42105: ऐषमोह्यःश्वसोऽन्यतरस्याम् ================================ **Padacheda:** ऐषमस्-ह्यस्-श्वसः | S | 5 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix त्यप् is added optionally after the words 1. ऐषमस् 2. ह्यस् and 3. श्वस् , in the remaining senses. Vasu English Translation ------------------------ The affix त्यप् is added optionally after the words 1. ऐषमस् 2. ह्यस् and 3. श्वस् , in the remaining senses. As ऐषमस्त्यम् or ऐषमस्तनम् (4.3.23), ह्यस्त्यम् or ह्यस्तनम् (4.3.23); श्वस्त्यम् or श्वस्तनम् (4.3.23) or शौवस्तिकम् (4.3.15). The word '*svas*' takes the augment तुट् also, hence the above three forms. Kashika ------- ऐषमस् ह्यस् श्वस् इत्येतेभ्योऽन्यतरस्यां त्यप् प्रत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्यस्त्यम्, ह्यस्तनम्। श्वस्त्यम्, श्वस्तनम्। **श्वसस्तुट् च** (४.३.१५) इति ठञपि तृतीयो भवति। शौवस्तिकम्॥ Siddhanta Kaumudi ----------------- एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥ Balamanorama ------------ **ऐषमोह्यःश्वसोऽन्यतरस्याम्** - ऐषमोह्रः । एभ्य इति । ऐषमस्, ह्रस्, आस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति ।सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्टउठ्युलौ तुट् चे॑त्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः ।परुत्परो र्यैषमो ।ञब्दे पूर्वे पूर्वतरे यती॑त्यमरः । ऐषमस्तनमिति । ठ्युठ्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्रस्त्यं, ह्रस्तनमिति । ह्रसित्यव्ययं गतेऽह्नि । तत्र भवमित्यर्थः । आस्त्यं-आस्तनमिति । आस् इत्यव्ययमनागतेऽह्नि । तत्र भवमित्यर्थः ।ह्रो गतेऽनागतेऽह्नि आः॑ इत्यमरः । पक्षे इति ।आसस्तुट् चे॑ति ठञि तस्य इकादेशे तुडागमेद्वारादीनां चे॑त्यैजागमेशौवस्तिक॑मित्यपि वक्ष्यमाणं रूपमित्यर्थः । Tattvabodhini ------------- **ऐषमोह्यःश्वसोऽन्यतरस्याम्** - वक्ष्यमाणाविति ।सायंचिर॑मित्यादिने॑ति शेषः । वक्ष्यत इति ।आसस्तुट् चे॑त्यत्र । Padamanjari ----------- ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ् चतुर्थः,'श्वसस्तुट् च' इत्यत्र विकल्पाधिकारात् ट।लुट।लुलावपि भवतः ॥ Nyaas ----- ऐषमःप्रभृ-तीनि कालवाचीनि प्रातिपदिकान्यव्ययानि। `सायञ्चिरम्` (4.3.23) इत्यादिना परत्वाट्टउटउलोः प्राप्तयोरिदं वचनम्। `शोवस्तिकम्` इति। `द्वारादीनाञ्च` (7.3.4) इत्यैजागमः॥ Prakriyasarvasvam ----------------- एभ्यो वा त्यप् । अयं वत्सर ऐषमः । ऐषमस्त्यम् । ह्यस्त्यम् । श्वस्त्यम् । वेत्युक्तेर्वक्ष्यमाणौ द्युट्युलौ तुट् च । ऐषमस्तनम् । ह्यस्तनम् । श्वस्तनम् ॥