42049: पाशादिभ्यो यः ==================== **Padacheda:** पाश-आदिभ्यः | S | 5 | 3 | यः | S | 1 | 1 | Sutrartha --------- **पाशादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे य-प्रत्ययः भवति ।** पाशादिगणस्य शब्देभ्यः **तस्य समूहः** (4.2.37) अस्मिन् अर्थे 'य' प्रत्ययः भवति । एते सर्वे शब्दाः प्रयोगवशात् स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः स्त्रीत्वं द्योतयितुम् एतेषाम् टाप्-प्रत्ययः अपि भवति । पाशादिगणः अयम् - पाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन । यथा - 1. पाशानां समूहः पाश्या । 2. तृणानां समूहः तृण्या । 3. धूमानां समूहः धूम्या । 4. वातानां समूहः वात्या । 5. अङ्गाराणां समूहः अङ्गार्या । 6. पोतानां समूहः पोत्या । 7. बालकानां समूहः बालक्या । 8. पिटकानां समूहः पिटक्या । 9. पिटाकानां समूहः पिटाक्या । 10. शकटानां समूहः शकट्या । 11. हलानां समूहः हल्या । 12. नडानां समूहः नड्या । 13. वनानां समूहः वन्या । एतेषु सर्वेषु प्रक्रियायाम् **यस्येति च** (6.4.148) इत्यनेन अन्तिमवर्णलोपं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययं योजयित्वा अन्तिमं रूपं सिद्ध्यति । Sutrartha (English) ------------------- The words of पाशादिगण get the प्रत्यय 'य' in the meaning of 'तस्य समूहः' Vasu English Summary -------------------- The affix य comes in the sense of 'collection thereof' after the words पाश etc. Vasu English Translation ------------------------ The affix य comes in the sense of 'collection thereof' after the words पाश etc. Thus पाश्या, तृण्या &c. These words are feminine. 1 पाश, 2 तृण, 3 धूम, 4 वात, 5 अङ्गार, 6 पाढल (पाटलका K.), 7 पोत, 8 गल, 9 पिटक, 10 पिटाक, 11 शकट, 12 हल, 13 मट (नड K.), 14 वन. also 15 बालक. Bhashya ------- पाशादिभ्यो यः( 1472) (यप्रत्ययाधिकरणम्) (गणपठितशब्देभ्यः समूहार्थे प्रत्ययोपपादकभाष्यम्) पाशतृणधूमवात्। (5370 गणे वातशब्दपाठक्षेपे वार्तिकम्॥ 1 ॥) - पृथग्वातादर्शनादसमूहः - (भाष्यम्) पृथग्वातादर्शनादयुक्तोऽयं वातशब्दस्य सामूहिके पाठः। न हि पृथग्वाता दृश्यन्ते। न तर्हीदानीमिदं भवति -वात्येति? भवति॥ (5371 गणे वातशब्दपाठोपपादकं वार्तिकम् ॥ 2 ॥) - शीघ्रत्वे तु - (भाष्यम्) शीघ्रो वातो वात्या। अथ वा पृथग्वाता अपि दृश्यन्ते। तद्यथा -पूर्वो वातः, उत्तरो वातः, सर्वतो वातः, वाता वान्तु दिशो दश॥ Kashika ------- पाशादिभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या॥ पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन॥ Siddhanta Kaumudi ----------------- पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥ Balamanorama ------------ **पाशादिभ्यो यः** - पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् । Nyaas ----- अचित्तलक्षणके कठि प्राप्ते वचनमिदम्॥ Prakriyasarvasvam ----------------- पाशतृणधूमाङ्गारशलवातपिटकपिटाकपटाकशकटहलनटवनेभ्यश्च । समूहे ये 'निकटचत्वरा' इति लिङ्गशास्त्रात् स्त्रीत्वम् । पाशानां समूहः पाश्या । तृण्या । धूम्या । अङ्गार्या । शलं शल्यरोम, शल्या । पटाकः पताका, पटाक्या । टीकासर्वस्वे तु गलसमूहो गल्या । पोटगलो नलतृणं, तत्समूहः पोटगल्येति चोक्तम् ॥ Sutra Prayogas -------------- * **वात्ययेव** (रघुवंशम्): `पाशादिभ्यो यः` इति यः। * **वात्याभिः** (किरातार्जुनीयम्): `वातादिभ्यो यत्` (पाशादिभ्यो यः - ४.२.४९ अन्तर्गतं गणसूत्रम्) इति यप्रत्ययः।