42084: ठक्छौ च¶
Padacheda: ठक्-छौ | S | 1 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affixes ठक् and छ come after the word शर्करा in the 4-fold sense.
Vasu English Translation¶
The affixes ठक् and छ come after the word शर्करा in the 4-fold sense. Thus of the word शर्करा there are altogether six forms denoting locality, namely two formed by this sutra, two by the last, and two by the sutra (4.2.80). Thus शर्करा, शार्कर꣡म्, शर्करिक꣡म् (formed by ठच्), शार्करक꣡म् (formed by कक्), शार्करिक꣡म् (formed by ठक्), and शार्करीयम् (by छ).
Kashika¶
शर्कराशब्दाट् ठक् छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ। यथासंभवमर्थसंबन्धः। शार्करिकम्। शर्करीयम्॥
Siddhanta Kaumudi¶
शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥
Balamanorama¶
ठक्छौ च - ठक्छौ च ।शर्कराया इत्यनुवर्तते । तदाह — शर्कराया एतौ स्त इति । ठच्ककाविति । कुमुदादित्वाट्ठच्, वराहादित्वात्कगिति विवेकः । वाग्रहणेति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयथ्र्यादिति भावः । शर्करेति । अणो लुपि युर्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । ठकि रूपम् । शर्करीयमिति । छे रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करकमिति । ककि रूपम् । शर्कराः सन्त्यस्मिन्नित्यर्थः, शर्कराबिर्निर्वृत्तमपि वा ।
Padamanjari¶
‘तदस्यास्त्यस्मिन्’ इति मतुपि सिद्धे वचनमिदं तदस्मिन्नस्तीति प्राप्तस्याणो बाधनार्थं निवृताद्यर्थं च, तत्सूचितम् - चातुरथिंक इति । देशस्य विशेषणं नदीति । यद्यपि’विशिष्टलिङ्ग’ इत्यत्रोक्तम् -‘नदीग्रहणमदेशत्वात् जनपदो हि देशः’ इति, इह तु नद्यां देश इति; सम्बन्धसामर्थ्यादजनपदो देशग्रहणेन गृह्यते, एवं च पर्वतेष्वपि चातुरर्थिको भवति । अन्ये त्वाहुः - नद्यपि देश एव, लोकप्रसिद्धेः;’विशिष्टलिङ्ग’ इत्यत्र तु नदीग्रहणं यस्य द्वन्द्वस्य सर्व एवावयवो नदीवचनस्तत्परिग्रहार्थम्, यत्र कश्चिदवयवोनदीवचनः, कश्चिदन्यदेशवाची - तत्र मा भूदित्येवमर्थमिति । उदुम्बरावतीत्यादौ’मतौ बह्वचो’ नजिरादीनाम्ऽ इति दीर्घत्वम् । भागीरथीति ।’तेन निर्वृतम्’ इत्यण् ॥
Prakriyasarvasvam¶
शार्करिकः । शर्करियः । कुमुदादित्वात् ठच्, वराहादित्वात् कक् चास्ति । ठचि शर्करिकः । ककि ‘केऽणः’ (७-४-१३) इति ह्रस्वः । शार्करकः ॥