42048: केशाश्वाभ्यां यञ्छावन्यतरस्याम् ====================================== **Padacheda:** केश-अश्वाभ्याम् | S | 5 | 2 | यञ्-छौ | S | 1 | 2 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **'तस्य समूहः' अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति ।** **तस्य समूहः** (4.2.37) अस्मिन् अर्थे - 1) 'केश' शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे **अचित्तहस्तिधेनोष्ठक्** (4.2.47) इत्यनेन ठक्-प्रत्ययः अपि विधीयते । 2) 'अश्व'शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते । यथा - 1) केशानां समूहः कैश्यम् कैशिकम् वा । यञ्-प्रत्यये परे प्रक्रिया - केश + यञ् → कैश + य [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कैश् + य [**यस्येति च** (6.4.148) इति अकारलोपः] → कैश्य (पक्षे) ठक्-प्रत्यये परे प्रक्रिया - केश+ ठक् → केश + इक [**ठस्येकः** (8.3.50) इति इक्-आदेशः] → कैश + इक [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कैश् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → कैशिक 2) अश्वानां समूहः अश्वीयमाश्वम् वा । छ-प्रत्यये परे प्रक्रिया - अश्व + छ → अश्व + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईय्-आदेशः] → अश्व् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → अश्वीय (पक्षे) अण्-प्रत्यये परे प्रक्रिया- अश्व + अण् → अाश्व + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → आश्व् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → आश्व Sutrartha (English) ------------------- The word केश optionally gets the प्रत्यय यञ् to indicate the meaning of 'तस्य समूहः'. The word अश्व optionally gets the प्रत्यय छ to indicate the meaning of 'तस्य समूहः' Vasu English Summary -------------------- The affixes यञ् and छ come optionally in the sense of 'collection thereof' after the words 1. केश and 2. अश्व , respectively. Vasu English Translation ------------------------ The affixes यञ् and छ come optionally in the sense of 'collection thereof' after the words 1. केश and 2. अश्व , respectively. Thus केशानां समूहः = कैश्यम् or कैशिकम् (4.2.47), अश्वानां समूहः = आश्वम् (4.1.63) अश्वीयम् ॥ Kashika ------- केश अश्व इत्येताभ्यां यथासंख्यं यञ् छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूह इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्। कैशिकम्। अश्वानां समूहः अश्वीयम्। आश्वम्॥ Siddhanta Kaumudi ----------------- पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥ Balamanorama ------------ **केशाश्वाभ्यां यञ्छावन्यतरस्याम्** - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयमाआमिति । क्रमेण छाऽणौ । Nyaas ----- केशशब्दादचित्तलक्षमे ठकि प्राप्ते वचनमिदम्। अआशब्दादप्यणि सूत्रमिदमारभ्यते। अन्यतरस्यांग्रहमाट्ठगणावपि भवतः॥ Prakriyasarvasvam ----------------- आभ्यां क्रमाद् यञ्छौ वा स्तः । कैश्यम् । अचित्तत्वाट्ठकि कैशिकम् । अश्वीयम् । आश्वम् ॥ Sutra Prayogas -------------- * **अश्वीय** (भट्टिकाव्यम्): `केशाश्वाभ्यां यञ्छौ` इति छः।