42092: शेषे¶
Padacheda: शेषे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affixes taught hereafter have senses other than those mentioned above.
Vasu English Translation¶
The affixes taught hereafter have senses other than those mentioned above. The suffixes that will be taught now have senses other than those already taught in the previous aphorisms. “Let a meaning, other than those of which ‘progeny’ (4.1.92) was the first mentioned, and the quadruple signification, the last, be called ‘शेष or the remainder’– and in that remainder of senses, too, let there be the affix अण् &c. Thus चाक्षुषं ‘visible’ viz. colour which is apprehended by ‘vision’ from चक्षुष्; श्रावणः ‘audible’ viz. sound, from श्रवण, औपनिषदः ‘treated of in Upanishad’ i. e. soul, दार्षदः from दृषदः, ‘ground on a stone’ i. e. flour of a fried corn, चातुरं ‘ridden in by four person’ viz. a cart; चातुर्दशम् ‘who is seen on the fourteenth day of the moon’ viz a goblin; औलूखलः ‘pounded in a mortar’ viz. barley: आश्वः ‘drawn by horses’ viz. a chariot.” (Adapted from Dr. Ballantyne’s Laghukaumudi).
The regulating influence of the expression शेषे “in the remainder” extends from this aphorism forward as far as (4.3.134). The affixes छ &c taught hereafter, do not come in the sense of ‘progeny’ &c, but they have, every one of them, all the senses of जात ‘being born’ (4.3.25), प्रोक्तः (4.3.101), आगतः (4.3.74) &c. निवासः (4.3.89), &c कृतः &c (4.3.38).
Thus स्रौघ्नः means “born in Srughna (4.3.25), or done in Srughna, or bought in Srughna, or obtained in Srughna, or skillful in Srughna (4.3.38), or abundant in Srughna (4.3.39), or suited to Srughna (4.3.41), or staying in Srughna (4.3.53), or what has come from Srughna (4.3.74) or which has its rise in Srughna (4.3.83), a road leading to Srughna (4.3.85) a messenger going to Srughna (4.3.85), a gate facing Srughna or from which men go out to Srughna (4.3.86) a book relating to the History of Srughna (4.3.87), an inhabitant of Srughna (4.3.89), a person whose ancestral home is at Srughna (4.3.90)”
Bhashya¶
