42106: तीररूप्योत्तरपदादञ्ञौ¶
Padacheda: तीर-रूप्य-उत्तरपदात् | S | 5 | 1 |
अञ्-ञौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
The affix अञ् comes after a word ending with तीर and the ञ् comes after a word ending with कप्य , in the remaining senses.
Vasu English Translation¶
The affix अञ् comes after a word ending with तीर and the ञ् comes after a word ending with कप्य , in the remaining senses. This debars अण् ॥Thus काकतीरम्, पाल्वलतीरम्, वार्करूप्यम्, शैवरूप्यम् ॥ The words formed by अञ्, take the affix ङीप् in the feminine (4.1.15); those in ञ take the affix टाप् (4.1.4). The sutra is not enunciated as तीररूप्यान्तात्, for had it been so, the affix would apply to बहुरूप्य also, where रूप्य is final, but cannot be called uttara-pada, as ‘bahu’ is not a pada but is an affix (5.3.68). Therefore, we have बाहुरूप्यम् formed by अण् ॥
Kashika¶
तीरोत्तरपदाद् रूप्योत्तरपदात् च प्रातिपदिकाद् यथासंख्यमञ् ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ। अणोऽपवादौ। काकतीरम्। पाल्वलतीरम्। रूप्योत्तरपदात् — वार्करूप्यम्। शैवरूप्यम्। तीररूप्यान्तादिति नोक्तम्, बहुच्प्रत्ययपूर्वाद् मा भूदिति। बाहुतीरम्। अणेव भवति।
Siddhanta Kaumudi¶
यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् । बाहुरूप्यम् ॥
Balamanorama¶
तीररूप्योत्तरपदादञ्ञौ - तीररूप । तीरोत्तरपदाद्रूपोत्तरपदाच्च क्रमादञ्ञ्यश्चेत्यर्थः । काकतीरमिति । ककतीरे भवतित्यर्थः । पाल्वलतीरमिति । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः ।रूप्योत्तरपदे॑ति क्वचित्पाठः । तथा सति ञ्यप्रत्ययेयस्येति चे॑त्यकारलोपे द्वियकारं रूपम् । बाहुरूपमिति ।विभाषा सुपो बहुच् पुरस्तात्तु॑ इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाऽभावान्न ञ्य इति भावः ।
Padamanjari¶
अञ्जपोः स्त्रियांविशेषः - काकतीरी, चाणाररूप्या । बहुच्पूर्वान्मा भूदिति । अन्यथा बहुतीरशब्दादपि स्यात्, उतरपदशब्दस्य तु समासविषये नियतत्वान्नास्ति बहुच्पूर्वात्प्रसङ्गः ॥
Nyaas¶
अथ तीररूप्योत्तरादित्येवं कस्मान्नोक्तम्, एवं हि लघु सूत्रं भवतीति? अत आह - तीररूप्यान्तात् इत्यादि। यदीह तीररूप्यान्तादित्युज्येत, बहुच्पूर्वादपि स्यात् - बहुतीरे जात इति, भवति ह्रेतत् तीरान्तम्। उत्तरपदग्रहणे ह्रेषोऽतिप्रसङ्गो न भवति, न ह्रेतत्, तीरोत्तरपदम्, यस्मात् समासे सत्येतद्भवति। पूर्वपदमुत्तरपदमिति न्यायेन नायं समासः॥
Prakriyasarvasvam¶
तीरोत्तरपदाद् रूप्योत्तरपदाच्च क्रमादेतौ स्तः । अञि पल्वलतीरे भवं पाल्वलतीरम् । ञे, शैवरूप्यम् । अञ् ञोर्डीब्भेदः ॥