य स एव। इहोभयं प्राप्नोति, आरुणिनः, शाट्यायनिनः॥ (5422 विप्रतिषेधवार्तिकम्॥ 20 ॥) - पत्रपूर्वादञ्ञ् - (भाष्यम्) पत्रपूर्वादञ्ञ् (4.3.122) छाद्भवति विप्रतिषेधेन। अञ्ञोऽवकाशः -उष्ट्र-औष्ट्रम्, औष्ट्ररथम्। छस्य स एव। इहोभयं प्राप्नोति, वामी -वामम्, वामीरथम्॥ (5423 विप्रतिषेधवार्तिकम्॥ 21 ॥) - द्वन्द्वाद् वुन् वैरमैथुनिकयोः - (भाष्यम्) द्वन्द्वाद्वुन्वैरमैथुनिकयोः (4.3.125) छाद्भवति विप्रतिषेधेन। वुनोऽवकाशः -अहिनकुलिका। छस्य स एव। इहोभयं प्राप्नोति, काकोलूकिका, श्वावराहिका॥ (5424 विप्रतिषेधवार्तिकम्॥ 22 ॥) - गोत्रचरणाद् वुञ्ञ् - (भाष्यम्) गोत्रचरणाद्वुञ्ञ् (4.3.126) छाद्भवति विप्रतिषेधेन। वुञ्ञोऽवकाशः -ग्लौचुकायनकम्, म्लौचुकायनकम्। काठकम्, कालापकम्। छस्य स एव। इहोभयं प्राप्नोति, गार्गकम्, वात्सकम्। मौदकम्, पैप्पलादकम्॥ (5425 विप्रतिषेधवार्तिकम्॥ 23 ॥) - कण्वादीञ्ञोऽण्विधेः - (भाष्यम्) कण्वादिभ्योऽण् भवति इञ्ञोऽण् भवति इत्येतस्माद् वुञ्ञ् भवति विप्रतिषेधेन। कण्वादिभ्योऽण् भवति इञ्ञोऽण् भवतीत्यस्यावकाशः -काण्वाः -दण्डमाणवाः, दाक्षाः -दण्डमाणवाः। वुञ्ञः स एव। इहोभयं प्राप्नोति, काण्वकम्, दाक्षकम्॥ (5426 विप्रतिषेधवार्तिकम्॥ 24 ॥) - ठञ्ञ्ञ्ञिठाभ्यामोर्दशे ठञ्ञ् - (भाष्यम्) ठञ्ञ्ञ्ञिठाभ्याम् ओर्देशे ठञ्ञ् (4.2.119) इत्येतद्भवति विप्रतिषेधेन। ठञ्ञ्ञ्ञिठयोरवकाशः -कारतन्तविकी, कारतन्तविका। ओर्देशे ठञ्ञ् भवतीत्यस्यावकाशः -निषादकर्षूः -नैषादकर्षुकः। इहोभयं प्राप्नोति, नापितवास्तुकः। ठञ्ञ् भवति विप्रतिषेधेन॥ (5427 विप्रतिषेधाभावोपपादकं वार्तिकम्॥ 25 ॥) - न वा ठञ्ञोऽनवकाशत्वात् - (भाष्यम्) न वाऽर्थो विप्रतिषेधेन। किं कारणम्? ठञ्ञोऽनवकाशत्वात्। अनवकाशष्ठञ्ञ् ठञ्ञ्ञ्ञिठौ बाधिष्यते। ननु चेदानीमवकाशः प्रकॢप्तः -यद्वृद्धमनुवर्णान्तं वाहीकग्रामः स ठञ्ञ्ञ्ञिठयोरवकाशः। यदवृद्धमुवर्णान्तमवाहीकग्रामः स ठञ्ञोऽवकाशः। यद्वृद्धमुवर्णान्तं वाहीकग्रामश्च तस्मादुभयं प्राप्नोति॥ एवं तर्हि नायमस्य विप्रतिषेधस्योपालम्भः। कस्य तर्हि? छादोर्देशे कालाट्ठञ्ञ् इत्येतस्य। ननु च तत्राप्यवकाशः प्रकॢप्तः। यद्वृद्धमनुवर्णान्तं स छस्यावकाशः। यदवृद्धमुवर्णान्तं स ठञ्ञोऽवकाशः। यद्वृद्धमुवर्णान्तं देशश्च तस्मादुभयं प्राप्नोति॥ एवं तर्हि वृद्धात् प्राचाम् (4.2.120) इत्यनेन वृद्धग्रहणेन किं क्रियते? यावद् ब्रूयात्पूर्वस्मिन् योगे वृद्धाच्चावृद्धाच्चेति। यदेतस्मिन् योगे वृद्धग्रहणं तदनवकाशं तस्यानवकाशत्वादयुक्तो विप्रतिषेधः॥ (5428 विप्रतिषेधवार्तिकम्॥ 26 ॥) - योपधप्रस्थादीनां वुञ्ञ् - (भाष्यम्) योपधप्रस्थादीनां वुञ्ञ् ठञ्ञ्ञ्ञिठाभ्यां भवति विप्रतिषेधेन। योपधाद्वुञ्ञ् भवतीत्यस्यावकाशः -साङ्काश्यः -साङ्गाश्यकः, कापिल्यकः। ठञ्ञ्ञ्ञिठयोः स एव। दासरूप्यं नाम वाहीकग्रामः, तस्मादुभयं प्राप्नोति, दासरूप्यकः॥ प्रस्थान्ताद्वुञ्ञ् भवतीत्यस्यावकाशः -मालाप्रस्थकः। ठञ्ञ्ञ्ञिठयोः स एव। पातानप्रस्थं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति, पातानप्रस्थकः॥ पुरान्ताद् वुञ्ञ् भवतीत्यस्यावकाशः -काञ्ञ्चीपुर -काञ्ञ्चीपुरकः। ठञ्ञ्ञ्ञिठयोः स एव नान्दीपुरं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति, नान्दीपुरकः॥ वहान्ताद्वुञ्ञ्भवतीत्यस्यावकाशः -वातवह -वातवहकः। ठञ्ञ्ञ्ञिठयोः स एव। कौक्कुडीवहं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति, कौक्कुडीवहकः॥ (5429 विप्रतिषेधवार्तिकम्॥ 27 ॥) - ओश्च ठञ्ञः - (भाष्यम्) ओश्च ठञ्ञो वुञ्ञ् भवति विप्रतिषेधेन। ओष्ठञ्ञोऽवकाशः -नैषादकर्षुकः। वुञ्ञः स एव। आप्रीतमायोरुभयं प्राप्नोति, आप्रीतमायवकः॥ (5430 विप्रतिषेधवार्तिकम्॥ 28 ॥) - जनपदानामकाणौ - (भाष्यम्) जनपदानामकाणावोष्ठ्ञ्ञो भवतो विप्रतिषेधेन। अकस्यावकाशः -अङ्गाः -आङ्गकः। ओष्ठञ्ञः स एव। जिह्नवो नाम जनपदस्तस्मादुभयं प्राप्नोति, जैह्नवकः। अणोऽवकाशः -ऋषिक -आर्षिकः। ओष्ठञ्ञः स एव। इक्ष्वाकवो नाम जनपदस्तस्मादुभयं प्राप्नोति, ऐक्ष्वाकः॥ (5431 विप्रतिषेधाभाववार्तिकम्॥ 29 ॥) - न वा वुञ्ञपवादत्वादणः - (भाष्यम्) न वाऽर्थो विप्रतिषेधेन। किं कारणम्? वुञ्ञपवादत्वादणः। वुञ्ञपवादोऽण्, वुञ्च -ओष्ठञ्ञं बाधिष्यते॥ (5432 विप्रतिषेधवार्तिकम्॥ 30 ॥) - कोपधादणोऽकेकान्ताच्छः - (भाष्यम्) कोपधादण् भवतीत्येतस्मादकान्ताच्छो भवति विप्रतिषेधेन। कोपधादण्भवतीत्यस्यावकाशः -निलीनक-नैलीनकः। अकेकान्ताच्छो भवतीत्यस्यावकाशः -आरीहणकम् -आरीहणकीयः। ब्राह्मणको नाम जनपदस्तस्मादुभयं प्राप्नोति, ब्राह्मणकीयः॥ (5433 विप्रतिषेधवार्तिकम् ॥ 31 ॥) - धन्ववुञ्ञश्च - (भाष्यम्) धन्ववुञ्ञश्च छो भवति विप्रतिषेधेन। धन्वनो वुञ्ञ् भवतीत्यस्यावकाशः -पारेधन्व पारेधन्वकः। छस्य स एव। आष्टकं नाम धन्व तस्मादुभयं प्राप्नोति, आष्टकीयः॥ (5434 विप्रतिषेधाभावोपपादकवार्तिकम्॥ 32 ॥) - न वा छस्य पुनर्वचनं छापवादनिवृत्त्यर्थम् - (भाष्यम्) न वाऽर्थो विप्रतिषेधेन। किं कारणम्? छस्य पुनर्वचनं छापवादनिवृत्त्यर्थम्। सिद्धोऽत्र छः वृद्धाच्छः (4.2.114) इत्येव। तस्य पुनर्वचन एतत्प्रयोजनम् -येऽन्ये तदपवादाः प्राप्नुवन्ति तद्वाधनार्थम्। स यथैवान्यांस्तदपवादान् बाधत एवमिममपि बाधिष्यते॥