शेषे (1513) (शेषार्थाधिकरणम्) (शेषार्थविवक्षाभाष्यम्) शेष इत्युच्यते, कः शेषो नाम? अपत्यादिभ्यश्चातुरर्थपर्यन्तेभ्यो येऽन्येऽर्थाः स शेषः॥ (शेषपदाक्षेपभाष्यम्) किमर्थं पुनः शेषग्रहणं क्रियते? शेषे घादयो यथा स्युः स्वार्थे मा भूवन्निति। नैतदस्ति प्रयोजनम्। इदं तावदयं प्रष्टव्यः -अणादयः स्वार्थे कस्मान्न भवन्तीति? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, तेन स्वार्थे न भविष्यन्ति। इमेऽपि तर्हि जातादिष्वर्थेषु विधीयन्ते, तेन स्वार्थे न भविष्यन्ति॥ (प्रत्याक्षेपभाष्यम्) कथं पुनरिहोच्यमाना घादयो जातादिषु शक्या विज्ञातुम्? (प्रत्याक्षेपसमाधानभाष्यम्) अनुवर्तिष्यन्ते तत्र घादयः। यद्यनुवर्तन्ते घादयः, या या परा प्रकृतिस्तस्यास्तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति। एवं तर्हि जातादिष्वर्थेषु घादीनपेक्षिष्यामहे। अयुक्तैवं बहुनोऽपेक्षा। अपेक्षमाणोऽयमनन्तरं योगमपेक्षेत। बहुनोऽप्यपेक्षा भवति। तद्यथा -कषादिषु यथाविध्यनुप्रयोगः (3.4.46) इति ससामान्यकं सविशेषकं सर्वमपेक्ष्यते। अथ वा पुनरस्त्वनुवृत्तिः। ननु चोक्तं या या परा प्रकृतिस्तस्यास्तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्तीति। नैष दोषः। संबन्धमनुवर्तिष्यते। राष्ट्रावारपाराद्धखौ(4.2.93)। ग्रामाद्यखञ्ञौ (94) राष्ट्रावारपाराद्धखौ। कत्र्यादिभ्यो ढकञ्ञ्(95) राष्ट्रावारपाराद्धखौ ग्रामाद्यखञ्ञाविति। (शेषपदाक्षेपसमाधानभाष्यम्) अत उत्तरं पठति। (5393 शेषपदाक्षेपसमाधाने वार्तिकम्॥ 1 ॥) - शेषवचनं घादीनामपत्यादिष्वप्रसङ्गार्थम् - (भाष्यम्) शेषवचनं क्रियते शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन्निति। कथं च प्राप्नुवन्ति? (5394 समाधानसमर्थकं वार्तिकम्॥ 2 ॥) - तस्येदंवचनात्प्रसङ्गः - (भाष्यम्) तस्येदंविशेषा ह्येते -अपत्यम्, समूहः, निवासः, विकार इति॥ (5395 समाधानाक्षेपवार्तिकम्॥ 3 ॥) - विप्रतिषेधात्सिद्धम् - (भाष्यम्) अणादयः क्रियन्तां घादय इति, किमत्र कर्तव्यम्? अणादयो भवन्ति विप्रतिषेधेन॥ (5396 आक्षेपनिरासवार्तिकम्॥ 4 ॥) - न वा परत्वाद्धादीनाम् - (भाष्यम्) न वा एष युक्तो विप्रतिषेधः। किं कारणम्? परत्वाद् घादीनाम्। विप्रतिषेधे परमित्युच्यते, पूर्वे चाणादयः परे घादयः॥ परेऽणादयः करिष्यन्ते। सूत्रविपर्यासश्चैवं कृतो भवति॥ (5397 शेषपदप्रयोजने वार्तिकम्॥ 5 ॥) - अणपवादत्वाच्चाण्विषये घादिप्रसङ्गः - (भाष्यम्) अणपवादत्वाच्च घादीनामण्विषये घादयः प्राप्नुवन्ति॥ (सूत्रप्रत्याख्यानभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति -नाण्विषये घादयो भवन्तीति, यदयं फेश्छ च (4.1.149) इति फिञ्ञन्ताच्छं शास्ति। नैतदस्ति ज्ञापकम्। फिनर्थमेतत् स्यात्। सौवीरगोत्रेष्विति वर्तते, न च फिनन्तं सौवीरगोत्रमस्ति॥ गोत्रग्रहणं सामूहिकेषु ज्ञापकम्, दैवयातवग्रहणं वैषयिकेषु, भास्त्रायणग्रहणं नैवासिकेषु॥
