42047: अचित्तहस्तिधेनोष्ठक्

Padacheda: अ-चित्त-हस्ति-धेनोः | S | 5 | 1 |

ठक् | S | 1 | 1 |

Sutrartha

अचित्तवाचिभ्यः शब्देभ्यः, ‘हस्ति’शब्दात् तथा ‘धेनु’शब्दात् ‘तस्य समूहः’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

तस्य समूहः (4.2.37) अस्मिन् अर्थे अचित्तवाचिभ्यः शब्देभ्यः (इत्युक्ते, ते शब्दाः ये अचेतनवस्तूनां निर्देशं कुर्वन्ति, तेभ्यः) ठक्-प्रत्ययः भवति । तथा च, ‘हस्तिन्’ तथा ‘धेनु’ - एताभ्यां शब्दाभ्यामपि अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा - 1. अपूपानां समूहः आपूपिकम् । प्रक्रिया इयम् - अपूप + ठक् → अपूप + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → आपूप + इक [किति च (7.2.118) इति आदिवृद्धिः] → आपूप् + इक [यस्येति च (6.4.148) इति अकारलोपः] → आपुपिक 2. शष्कुलीनां समूहः = शष्कुली + ठक् → शष्कुली + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → शाष्कुली + इक [किति च (7.2.118) इति आदिवृद्धिः] → शष्कुल् + इक [यस्येति च (6.4.148) इति अकारलोपः] → शाष्कुलिक 3. सक्तूनाम् समूहः = सक्तु + ठक् → सक्तु + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → साक्तु + क [किति च (7.2.118) इति आदिवृद्धिः] → साक्तुक 3. हस्तिनां समूहः = हस्तिन् + ठक् → हस्तिन् + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → हास्तिन् + इक [किति च (7.2.118) इति आदिवृद्धिः] → हास्त् + इक [नस्तद्धिते (6.4.144) इति टिलोपः] → हास्तिक 4. धेनूनां समूहः = धेनु + ठक् → धेनु + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → धैनु + क [किति च (7.2.118) इति आदिवृद्धिः] → धैनुक अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!धेनोः अनञ् इति वक्तव्यम्!> । इत्युक्ते, नञ्-समासे विद्यमानस्य धेनु-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः तत्र औत्सर्गिकरूपेण अण्-प्रत्ययः एव क्रियते । यथा - अधेनूनाम् समूहः = अधेनु + अञ् [उत्सादिभ्योऽञ् (4.1.86) इति अञ्] → आधेनु + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → आधेनो + अ [ओर्गुणः (6.4.146) इति गुणादेशः] → आधेनव [एचोऽयवायावः (6.1.78) इति अवादेशः] ज्ञातव्यम् - यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि अनुदात्तादेः अञ् (4.2.44) इत्यनेन अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः एव विधीयते ।

Sutrartha (English)

For the words that represent non-living entities, and also for the words हस्तिन् and धेनु, the प्रत्यय ठक् is used to indicate the meaning of ‘तस्य समूहः’.

Vasu English Summary

The affix ठक् comes in the sense of ‘collection thereof’ after the names of things without consciousness and after 1. हस्ति and 2. धेनु।

Vasu English Translation

The affix ठक् comes in the sense of ‘collection thereof’ after the names of things without consciousness and after 1. हस्ति and 2. धेनु। This debars अण् and अञ् ॥ The अपूपानां समूहः = आपूपिकम् ॥ The affix ठक् is replaced by इक् (7.3.50) or क (7.3.50). Thus हास्तिकम्, धेनुकम्, शाष्कुलिकम् ॥

Vart:- Not so, if the word धेनु is preceded by the negative particle नञ् ॥ As आधेनवम् (See IV. 2.45).

Kashika

अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूह आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्॥ धेनोरनञ इति वक्तव्यम्॥ आधेनवम् ॥

Siddhanta Kaumudi

साक्तुकम् । हास्तिकम् । धैनुकम् ॥

Balamanorama

अचित्तहस्तिधेनोष्ठक् - अचित्तहस्ति । अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । ‘इसुसुक्तान्तात्कः’ इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक् इकः । टिलोपः । आदिवृद्धिः । धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वाट्ठस्य कः । आदिवृद्धिः ।

Padamanjari

अणञोरपवाद इति । अचितार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चितवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदातयोरनुदातादिलक्षणस्याञोऽपवादः । हस्तिशब्दः’हस्ताज्जातौ’ इतीनिप्रत्ययान्तः । धेनुशब्दः’घेटो’ नुश्चऽ इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्,’जङ्गलधेनुवलजान्तस्य’ इति पक्षे वृद्ध्यभावः ॥

Nyaas

अचित इति। अर्थप्रधानत्वान्निर्देशस्यार्थस्येदं ग्रहणम्, न स्वरूपस्य, तेनाचित्तवाचिभ्यष्ठग्विज्ञायत इत्याह - अचित्तवाचिभ्यः शब्देभ्यः इति। हस्तिधेनुशब्दयोश्च शब्दप्रधानत्वान्निर्देशस्य स्वरूपग्रहणम्। अत एव हस्तिधेनुशब्दाभ्याम् इति।{धेनोरनञ इति वक्तव्यम् - इति वार्तिकपाठः।} अधेनोरिति वक्तव्यम् इति। धेनुशब्दादनञ्पूर्वाट्ठग् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - वक्ष्यमाणमिहान्यतरस्यांग्रहणमुभयोरपि योगयोः शेषो विज्ञायते, व्यवस्थिविभाषा च।तेन धेनुशब्दादनञ्पूर्वादेव भवतीति, न नञ्पूर्वादिति। आधेनवम् इति। उत्सादिभ्योऽञ् (4.1.86) । ननु च धेनुशब्दस्तत्र पठते, तत्कथमधेनुशब्दाद्भवतीति?तत्रापि तदन्तविधेः सम्भवात्। तत् कथं विज्ञायते? वष्कयास इति वष्कयशब्दस्य समासे प्रतिषेधात्। वष्कयशब्दाद्धि प्रत्ययविधानम्, गोवष्कयशब्दान्न प्राप्नोति,किं समासप्रतिषेधेन? इतः प्रतिषेधाद्विज्ञायते - अस्ति तत्र तदन्तविधिरिति॥

Prakriyasarvasvam

अचेतनेभ्यः, आपूपिकम् । पार्वतिकम् । ‘नस्तद्धिते’ हास्तिकम् । उगन्ताट्टस्य कः । धैनुकम् । सामूहिके तदन्तविध्युक्तेर्वनहस्तिकम् । सुधेनूनां समूह इत्यत्र-

Vartika

धेनोरनञ इति वक्तव्यम् ।

Sutra Prayogas

  • हास्तिका (भट्टिकाव्यम्): अचित्त हस्ति इति ठक्।