Kashika¶
अव्ययात् त्यप् प्रत्ययो भवति शैषिकः।
अमेहक्वतसित्रेभ्यस्त्यब्विधिर्योऽव्ययात् स्मृतः।
निनिर्भ्यां ध्रुवगत्योश्च प्रवेशो नियमे तथा॥
अमात्यः। इहत्यः। क्वत्यः। इतस्त्यः। तत्रत्यः। यत्रत्यः। परिगणनं किम् ? औपरिष्टः। पौरस्तः। पारस्तः। वृद्धात् तु छो भवति। आरातीयः॥ त्यब् नेर्ध्रुवे॥ नियतं ध्रुवं नित्यम्॥ निसो गते॥ निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चण्डालादिः॥ आविसश्छन्दसि॥ आविस्शब्दाच् छन्दसि त्यप् प्रत्ययो भवति। आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)॥ अरण्याण् णो वक्तव्यः॥ आरण्याः सुमनसः॥ दूरादेत्यः॥ दूरेत्यः पथिकः॥ उत्तरादाहञ् ॥ औत्तराहम्॥
Siddhanta Kaumudi¶
।<!अमेहक्वतसित्रेभ्य एव !> (वार्तिकम्) ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ।<!अव्ययानां भमात्रे टिलोपः !> (वार्तिकम्) ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ।<!त्यब्नेर्ध्रुव इति वक्तव्यम् !> (वार्तिकम्) ॥ नित्यः ।<!निसो गते !> (वार्तिकम्) ॥
Laghu Siddhanta Kaumudi¶
अमेहक्वतसित्रेभ्य एव (वार्त्तिकम्)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। त्यब्नेर्ध्रुव इति वक्तव्यम् (वार्त्तिकम्) । नित्यः॥
Balamanorama¶
अव्ययात्त्यप् - अव्ययात्त्यप् ।अमेहेति । अमा, इह, क्व, तसि, त्र एभ्य एव अव्ययेभ्यस्त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति ।उपरिष्टा॑दित्यव्ययस्य परिगणितेष्वनन्तर्भावान्न त्यप् । अणि ‘औपरिष्ट’ इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह — अव्ययानामिति । वार्तिकमिदम् । भमात्रे इति । कार्त्स्न्ये मात्रशब्दः । कृत्स्नस्य भस्याव्ययस्य टेर्लोपः । ‘नस्तद्धिते’ इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययाच्छस्य ईयादेशे टिलोपे ‘आरीय’ इति स्यादित्यत आह — अनित्योऽयमिति । त्यब्नेरिति । नि इत्यव्ययात्त्यप् स्याद्ध्रुवे गम्ये इत्यर्थः । नियतं भवं नित्य॑मिति भाष्यम् । निसो गत इति । निस् इस्यव्ययात्त्यब्वक्तव्यो गते गम्ये इत्यर्थः । निस्-त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाऽभावाच्च षत्वे अप्राप्ते — ।
Padamanjari¶
