42083: शर्कराया वा

Padacheda: शर्करायाः | S | 5 | 1 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

Optionally after the word शर्करा the 4-fold significant affix is elided by लुप् ।

Vasu English Translation

Optionally after the word शर्करा the 4-fold significant affix is elided by लुप् । Why do we say “Optionally”? The word शर्करा occurs in the classes कुमुदादि (2) and वराहादि (14) ((4.2.80) classes 4 and 16), and must necessarily take the affixes ठच् and कक् taught therein: for had it not taken those affixes absolutely, their would have been no necessity of inserting this word in those classes. The present rule, therefore teaches by implication, that the word शर्करा takes the general affix अण्, besides the above two especial affixes, denoting locality And when the word takes this universal affix (4.1.83), there the option is, allowed, not otherwise. Thus शर्करा + अण् = शार्कर꣡म्, शर्करा + अण् लुप् = शर्करा ॥

Kashika

शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब् भवति। वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसामर्थ्यात् प्रत्ययस्य पक्षे श्रवणं भविष्यति? एवं तर्ह्येतज् ज्ञापयति — शर्कराशब्दादौत्सर्गिको भवति, तस्यायं विकल्पितो लुबिति। शर्करा। शार्करम्। गणपाठात् च श्रवणमुत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड् रूपाणि भवन्ति। शर्करा। शार्करम्। शर्करिकम्। शार्करकम्। शार्करिकम्। शर्करीयमिति॥

Siddhanta Kaumudi

अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥

Balamanorama

शर्कराया वा - शर्कराया वा ।लु॑बित्यनुवर्तते । प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते । तदाह — अस्मादिति ।

Padamanjari

कुमुदादिष्विति । ऋश्याद्यनन्तरेषु । पाठसामर्थ्यादिति । नित्ये हि लुपि गणयोरस्य पाठोऽनर्थकः स्यात् । शकरेति । अणे लुप् । शार्करमिति । तस्यैव श्रवणम् । शर्करिकमिति । कुमुदादित्वाट्ठच् । शार्करकमिति । वराहादित्वात्कक्,’के’ णःऽ इति ह्रस्वः । शार्करिकम्, शर्करीयमिति । उतरसूत्रेण ठक्छौ ॥

Nyaas

पाठसामर्थ्यात्ित्यादि। यदि नित्यो लुप् स्यात्, गणयोरस्य पाठोऽनर्थकः स्यात्। तस्मात् पाठसमाथ्र्यादेव पक्षे श्रवणं भविष्यतीत्यत आह। `एवं तर्हि इत्यादिना वाघणस्य ज्ञापकं दर्शयति। शर्करा इति। औत्सर्गिकस्य लुप्। शार्करम् इति। त्स्यैव पक्षे श्रवणम्। शर्करकम् इति। कुमुदादित्वाट्ठच्। शार्करकम् इति। वराहादित्वात् कक्। शार्करिकम्, शर्करीयम्` इति। उत्तरसूत्रेण ठक्छौ॥

Prakriyasarvasvam

अणो वा लुप् । शर्करात्रास्तीति शर्करा । अयं देशः शार्करः ॥