42048: केशाश्वाभ्यां यञ्छावन्यतरस्याम्¶
Padacheda: केश-अश्वाभ्याम् | S | 5 | 2 |
यञ्-छौ | S | 1 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘तस्य समूहः’ अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति ।
तस्य समूहः (4.2.37) अस्मिन् अर्थे - 1) ‘केश’ शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे अचित्तहस्तिधेनोष्ठक् (4.2.47) इत्यनेन ठक्-प्रत्ययः अपि विधीयते । 2) ‘अश्व’शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते । यथा - 1) केशानां समूहः कैश्यम् कैशिकम् वा । यञ्-प्रत्यये परे प्रक्रिया - केश + यञ् → कैश + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कैश् + य [यस्येति च (6.4.148) इति अकारलोपः] → कैश्य (पक्षे) ठक्-प्रत्यये परे प्रक्रिया - केश+ ठक् → केश + इक [ठस्येकः (8.3.50) इति इक्-आदेशः] → कैश + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कैश् + इक [यस्येति च (6.4.148) इति अकारलोपः] → कैशिक 2) अश्वानां समूहः अश्वीयमाश्वम् वा । छ-प्रत्यये परे प्रक्रिया - अश्व + छ → अश्व + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय्-आदेशः] → अश्व् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → अश्वीय (पक्षे) अण्-प्रत्यये परे प्रक्रिया- अश्व + अण् → अाश्व + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → आश्व् + अ [यस्येति च (6.4.148) इति अकारलोपः] → आश्व
Sutrartha (English)¶
The word केश optionally gets the प्रत्यय यञ् to indicate the meaning of ‘तस्य समूहः’. The word अश्व optionally gets the प्रत्यय छ to indicate the meaning of ‘तस्य समूहः’
Vasu English Summary¶
The affixes यञ् and छ come optionally in the sense of ‘collection thereof’ after the words 1. केश and 2. अश्व , respectively.
Vasu English Translation¶
The affixes यञ् and छ come optionally in the sense of ‘collection thereof’ after the words 1. केश and 2. अश्व , respectively. Thus केशानां समूहः = कैश्यम् or कैशिकम् (4.2.47), अश्वानां समूहः = आश्वम् (4.1.63) अश्वीयम् ॥
Kashika¶
केश अश्व इत्येताभ्यां यथासंख्यं यञ् छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूह इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्। कैशिकम्। अश्वानां समूहः अश्वीयम्। आश्वम्॥
Siddhanta Kaumudi¶
पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥
Balamanorama¶
केशाश्वाभ्यां यञ्छावन्यतरस्याम् - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयमाआमिति । क्रमेण छाऽणौ ।
Nyaas¶
केशशब्दादचित्तलक्षमे ठकि प्राप्ते वचनमिदम्। अआशब्दादप्यणि सूत्रमिदमारभ्यते। अन्यतरस्यांग्रहमाट्ठगणावपि भवतः॥
Prakriyasarvasvam¶
आभ्यां क्रमाद् यञ्छौ वा स्तः । कैश्यम् । अचित्तत्वाट्ठकि कैशिकम् । अश्वीयम् । आश्वम् ॥
Sutra Prayogas¶
अश्वीय (भट्टिकाव्यम्): केशाश्वाभ्यां यञ्छौ इति छः।