Kashika¶
शेष इत्यधिकारोऽयम्। यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः। उपयुक्तादन्यः शेषः। अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्योऽन्योऽर्थः शेषः। तस्येदंविशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवन्निति शेषाधिकारः क्रियते। किं च, सर्वेषु जातादिषु घादयो यथा स्युः, अनन्तरेणैवार्थादेशेन संबन्धित्वेन कृतार्थता मा विज्ञायीति साकल्यार्थं शेषवचनम्। वक्ष्यति — राष्ट्रावारपाराद् घखौ (४.२.९३) — राष्ट्रियः। अवारपारीणः। शेष इति लक्षणं चाधिकारश्च। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। दृषदि पिष्टा दार्षदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः। अश्वैरुह्यत आश्वो रथः। चतुर्भिरुह्यते चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्ष इति॥
Siddhanta Kaumudi¶
अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे (SK1312) इति लक्षणं चाधिकारश्च । तस्य विकारः (SK1514) इत्यतः प्राक् शेषाधिकारः ॥
Laghu Siddhanta Kaumudi¶
अपत्यादिचतुरर्थन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षिदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । ‘तस्य विकारः’ इत्यतः प्राक् शेषाधिकारः ॥
Balamanorama¶
शेषे - अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति ।प्राग्दीव्यतोऽणित्यादिसाधारणाः प्रत्यया इत्यर्थः । वतुर्भिरिति । अआआदिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृशयन्ते इत्यागमः । लक्षणमिति.प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्येदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थः, स्वरितत्वादिति भावः । अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणामपत्यादिचतुरथ्र्यन्तादन्यत्वस्य सिद्धत्वाच्छेषाधिकारो व्यर्थ इति वाच्यं,तस्येद॑मित्यादावपत्यादिचतुरथ्र्यन्तार्थानां ग्रहणाऽभावाय तदावश्यकत्वात् । नच प्रदर्शितेषु ग्रहणाद्यर्थेषुतस्येद॑मित्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यं,शैषिकान्मतुवर्थीया॑दित्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्याद्यपि न शेषः,इदंविशेषा ह्रेते अपत्यं समूहो विकारो निवासः॑ इति भाष्यात् । प्रपञ्चितं चैतत्तस्यापत्य॑मित्यत्रतस्येदमित्यपत्येऽपीत्यादिश्लोकवार्तिकव्याख्यावसरे ।
Tattvabodhini¶
