42050: खलगोरथात्¶
Padacheda: खल-गो-रथात् | S | 5 | 1 |
Sutrartha¶
‘तस्य समूहः’ अस्मिन् अर्थे ‘खल’, ‘गो’, तथा ‘रथ’ - एतेभ्यः शब्देभ्यः य-प्रत्ययः भवति ।
तस्य समूहः (4.2.37) अस्मिन् अर्थे खल, गो, रथ - एतेभ्यः य-प्रत्ययः विधीयते । यत्-प्रत्ययान्तशब्दाः प्रयोगवशात् केवलं स्त्रीलिङ्गे भवन्ति, अतः प्रक्रियायां स्त्रीत्वं द्योतयितम् टाप्-प्रत्ययस्य विधानमपि भवति । यथा - 1) खलानां समूहः = खल + य + टाप् → खल् + य + आ [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → खल्या 2) गवाम् समूहः गो + य + टाप् → गव् + य + आ [वान्तो यि प्रत्यये (6.1.79) इति ओ-इत्यस्य अव्-आदेशः] → गव्या 3) रथ + य + टाप् → रथ् + य [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → रथ्या ज्ञातव्यम् - वस्तुतः पाशादिभ्यो यः (4.3.36) इत्यनेन पाशादिगणस्य शब्दानां विषये य-प्रत्ययविधानं कृतमस्ति । अतः अस्मिन् सूत्रे निर्दिष्टानां त्रयाणां शब्दानाम् पाशादिगणे एव किमर्थम् समावेशः न क्रियते (नूतनसूत्रनिर्माणं किमर्थम् कृतम्) - इति प्रश्नः आगच्छति । तस्य उत्तरार्थम् काशिकाकारः वदति - ‘पाशादिषु अपाठः उत्तरार्थः’ । इत्युक्ते, अग्रिमसूत्रे केवलं एतेषाम् त्रयाणामेव अनुवृत्तिः करणीया, अतः तेषाम् निर्देशः भिन्नसूत्रेण कृतः अस्ति ।
Sutrartha (English)¶
The words खल, गो and रथ get the प्रत्यय ‘य’ to indicate the meaning of ‘तस्य समूहः’.
Vasu English Summary¶
The affix य comes in the sense of ‘collection thereof’ after the words 1. खल 2 गो and 3. रथ।
Vasu English Translation¶
The affix य comes in the sense of ‘collection thereof’ after the words 1. खल 2 गो and 3. रथ। Thus खल्या, गव्या and रथ्या ॥ These three words have not been included in the पाशादि class, in order that rule (4.2.51) should apply to them.
Bhashya¶
खलगोरथात् (1473)
Kashika¶
खलगोरथशब्देभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठ उत्तरार्थः॥
Siddhanta Kaumudi¶
खल्या । गव्या । रथ्या ॥
Balamanorama¶
खलगोरथात् - खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गव्य रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः ।
Padamanjari¶
अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह - पाशादिष्वपाठ इति ॥
Nyaas¶
गोशब्दादणि प्राप्ते, खलरथाब्यामचित्तलक्षणे ठकीदं वचनम्। अत्र पाशादिष्वेव खलादीनां पाठः कस्मान्न कृतः? इत्याह - पाशादिष्वपाठ उत्तरार्थः इति। उत्तरसूत्र इनित्रकटचः खलादिभ्य एव यथा स्युः, पाशादिभ्यो मा भूदिति॥
Prakriyasarvasvam¶
एभ्योऽपि यः स्यात् । खलगणः, खल्या । गव्या । रथ्या ॥
Sutra Prayogas¶
रथ्याघोषैः (शिशुपालवधम्): खलगोरथात् इति यत्प्रत्ययः समूहार्थे।