42085: नद्यां मतुप्¶
Padacheda: नद्याम् | S | 7 | 1 |
मतुप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix मतुप् is added denoting a river.
Vasu English Translation¶
The affix मतुप् is added denoting a river. When the name of a river is to be designated by something which is found near it, we add the affix मतुप् (मत् and वत्). Thus उदुम्बरा꣡वती, मशका꣡वती, वीरणा꣡वती, पुष्करा꣡वती, इक्षु꣡मती, द्रु꣡मती ॥ See (6.3.119) by which the अ is lengthened in these words, and (6.1.219) by which the udatta is placed on this vowel. See (8.2.10) by which मत् becomes वत् ॥
The affix मतुप् is not however employed in forming the river-names भागीरथी and भैमरथी, which are formed by अण् added under (4.2.68).
Bhashya¶
नद्यां मतुप् (1506) (मतुबधिकरणम्) (आक्षेपभाष्यम्) किमर्थं नद्यां मतुब्विधीयते, न तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्येव सिद्धम्॥ (5387 समाधाने वार्तिकम्॥ 1 ॥) - नद्यां मतुब्वचनं मत्वर्थेऽण्विधानात् - (भाष्यम्) नद्यां मतुब्वचनं क्रियते मत्वर्थेऽण्विधानात्। अयं मत्वर्थेऽण्विधीयते, स विशेषविहितः सामान्यविहितं मतुपं बाधेत॥ (5388 समाधानान्तरबोधकं वार्तिकम्॥ 2 ॥) - निर्वृत्ताद्यर्थं च - (भाष्यम्) निर्वृत्ताद्यर्थं च नद्यां मतुब्वचनं क्रियते। निर्वृत्ताद्यर्थेषु मतुब्यथा स्यात्॥
Kashika¶
नद्यामभिधेयायां मतुप् प्रत्ययो भवति चातुरर्थिकः। तन्नाम्नो देशस्य विशेषणं नदी। उदुम्बरा यस्यां सन्ति उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। इक्षुमती। द्रुमती। इह कस्माद् न भवति — भागीरथी। भैमरथी? मतुबन्तस्यातन्नामधेयत्वात् ।
Siddhanta Kaumudi¶
चातुरर्थिकः । इक्षुमती ॥
Balamanorama¶
नद्यां मतुप् - नद्यां मतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षमतीति । मतुपि उपावितौ । इक्षवः सन्त्यस्मिन् इत्यर्थः ।
Nyaas¶
`उदुम्बरावती`इति। मतौ बह्वचोऽनजिरादीनाम् (6.3.119) इति दीर्घः॥
Prakriyasarvasvam¶
नद्यां वाच्यायाम् उक्तार्थेष्वण्बाधको मतुप् स्यात् ॥