42091: नडादीनां कुक् च¶
Padacheda: नड-आदीनाम् | S | 6 | 3 |
कुक् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The augment कुक् comes after the words नड etc. when the affix छ follows in the above four senses.
Vasu English Translation¶
The augment कुक् comes after the words नड etc. when the affix छ follows in the above four senses. To the words नड &c. the same affix is added, with the insertion of a क् after the stem. As नड + कुक् + छ = नडकीयम्; प्लक्षकीयम्, &c. The words क्रुञ्चा and तक्षन् belong also to this class. In the case of क्रुञ्चा the long vowel is shortened, and in the case of तक्षन् the न् is elided : e. g. क्रुंचकीयम्, तक्षकीयम् ॥
1, नड, 2 प्लक्ष, 3 बिल्व, 4 वेणु, 5 वेत्र, 6 वेतस, 7 इक्षु, 8 काष्ठ, 9 कपोत, 10 तृण, 11क्रुञ्चा (क्रुञ्चाया) हृस्वत्वं च, 12 तक्षन् नलोपश्च.
Bhashya¶
नडादीनां कुक्च (1412) (छाधिकरणम्) (कुगाक्षेपभाष्यम्) यदि पुनरयं कुट् परादिः क्रियेत॥ (5389 कुडागमे दोषवार्तिकम्॥ 1 ॥) - कुटि प्रत्ययादेरादेशानुपपत्तिरनादित्वात् - (भाष्यम्) कुटि सति प्रत्ययादेरित्यादेशस्यानुपपत्तिः। कुटि कृते अनादित्वादादेशो न प्राप्नोति॥ एवं तर्हि पूर्वान्तः करिष्यते॥ (5390 कुगागमे दोषवार्तिकम्॥ 2 ॥) - पूर्वान्ते ह्रस्वत्वम् - (भाष्यम्) यदि पूर्वान्तः, ह्रस्वत्वं वक्तव्यम् -क्रुञ्चकीयाः। परादौ पुनः सति केऽणः (7.4.13) इति ह्रस्वत्वं सिद्धं भवति। अस्तु तर्हि परादिः। ननु चोक्तं कुटि कृतेऽनादित्वादादेशो न प्राप्नोतीति॥ (5391 कुडागमे दोषाभाववार्तिकम्॥ 3 ॥) - सिद्धं त्वादिष्टस्य कुड्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? आदिष्टस्य कुड्वचनात्, कुट्चादिष्टस्येति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (5392 आदिष्टस्येति न्यासाभावेऽपि दोषाभावबोधकं वार्तिकम्॥ 4 ॥) - संनियोगात्सिद्धम् - (भाष्यम्) संनियोगः करिष्यते। क एष यत्नश्चोद्यते -संनियोगो नाम? चकारः कर्तव्यः, कुट्च। किं च ? यच्चान्यत्प्राप्नोति। किं चान्यत् प्राप्नोति? आदेशः। सिध्यति। सूत्रं तर्हि भिद्यते॥ (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु योक्तं पूर्वान्ते ह्रस्वत्वमिति। निपातनादेतत्सिद्धम्। किं निपातनम्? क्रुञ्ञ्चा ह्रस्वत्वं चेति। तत्तर्हि पूर्वान्ते सति निपातनं कर्तव्यम्। परादावप्येष दोषः -यद्धि तत्केऽण इति ह्रस्वत्वम्, न तत्कादिमात्रे शक्यं विज्ञातुम्। इहापि प्रसज्येत -नदीकल्पः परीवाहः, कुमारीकाम्यतीति। तस्मादुभाभ्यामेतद्वक्तव्यम् -क्रुञ्ञ्चा ह्रस्वत्वञ्ञ्चेति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्॥
Kashika¶
नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नडकीयम्। प्लक्षकीयम्॥ नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चाया ह्रस्वत्वं च (ग० सू० ९०)। तक्षन् नलोपश्च (ग० सू० ९१)॥
Siddhanta Kaumudi¶
नडकीयम् । (गणसूत्रम् -) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (गणसूत्रम् -) तक्षन्नलोपश्च ॥ तक्षकीयः ॥
Balamanorama¶
नडादीनां कुक् च - नडादीनां कुक्च । नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च । क्रुञ्चा ह्रस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गमसूत्रम् । तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च ।
Tattvabodhini¶
नडादीनां कुक् च - नडादीनां । नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः । नडाद्यन्तर्गणसूत्रमाह -क्रुञ्चेति एवं तक्षन्नित्यपि । उभयत्रापि षष्ठ्याः सौत्रो लुक् ।ढे लोप ॑इत्यतो लोप इत्यनुवर्तमाने लुग्ग्रहणं व्यर्थमित्या शङ्क्याह -सर्वलोपार्थमिति । यमात्रस्येति । न चआदेः परस्य॑इतीकारस्य भाव्यमिति वाच्यं,सूर्यतिष्ये॑ त्यतो यकारसंबद्धस्यैव लोपस्याऽनुवर्ततनादिति भावः । इति तत्त्वबोधिन्यां चातुरर्थिकाः ।तिङन्ते चुरादयः ।
Padamanjari¶
तक्षन्नलोपश्चेति । यदि पुनरयं कुक् परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपतिः, च्छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ॥
Nyaas¶
क्रुञ्चाया ह्रस्वत्वञ्च इति। क्रुञ्चाशब्दस्य कुग्भवति ह्रस्वत्वञ्च - क्रौञ्चकीयम् इति। तिक्षन्नलोपश्च इति। तक्षन्नित्यस्य कुगागमो भवति, नलोपश्च - तक्षकीयम् इति।
Prakriyasarvasvam¶
एषां छः कुक् च । नडप्लक्षबिल्ववेणुवेत्रवेतसतृणकाष्ठेक्षुकपोतानाम् ! नडकीयम् । प्लक्षकीयम् । बिल्वकीयम् । वेणुकीयमित्यादि । ‘कुञ्चाया ह्रस्वश्च’ (ग. सू०) कुञ्चकीयम् । ‘तक्ष्णो नलोपश्च’ (ग. सू०) तक्षकीयम् । एषु बिल्वकीया- दीनां भवाद्यर्थेऽपि कृते