शेषे - शेषे । लक्षणं चेति । ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेषु अणो विधायकमित्यर्थः । ननु लक्षणं तावव्द्यर्थम्,तस्येद॑मित्यनेन चाक्षुषादीनां,संस्कृतं भक्षाः॑इत्यनेन दार्षदादीनां सिद्धेः । तथा अधिकारोऽपि व्यर्थः । तथाहि -अधिकारस्यापत्यादिचतुरर्थीपर्यन्तेष्वर्थेषु धादीनां टउटउलन्तानां निवृत्तिः, जाताद्यचर्थसाकल्यं वा प्रयोजनम् । तत्र निवृत्तिस्तावन्न प्रयोजनम् । आद्र्रकशालादीनामुत्करादिपाठेन इतः प्राचीनेष्र्थेषु घादयो न प्रवर्तन्ते॑इति ज्ञापनात् । अन्यथावृद्धाच्छः॑इत्येव सिद्धे तत्पाठस्य वैयथ्र्यप्रसङ्गात् । नाप्यर्थसाकल्यं प्रयोजनं, जाताधिकारात्प्राक्पाठसामर्थ्यादेब तल्लाभात् । यदि संनिहिते जातार्थ एव घादयः स्युः, तदुत्तरेषु भवाद्यर्थेषुप्राग्दीव्यतः॑इति विशिष्टावधिवरिच्छन्नेर्थेषु विधीयमाना अणादय एव स्युस्तदा जाताधिकारानन्तरमेवप्रावृषष्ठ॑बित्यादिभिः सहराष्ट्रावारपारा॑दित्यदयोऽपि पठएरन् । तस्माव्द्यर्थमिदं सूत्रमिति चेत् । अत्रोच्यते — ॒शैषिकात्सरूपः शैषिको ने॑ति वक्ष्यमाणार्थस्य विषयलाभाय शेषाधिकार आवश्यकः । शैषिक प्रयुक्तकार्यविशेषं ध्वनयितुं क्रियमाणः शेषाधिकार एवशैषिकान्मतुबर्थीया॑दित्यादिश्र्लोकं ज्ञापयति । एष च श्र्लोकः सन्विधौ मतुब्विधौ च भाष्ये पठितः । इह तु सन्नन्ते पठित इति तत्रैव व्याख्यास्यते । अपत्यादिष्वर्थेषु घादीनां निवृत्त्यर्थमप्यधिकार आवश्यकः । न चोक्तज्ञापकेनैव तत्सिद्धिरिति वाच्यं, ज्ञापकस्य विशेषापेक्षत्वे दोषतादवस्थ्यात् ।आद्र्रकादिभ्यो यदि छः स्यात्तर्हि चतुरथ्र्यामेवे॑ति नियमस्यापि संभवाच्च एवं स्थिते चाक्षुषमित्यादिषु गृह्रमाणत्वादिप्रकारकबोधनाय विधायकत्वमपि तस्य सुवचमिति दिक् । विग्रहीतादपीत्यादि । वचनमेवेदं, सूत्रे यथासङ्ख्यप्रवृत्त्यर्थं विशिष्टोच्चारणात् ।
Padamanjari¶
अपयुक्तादन्यः शेष इति । शब्दार्थकथनमेतत् । तस्यैव प्रकंरणादागतं विशेषमाह - अपत्यादिभ्य इति । एते ह्यत्रोपयुक्ताः । चतुरर्थपर्यन्तेभ्य इति । चत्वारोऽर्थाः’तदस्मिन्नस्ति’ इत्यादयः पर्यन्तो येषामिति विपदो बहुव्रीहिः । चातुरर्थ्यपर्यन्तेभ्य इति पाठे समाहारद्विगोश्चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । ये तु पठन्ति - चातुरर्थपर्यन्तेभ्य इति, ते प्रज्ञादेराकृतिगणत्वादणमिच्छन्ति । किमर्थं पुनः शेषवचनम् ? शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन् । चिरनिवृता अपत्यादयः ? चतुर्ष्वर्थेषु तर्हि मा भूवन् ; अन्यथा ठोरञ्ऽ इत्यादयः’नडादीनां कुक् च’ इत्येवमन्ता यथा चतुरर्थेषु भवन्ति, तथा घादयोऽपि’विभाषाअ पूर्वाह्णाभ्याम्’ इत्येवमन्तास्तत्रैव स्युः । न ह्यकस्मात्प्रकरणं विच्छिद्यते । निवर्तिष्यते तर्हि चतुर्ज्ञ्थाः ? अस्वरितत्वाल्लिङ्गाच्च, यदयमुत्करादिषु कांश्चिद् वृद्धान् शब्दान्पठति - आर्द्रका, शालेति; अन्यथा’वृद्धाच्छः’ इत्येव सिद्धः स्यात् । स्वार्थे