42084: ठक्छौ च ============== **Padacheda:** ठक्-छौ | S | 1 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes ठक् and छ come after the word शर्करा in the 4-fold sense. Vasu English Translation ------------------------ The affixes ठक् and छ come after the word शर्करा in the 4-fold sense. Thus of the word शर्करा there are altogether six forms denoting locality, namely two formed by this *sutra*, two by the last, and two by the *sutra* (4.2.80). Thus शर्करा, शार्कर꣡म्, शर्करिक꣡म् (formed by ठच्), शार्करक꣡म् (formed by कक्), शार्करिक꣡म् (formed by ठक्), and शार्करीयम् (by छ). Kashika ------- शर्कराशब्दाट् ठक् छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ। यथासंभवमर्थसंबन्धः। शार्करिकम्। शर्करीयम्॥ Siddhanta Kaumudi ----------------- शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥ Balamanorama ------------ **ठक्छौ च** - ठक्छौ च ।शर्कराया इत्यनुवर्तते । तदाह — शर्कराया एतौ स्त इति । ठच्ककाविति । कुमुदादित्वाट्ठच्, वराहादित्वात्कगिति विवेकः । वाग्रहणेति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयथ्र्यादिति भावः । शर्करेति । अणो लुपि युर्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । ठकि रूपम् । शर्करीयमिति । छे रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करकमिति । ककि रूपम् । शर्कराः सन्त्यस्मिन्नित्यर्थः, शर्कराबिर्निर्वृत्तमपि वा । Padamanjari ----------- 'तदस्यास्त्यस्मिन्' इति मतुपि सिद्धे वचनमिदं तदस्मिन्नस्तीति प्राप्तस्याणो बाधनार्थं निवृताद्यर्थं च, तत्सूचितम् - चातुरथिंक इति । देशस्य विशेषणं नदीति । यद्यपि'विशिष्टलिङ्ग' इत्यत्रोक्तम् -'नदीग्रहणमदेशत्वात् जनपदो हि देशः' इति, इह तु नद्यां देश इति; सम्बन्धसामर्थ्यादजनपदो देशग्रहणेन गृह्यते, एवं च पर्वतेष्वपि चातुरर्थिको भवति । अन्ये त्वाहुः - नद्यपि देश एव, लोकप्रसिद्धेः;'विशिष्टलिङ्ग' इत्यत्र तु नदीग्रहणं यस्य द्वन्द्वस्य सर्व एवावयवो नदीवचनस्तत्परिग्रहार्थम्, यत्र कश्चिदवयवोनदीवचनः, कश्चिदन्यदेशवाची - तत्र मा भूदित्येवमर्थमिति । उदुम्बरावतीत्यादौ'मतौ बह्वचो' नजिरादीनाम्ऽ इति दीर्घत्वम् । भागीरथीति ।'तेन निर्वृतम्' इत्यण् ॥ Prakriyasarvasvam ----------------- शार्करिकः । शर्करियः । कुमुदादित्वात् ठच्, वराहादित्वात् कक् चास्ति । ठचि शर्करिकः । ककि 'केऽणः' (७-४-१३) इति ह्रस्वः । शार्करकः ॥