42046: चरणेभ्यो धर्मवत्¶
Padacheda: चरणेभ्यः | S | 5 | 3 |
धर्मवत् | S | 0 | 0 |
Sutrartha¶
चरणवाचिभ्यः (= पद्यपङ्क्तिवाचिभ्यः ) प्रातिपदिकेभ्यः ‘चरणात् धर्माम्नानयोः इष्यते’ अनेन वार्त्तिकेन उक्ताः प्रत्ययाः ‘तस्य समूहः’ अस्मिन् अर्थे अपि विधीयन्ते ।
अस्मिन् सूत्रे ‘चरण’ शब्दः ‘पद्यपङ्क्तिः’ (पद्यस्य एकः श्लोकः एका ऋक् वा) अस्मिन् अर्थे प्रयुक्तः अस्ति । यत् प्रातिपदिकम् ‘चरणवाची’ प्रातिपदिकमस्ति, इत्युक्ते, यत् प्रातिपदिकम् पद्यपङ्क्तेः नाम्नः निर्देशं करोति, तस्मात् प्रातिपदिकात् तस्य समूहः (4.2.37) अस्मिन् अर्थे कीदृशम् प्रत्ययचयनम् करणीयमस्य सिद्धान्तः अस्मिन् सूत्रे उक्तः अस्ति । किमुच्यते अनेन सूत्रेण? गोत्रचरणात् वुञ् (4.3.126) अस्मिन् सूत्रे <!चरणात् धर्माम्नाययोः इष्यते!> इति वार्त्तिकम् पाठितमस्ति । अस्मिन् वार्त्तिके यः ‘धर्म’ शब्दः प्रयुक्तः अस्ति, तस्यैव निर्देशः वर्तमानसूत्रे ‘धर्मवत्’ इत्यनेन क्रियते । अतः वर्तमानसूत्रस्य आशयः अयम् - <!चरणात् धर्माम्नाययोः इष्यते!> अनेन वार्त्तिकेन चरणवाचिभ्यः शब्देभ्यः ‘तस्य धर्मः’ अस्मिन् अर्थे ये प्रत्ययाः भवन्ति, ते एव तस्य समूहः (4.2.37) अस्मिन् अर्थे अपि करणीयाः । यथा - 1. ‘कठानाम् धर्मः’ इत्यस्मिन् अर्थे कठ्-शब्दात् ‘तस्य धर्मः’ अस्मिन् अर्थे गोत्रचरणात् वुञ् (4.3.126) इत्यनेन वुञ्-प्रत्ययः उच्यते । कठानां धर्मः काठकम् । अतः समूहार्थे अपि ‘कठ’ शब्दात् ‘वुञ्’ प्रत्ययः एव करणीयः । कठानां समूहः = काठकम् । 2. ‘कलापानाम् धर्मः’ इत्यस्मिन् अर्थे कलाप-शब्दात् ‘तस्य धर्मः’ अस्मिन् अर्थे गोत्रचरणात् वुञ् (4.3.126) इत्यनेन
वुञ्-प्रत्ययः उच्यते । कलापानां धर्मः कालापकम् । अतः समूहार्थे अपि ‘कलाप’ शब्दात् ‘वुञ्’ प्रत्ययः एव करणीयः । कलापानां समूहः = कालापकम् ।
‘छन्दोग’ शब्दात् ‘तस्य धर्मः’ अस्मिन् अर्थे छन्दोगौ… (4.3.129) अनेन सूत्रेण’ ञ्य’ प्रत्ययः विधीयते । छन्दोगानां धर्मः छान्दोग्यम् । अतः समूहार्थे अपि छन्दोग-शब्दात् ‘ञ्य’ प्रत्ययः एव कर्तव्यः । छन्दोगानां समूहः छान्दोग्यम् ।
‘उक्थिक’ शब्दात् ‘तस्य धर्मः’ अस्मिन् अर्थे छन्दोगौ… (4.3.129) अनेन सूत्रेण’ ञ्य’ प्रत्ययः विधीयते । उक्थिकानां धर्मः औक्थिक्यम् । अतः समूहार्थे अपि उक्थिक-शब्दात् ‘ञ्य’ प्रत्ययः एव कर्तव्यः । उक्थिकानां समूहः औक्थिक्यम्।
5. ‘आथर्वणिक’ शब्दात् ‘तस्य धर्मः’ अस्मिन् अर्थे आथर्वणिकस्येकलोपश्च इत्यनेन वुञ्-प्रत्ययः, अग्रे तस्य लोपः च भवति, येन ‘आथर्वण’ इति प्रातिपदिकं सिद्ध्यति । यथा - आथर्वणिकस्य धर्मः आथर्वणः । अतः समूहार्थे अपि एतदेव रूपं जायते - आथर्वणिकानां समूहः आथर्वणः । ज्ञातव्यम् - एतत् सूत्रमतिदेशसूत्रमस्ति यतः अनेन सूत्रेण अन्य-अर्थवत् प्रक्रियाविधानं कृतमस्ति ।
Sutrartha (English)¶
For the words that represent the names of stanzas of a poem, the प्रत्ययाः that are applicable in the meaning given by the वार्त्तिक ‘चरणात् धर्माम्नानयोः इष्यते’ should also be used in the meaning of ‘तस्य समूहः’ as well.
Vasu English Summary¶
After the name of a Vedic School, the affixes which denote the rule of that school, also come in the sense of ‘collection thereof’.