तर्हि घादयो मा भूवन् ? अनिर्दिष्टार्थत्वाद्धि स्वार्थ एवस्युः, नामी अनिर्दिष्टार्थाः । जातादिष्वर्थेषु घादयोऽनुवर्तिष्यन्ते ? यद्यनुवर्तन्ते या या परा प्रकृतिः तस्यास्तस्याः पूर्वः पूर्वः प्रत्ययः प्राप्नोति । नार्थनिर्देशं प्रति व्यग्रयोरन्योऽन्यमभिसम्बन्धो भवति । लिङ्गाच्च, यदयं क्कचिच्चकारेण प्रकृतं समुच्चिनोति रङ्कोरमनुष्येऽण् चऽ इति, तज्ज्ञापयति - न पूर्वः पूर्वः प्रत्ययः परस्याः परस्याः प्रकृतेर्भवतीति । अथ वा - लौकिकोऽधिकारोऽपेक्षालक्षणः । न च घादीनां प्रकृत्यन्तरापेक्षा, नापि ग्रामादीनां प्रत्ययान्तरापेक्षा, तस्मादप्रयोजनमेतत्स्वार्थे मा भूवन्निति । तदेव तर्हि प्रयोजनम् - अपत्यादिषु तर्हि मा भूवन्निति । ननु चोक्तम् - चिरनिवृता अपत्यादयश्चातुरर्थी च नापेक्ष्यत इति ? न ब्रूमोऽपत्यादीनामत्राभिसम्बन्ध इति, किं तर्हि ? तस्येदमित्यनेनापत्यादिष्वपि प्राप्नुवन्ति । कथम् ? इत्याह - तस्येदंविशेषा ह्यपत्यसमूहादय इति । यथा’तस्येदम्’ इत्यनेन पाणिनीयाश्छात्रा इति छात्रादिषु विशेषेषु प्रत्ययो भवति, एवमपत्यादिष्वपि विशेषेषु घादयः स्युः; विशेषेषु सामान्यभावात् । ननु च विशेषशब्दसंनिधौ सामान्यशब्द उपातः, तत्र विशेषे पर्यवस्यति - कौण्डिन्यो ब्राह्मण इति, विशेषान्तरे वा - दधि ब्राह्मणेभ्यस्तक्रं कौण्डिन्यायेति । तत्रापत्यादिविशेषसन्निधावुपातं तस्येदमिति सामान्यम्, यद्यपत्यादिष्वेव पर्यवस्येत् सामान्योपादानं व्यर्थं स्यादिति विशेषान्तर एव पर्यवसास्यति । किञ्च यद्यपत्यादिष्वपि घादयः स्युः,’प्राग्दीव्यतो’ ण्ऽ इत्यत्रैवाणादिभिः सह विधीयेरन्, लिङ्गाच्चापत्यादिषु घादयो न भविष्यन्ति, किं लिङ्गम् ?’फेश्च्छ च’ इत्यत्र’फेर्वा’ इत्येव ठग्विधानार्थं वक्तव्यम्, ठका मुक्ते’वृद्धाच्छः’ इति तावच्छः सिद्धः, तदेव च्छविधानं ज्ञापनार्थम् - न ह्यपत्यादिषु घादयो भविष्यन्ति । तथा गोत्रचरणाद्वुञिति समूह इदमर्थान्तर्भूते वुञि सिद्धे’गोत्रोक्षोष्ट्र’ इति पुनर्विधानमपि लिङ्गमस्यार्थस्य; तथा राजन्यादिभ्यो वुञ्ऽ इति राजन्यादिषु दैवयातशब्दः पठ।ल्ते, स च देवयातूनामपत्यानि दैवयातवा इति गोत्रप्रत्ययान्तः; तथाऽरीहणादिषु भास्त्रायणशब्दो गोत्रप्रत्ययान्तः पठ।ल्न्ते, तत्रापि’गोत्रचरणाद् वुञ्’ इत्येव सिद्धः; तदेतैर्लिङ्गैरपत्यादिषु घादयो न भविष्यन्ति । तदेवमेतत्प्रयोजनं नोपपद्यत इति प्रयोजनान्तरमाह - किञ्चेति । असति हे शेषग्रहणे प्रथमेनैवार्थेन सम्बन्धमनुभवतां कृतार्थता विज्ञायेत, द्वितीयादिषु त्वर्थेषु’प्राग्दीव्यतः’ इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमाना अणादय एव स्युः, शेषशब्दस्तूपयुक्तादन्यतमान् जातादीनर्थान्वीशीकृत्य शक्नोत्यभिधातुमिति सर्वत्र घादयः सिध्यन्ति । अतः साकल्यार्थमपि विशेषवचनं कर्तव्यम् । लक्षणं चाधैकारश्चेति । तत्र’तस्येदम्’ इत्येव चाक्षुषादयः सिध्यन्ति, पार्षदादयस्तु’संस्कृतं भक्षाः’ इति तस्माल्लक्षणत्वं नातीवोपयुज्यते ॥
