42049: पाशादिभ्यो यः¶
Padacheda: पाश-आदिभ्यः | S | 5 | 3 |
यः | S | 1 | 1 |
Sutrartha¶
पाशादिगणस्य शब्दानां विषये ‘तस्य समूहः’ अस्मिन् अर्थे य-प्रत्ययः भवति ।
पाशादिगणस्य शब्देभ्यः तस्य समूहः (4.2.37) अस्मिन् अर्थे ‘य’ प्रत्ययः भवति । एते सर्वे शब्दाः प्रयोगवशात् स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः स्त्रीत्वं द्योतयितुम् एतेषाम् टाप्-प्रत्ययः अपि भवति । पाशादिगणः अयम् - पाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन । यथा - 1. पाशानां समूहः पाश्या । 2. तृणानां समूहः तृण्या । 3. धूमानां समूहः धूम्या । 4. वातानां समूहः वात्या । 5. अङ्गाराणां समूहः अङ्गार्या । 6. पोतानां समूहः पोत्या । 7. बालकानां समूहः बालक्या । 8. पिटकानां समूहः पिटक्या । 9. पिटाकानां समूहः पिटाक्या । 10. शकटानां समूहः शकट्या । 11. हलानां समूहः हल्या । 12. नडानां समूहः नड्या । 13. वनानां समूहः वन्या । एतेषु सर्वेषु प्रक्रियायाम् यस्येति च (6.4.148) इत्यनेन अन्तिमवर्णलोपं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययं योजयित्वा अन्तिमं रूपं सिद्ध्यति ।
Sutrartha (English)¶
The words of पाशादिगण get the प्रत्यय ‘य’ in the meaning of ‘तस्य समूहः’
Vasu English Summary¶
The affix य comes in the sense of ‘collection thereof’ after the words पाश etc.
Vasu English Translation¶
The affix य comes in the sense of ‘collection thereof’ after the words पाश etc. Thus पाश्या, तृण्या &c. These words are feminine.
1 पाश, 2 तृण, 3 धूम, 4 वात, 5 अङ्गार, 6 पाढल (पाटलका K.), 7 पोत, 8 गल, 9 पिटक, 10 पिटाक, 11 शकट, 12 हल, 13 मट (नड K.), 14 वन. also 15 बालक.
Bhashya¶
पाशादिभ्यो यः( 1472) (यप्रत्ययाधिकरणम्) (गणपठितशब्देभ्यः समूहार्थे प्रत्ययोपपादकभाष्यम्) पाशतृणधूमवात्। (5370 गणे वातशब्दपाठक्षेपे वार्तिकम्॥ 1 ॥) - पृथग्वातादर्शनादसमूहः - (भाष्यम्) पृथग्वातादर्शनादयुक्तोऽयं वातशब्दस्य सामूहिके पाठः। न हि पृथग्वाता दृश्यन्ते। न तर्हीदानीमिदं भवति -वात्येति? भवति॥ (5371 गणे वातशब्दपाठोपपादकं वार्तिकम् ॥ 2 ॥) - शीघ्रत्वे तु - (भाष्यम्) शीघ्रो वातो वात्या। अथ वा पृथग्वाता अपि दृश्यन्ते। तद्यथा -पूर्वो वातः, उत्तरो वातः, सर्वतो वातः, वाता वान्तु दिशो दश॥
Kashika¶
पाशादिभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या॥ पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन॥
Siddhanta Kaumudi¶
पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥
Balamanorama¶
पाशादिभ्यो यः - पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् ।
Nyaas¶
अचित्तलक्षणके कठि प्राप्ते वचनमिदम्॥
Prakriyasarvasvam¶
पाशतृणधूमाङ्गारशलवातपिटकपिटाकपटाकशकटहलनटवनेभ्यश्च । समूहे ये ‘निकटचत्वरा’ इति लिङ्गशास्त्रात् स्त्रीत्वम् । पाशानां समूहः पाश्या । तृण्या । धूम्या । अङ्गार्या । शलं शल्यरोम, शल्या । पटाकः पताका, पटाक्या । टीकासर्वस्वे तु गलसमूहो गल्या । पोटगलो नलतृणं, तत्समूहः पोटगल्येति चोक्तम् ॥
Sutra Prayogas¶
वात्ययेव (रघुवंशम्): पाशादिभ्यो यः इति यः।
वात्याभिः (किरातार्जुनीयम्): वातादिभ्यो यत् (पाशादिभ्यो यः - ४.२.४९ अन्तर्गतं गणसूत्रम्) इति यप्रत्ययः।