42091: नडादीनां कुक् च ====================== **Padacheda:** नड-आदीनाम् | S | 6 | 3 | कुक् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The augment कुक् comes after the words नड etc. when the affix छ follows in the above four senses. Vasu English Translation ------------------------ The augment कुक् comes after the words नड etc. when the affix छ follows in the above four senses. To the words नड &c. the same affix is added, with the insertion of a क् after the stem. As नड + कुक् + छ = नडकीयम्; प्लक्षकीयम्, &c. The words क्रुञ्चा and तक्षन् belong also to this class. In the case of क्रुञ्चा the long vowel is shortened, and in the case of तक्षन् the न् is elided : e. g. क्रुंचकीयम्, तक्षकीयम् ॥ 1, नड, 2 प्लक्ष, 3 बिल्व, 4 वेणु, 5 वेत्र, 6 वेतस, 7 इक्षु, 8 काष्ठ, 9 कपोत, 10 तृण, 11क्रुञ्चा (क्रुञ्चाया) हृस्वत्वं च, 12 तक्षन् नलोपश्च. Bhashya ------- नडादीनां कुक्च (1412) (छाधिकरणम्) (कुगाक्षेपभाष्यम्) यदि पुनरयं कुट् परादिः क्रियेत॥ (5389 कुडागमे दोषवार्तिकम्॥ 1 ॥) - कुटि प्रत्ययादेरादेशानुपपत्तिरनादित्वात् - (भाष्यम्) कुटि सति प्रत्ययादेरित्यादेशस्यानुपपत्तिः। कुटि कृते अनादित्वादादेशो न प्राप्नोति॥ एवं तर्हि पूर्वान्तः करिष्यते॥ (5390 कुगागमे दोषवार्तिकम्॥ 2 ॥) - पूर्वान्ते ह्रस्वत्वम् - (भाष्यम्) यदि पूर्वान्तः, ह्रस्वत्वं वक्तव्यम् -क्रुञ्चकीयाः। परादौ पुनः सति केऽणः (7.4.13) इति ह्रस्वत्वं सिद्धं भवति। अस्तु तर्हि परादिः। ननु चोक्तं कुटि कृतेऽनादित्वादादेशो न प्राप्नोतीति॥ (5391 कुडागमे दोषाभाववार्तिकम्॥ 3 ॥) - सिद्धं त्वादिष्टस्य कुड्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? आदिष्टस्य कुड्वचनात्, कुट्चादिष्टस्येति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (5392 आदिष्टस्येति न्यासाभावेऽपि दोषाभावबोधकं वार्तिकम्॥ 4 ॥) - संनियोगात्सिद्धम् - (भाष्यम्) संनियोगः करिष्यते। क एष यत्नश्चोद्यते -संनियोगो नाम? चकारः कर्तव्यः, कुट्च। किं च ? यच्चान्यत्प्राप्नोति। किं चान्यत् प्राप्नोति? आदेशः। सिध्यति। सूत्रं तर्हि भिद्यते॥ (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु योक्तं पूर्वान्ते ह्रस्वत्वमिति। निपातनादेतत्सिद्धम्। किं निपातनम्? क्रुञ्ञ्चा ह्रस्वत्वं चेति। तत्तर्हि पूर्वान्ते सति निपातनं कर्तव्यम्। परादावप्येष दोषः -यद्धि तत्केऽण इति ह्रस्वत्वम्, न तत्कादिमात्रे शक्यं विज्ञातुम्। इहापि प्रसज्येत -नदीकल्पः परीवाहः, कुमारीकाम्यतीति। तस्मादुभाभ्यामेतद्वक्तव्यम् -क्रुञ्ञ्चा ह्रस्वत्वञ्ञ्चेति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्॥ Kashika ------- नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नडकीयम्। प्लक्षकीयम्॥ नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चाया ह्रस्वत्वं च (ग० सू० ९०)। तक्षन् नलोपश्च (ग० सू० ९१)॥ Siddhanta Kaumudi ----------------- नडकीयम् । (गणसूत्रम् -) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (गणसूत्रम् -) तक्षन्नलोपश्च ॥ तक्षकीयः ॥ Balamanorama ------------ **नडादीनां कुक् च** - नडादीनां कुक्च । नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च । क्रुञ्चा ह्रस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गमसूत्रम् । तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च । Tattvabodhini ------------- **नडादीनां कुक् च** - नडादीनां । नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः । नडाद्यन्तर्गणसूत्रमाह -क्रुञ्चेति एवं तक्षन्नित्यपि । उभयत्रापि षष्ठ्याः सौत्रो लुक् ।ढे लोप ॑इत्यतो लोप इत्यनुवर्तमाने लुग्ग्रहणं व्यर्थमित्या शङ्क्याह -सर्वलोपार्थमिति । यमात्रस्येति । न चआदेः परस्य॑इतीकारस्य भाव्यमिति वाच्यं,सूर्यतिष्ये॑ त्यतो यकारसंबद्धस्यैव लोपस्याऽनुवर्ततनादिति भावः । इति तत्त्वबोधिन्यां चातुरर्थिकाः ।तिङन्ते चुरादयः । Padamanjari ----------- तक्षन्नलोपश्चेति । यदि पुनरयं कुक् परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपतिः, च्छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ॥ Nyaas ----- `क्रुञ्चाया ह्रस्वत्वञ्च` इति। क्रुञ्चाशब्दस्य कुग्भवति ह्रस्वत्वञ्च - `क्रौञ्चकीयम्` इति। `तिक्षन्नलोपश्च` इति। तक्षन्नित्यस्य कुगागमो भवति, नलोपश्च - `तक्षकीयम्` इति। Prakriyasarvasvam ----------------- एषां छः कुक् च । नडप्लक्षबिल्ववेणुवेत्रवेतसतृणकाष्ठेक्षुकपोतानाम् ! नडकीयम् । प्लक्षकीयम् । बिल्वकीयम् । वेणुकीयमित्यादि । 'कुञ्चाया ह्रस्वश्च' (ग. सू०) कुञ्चकीयम् । 'तक्ष्णो नलोपश्च' (ग. सू०) तक्षकीयम् । एषु बिल्वकीया- दीनां भवाद्यर्थेऽपि कृते