Nyaas¶
उपयुक्तादन्यः शेषः इत्येतद्ग्रहणकवाक्यम्। तदेव अपत्यादिभ्यः`इत्यादिना विवृणोति।अपत्यादयो हि चातुरथ्र्यपर्यन्ताः प्रत्ययविधौ विनियुक्ताः, तस्मात् तेभ्यो योऽन्यो जातादिरर्थः,स शेषः। ननु च निवृत्ता अपत्यादयः, तेभ्यश्चान्तरेषु जातादिषि येषु घादयस्ततोऽपत्यादिषु नैव ते प्राप्नुवन्तीति तत्क तन्निवृत्त्यर्थेन शेषाधिकारेण? इत्य आह - `तस्येदम् इत्यादि। जातादिष्वर्थेषु तस्येदमित्येषोऽर्थः पठते। तच्चापत्यादीनां सामान्यम्। सामान्ये च विधीयमानस्तद्विशेषेऽपि विधीयते। तदुपलक्षणत्वात् सामान्यस्य। अतस्तस्येदं विशेषत्वाज्जाताद्यन्तःपातिष्वपत्यादिषु घादयः प्राप्नुवन्ति। तस्मात् तेषु मा भूवन्निति शेषाधिकारः क्रियते।किञ्च इत्यादिना प्रयोजनान्तरं दर्शयति। असति हि शेषाधिकारे घादीनां प्रथमार्थेनैव सम्बन्धमनुभवतां तत्रैव कृतार्थता विज्ञायेत। तत्र द्वितीयादिष्वर्थेषु प्राग्दीव्यतीया एवाणादयः स्युः, न तु घादयः। शेषशब्दस्तूपयुक्तादन्यतया जातादीनर्थानेकीकृत्य शक्नोत्यभिधातुम् - `सर्वत्र घादयः सिध्यन्तीति। अतः साकल्यार्थं वा शेषवचनम्। `लक्षमं चाधिकारश्च, इति। इह लक्षणस्य विधायकत्वाल्लक्ष्यतेऽनेनेति लक्षणमिति कृत्वा; उत्तरत्राधिकारः स्वरितत्वात्। तत्र यदाऽस्य लक्षणम्,चाक्षुषादयः सिध्यन्ति। यदा स्वधिकारता, तदा सर्वेषु जातादिष्वर्थेषु घादयो भवन्ति। यदि तर्हि शेष इतिलक्षणमपीदमनेनैव यथा ग्रहणादिष्वर्थेषु प्रत्ययो भवति, तथा जातादिष्वपि भविष्यतीति जाताद्यनुक्रमणमनर्थकम्? न; अपवादविधानार्थत्वात्। यानि त्वनपवादार्थानि जातनिवृत्तलब्धक्रीतकुशलाः -इत्येवमादीनि तानि शेषग्रहणस्यैव प्रपञ्चो वेदितव्यः॥
Prakriyasarvasvam¶
इतः परं शिष्टेषु तत्रजातादितस्येदमन्तेष्वर्थेषु तुल्ये प्रत्यया उच्यन्ते । अस्यान्योऽप्यर्थः । उक्तादन्यत्रार्थेऽप्यण् स्यात् । चक्षुषा गृह्यते इति चाक्षुषं रूपम् । श्रावणः शब्दः । दृषदि पिष्टा, दार्षदाः सक्तवः । उलूखले क्षुण्णा, औलूखलाः । अश्वैरूह्यते, आश्वो रथः । चतुर्भिरूह्यते, चातुरः शकटः । चतुर्दश्यां दृश्यते, चातुर्दशं रक्षः । कुणपमत्ति, कौणपः । शृङ्गारे त्वणोऽन्येऽपि प्रत्यया उक्तादन्यत्रार्थे दर्शिताः । कलिं कुर्वन्त्यस्मा इति कालेयं गन्धद्रव्यम् । अग्निः पतत्यस्मादाग्नेयो ग्रावा । नद्यः स्यन्दन्तेऽस्मान्नादेयः शैलः । कुक्षिं रक्षन्त्यस्मात् कौक्षेयकः कृपाणः इति ॥