अमेहेति । योऽव्ययात्यब्विहितः सोऽमादिभ्य एव स्मृत इत्यर्थः । अमाशब्दः समीपवाची स्वरादिः, अमा समीपे भवोऽमात्यः । औपरिष्ट इति । उपरिष्टाद्भव इत्यणि कृते ठव्ययानां भमात्रे टिलोपःऽ इति टिलोपः । परतः शब्दः’विभाषा परावराभ्याम्’ इत्यतसुजन्तः, तत्र भवः । आरातीय इति ।’बहिषष्टिलोपश्च’ इत्यनित्यत्वज्ञापनादत्र टिलोपाभावः । त्यब्नेर्ध्रुव इति । निशब्दाद् ध्रुवे वाच्ये त्यब्भवति । नियतं सर्वकालं भवो नित्यः । निसो गते इति । निः शब्दाद् गते वाच्ये त्यब्भवति । निष्ट।ल् इति ।’ह्रस्वातादौ तद्धिते’ इति षत्वम्, तकारस्य ष्टुअत्वम् । एवमाविर्भूतमाविष्ट।ल्म् । अरण्याण्ण इति । अणि सति ङीप् स्यादिति णो विधीयते । दूरेत्य इति ।’तत आगतः’ इत्यत्रार्थे एत्यः । उतरादाहञिति । आद्यौदातार्थं वचनम् । औतराहमिति । ठुतराच्चऽ इत्याहिप्रत्ययः, उतराहिशब्दात्परिगणनेन त्यपोऽभावादणि सति सिद्धम् ॥
Nyaas¶
अमेह इत्यादि। परिगणनम्। एतच्चोत्तरसूत्रस्थस्यान्यतरस्यांग्रहणस्यभोर्योगयोः विज्ञायते व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अमाशब्दः समीवाची, स्वरादिपाठादव्ययत्वम्। इहेत्यादीनां तद्धितश्चासर्वविभक्तिः (1.1.38) इति। अमा भवोऽमात्यः।औपरिष्टः इति। उपरिष्टाद्भवतीत्यणि कृते अव्ययानां भमात्रे टिलोपो वक्तव्यः (वा।842) इति टिलोपः।परतो भवः पारस्तः। परतः शब्दः विभाषा परावराभ्याम् (5.3.29) इत्यसुजन्तः। आरातीयः इति। अत्र टिलोपो न भवति; बहिषष्टिलोपश्च (वा।378) इत्यत्रानित्यत्वस्य ज्ञापितत्वात्।त्यब्नेध्र्रुवे इति। निशब्दाध्रुवे वाच्ये त्यब्भवति। नियते सर्वकाले भवो नित्यः।निसो गते इति। निःशब्दाद्गते वाच्ये त्यब्भवति। निष्टः इति। ह्रस्वात् तादौ तद्धिते (8.3.101) इति मूर्धन्यः। एवमादविष्ट इत्यत्रापि भवति॥
Prakriyasarvasvam¶
‘अमेहक्वतसिल्त्रेभ्यस्त्यब्विधिर्योऽव्ययात् स्मृतः ।’ अमात्यः । इहत्यः । क्वत्यः । तसिलन्तात्—कुतस्त्यः । ततस्त्यः । त्रान्तात्—तत्रत्यः । यत्रत्यः । अस्य परिगणनस्य प्रायिकत्वात् ‘प्रातस्त्यस्तूर्यनाद’ इत्याहुः । अन्याव्ययात् त्वण् । उपरिष्टाद् भव औपरिष्टः । पारस्तः । ‘अव्ययानां भमात्रे टिलोपो वाच्यः (वा० ४-२-१०४) ‘नेर्ध्रुवे’ (वा० ४-२-१०४) त्यप् स्यात् । नित्यः । ‘निसो निर्गते’ (४-२-१०४) निस् त्य ॥
Vartika¶
अमेहक्वतसित्रेभ्य एव ।
Sutra Prayogas¶
ततस्त्या (किरातार्जुनीयम्): अव्ययात्त्यप् इति त्यप् ।
तत्रत्यम् (शिशुपालवधम्): अव्ययात्त्यप् इति त्यप्-प्रत्ययः।
कुतस्-त्यं (भट्टिकाव्यम्): अव्ययात् त्यप् इति त्यप् ।