Vasu English Translation¶
After the name of a Vedic School, the affixes which denote the rule of that school, also come in the sense of ‘collection thereof’. The Vedic Schools or Charanas are like कठ, कलाप &c. The affixes denoting the rule of the School are those taught in Sutra (4.3.126) &c. The word धर्म does not occur in the Sutra (4.3.126), or any where else, but it occurs in the following ishti under that Sutra:-चरणद्धर्माम्नाययोः ॥ Thus कठानां धर्म = काठकम्, so also कठानां समूहः = काठकम् ॥ Similarly कालापकम्, छान्दोग्यम्, औक्धिक्यम् and आथर्वणम् ॥
Kashika¶
चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति। गोत्रचरणाद् वुञ् (४.३.१२६) इत्यारभ्य प्रत्यया वक्ष्यन्ते, तत्रेदमुच्यते चरणाद् धर्माम्नाययोः० (वा० ४.३.१२६) इति, तेन धर्मवदित्यतिदेशः क्रियते। वतिः सर्वसादृश्यार्थः। कठानां धर्मः काठकम्। कालापकम्। छान्दोग्यम्। औक्थिक्यम्। आथर्वणम्। तथा समूहेऽपि। काठकम्। कालापकम्। छान्दोग्यम्। औक्थिक्यम्। आथर्वणम्॥
Siddhanta Kaumudi¶
काठकम् । छान्दोग्यम् ॥
Balamanorama¶
चरणेभ्यो धर्मवत् - चरणेभ्यो धर्मवत् । चरणाः=शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । ‘गोत्रचरणाद्वुञ्’ इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति । छान्दोग्यमिति । छन्दोगाः-सामशाखिनः, तेषां समूह इति विग्रहः ।छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः॑ इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति ।
Tattvabodhini¶
चरणेभ्यो धर्मवत् - चरणेभ्यः । यस्याः प्रकृतेर्यः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्य्रथः । वुञादयो हि चरणेभ्यो वक्ष्यन्ते । तत्रचरणाद्धर्माम्नाययो॑रिति तु वार्तिकम् । तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते । काठकमित्यादि । गोत्रचरणाद्वुञ् । छान्दोग्यमिति ।छन्दोगौक्थिके॑तिञ्यः । यच्छाविति । यथासङ्ख्यं स्तः । ठगणाविति । केशशब्दादचित्तत्वेन ठक् ।
Padamanjari¶
गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते इति । ननु च न तत्र धर्मग्रहणमस्ति, तत्कथं धर्मवदित्यतिदेशो युज्यत इत्याह - तत्रेदमिति । इदमेव धर्मवदितिवचनं लिड्गमस्ति, तत्र चरणाद्धर्माम्नाययोरिति । वतिः सर्वसादृश्यार्थ इति । असति तस्मिन्’चरणेभ्यो धर्मः’ इत्युच्यमाने यदि तावदेवं सम्बन्धः, चरणेभ्यो धर्मे ये प्रत्यया विधास्यन्ते ते भवन्ति, समूह इति समूहप्रकृतिरविशेषिता स्यात्, ततश्च काकादिभ्योऽपि वुञादयः प्रसज्येरन् । अथ पुनरेवं सम्बन्धः - धर्मे ये प्रत्यया विधास्यन्ते ते चरणेभ्यः समूहे भवन्तीति ? एवमपि धर्मप्रत्यया न विशेषिताः स्युः, ततश्च’तस्येदम्’ इति विधास्यमाना अणादयोऽपि कठादिभ्य आपद्येरन् । अथाप्येवं सम्बन्धः - चरणेभ्यो धर्मे ये प्रत्ययास्ते भवन्ति चरणेभ्य एव समूह इति ? तत्र सकृत् श्रुतस्य चरणशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः, अथापि लभ्येत ? एवमपि यः कश्चिद्धर्मे प्रत्ययो यतः कुतश्चिच्चरणशब्दात्स्यात्,’कौपिञ्जलहास्तिपदादण्’ कठादिभ्योऽपि स्यात्, वतिनिर्देशे तु सति सर्वसादृश्यपरिग्रहो भवति । तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया धर्मे विधास्यन्ते, इहापि ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव भवन्तीति न किञ्चिदनिष्टम् । काठकम्, कालापकमिति । गोत्रचरणाद्वुञ् । छान्दीग्यमिति ।’च्छन्दोगौक्थिक’ इति ञ्यः । आथर्वणमिति । ठाथर्वणिकस्येकलोपश्चऽ इत्यण्, इकलोपश्च ॥
Nyaas¶
गोतर्चरणाद्वुञित्यारभ्य इति। ननु च तत्र धर्मग्रहमं नास्ति, तत्कथं धर्मवदित्यतिदेशः प्रयुज्यते? इत्याह - तत्रेदम् इत्यादि। इदमेव धर्मवदिति वचनं लिङ्गभूतं गमयति - चरणाद्धर्माम्नाययोः (वा।476) इत्येतद्वचनं शेषभूतमिति। न हि तेन विनाऽदेश उपपद्यते। वतिः सादृश्यार्थः इति। असति हि वतौ यदि चरणग्रहणं धर्मप्रत्ययैरभिसम्बध्यते - चरणेभ्यो धर्मेऽभ्यो ये प्रत्यया अभिधास्यन्ते ते भवन्ति तस्य समूहः (4.2.37) इत्येतस्मिन्नर्थ इति, समूहप्रकृतिर्न विशेषिता स्यात्। एवञ्चेह प्रकृतिमात्राद्धर्मप्रत्ययाः प्रसज्येरन्। अथ प्रकृतिः सम्बध्यते - धर्मे ये विधास्यन्ते प्रत्ययास्ते भवन्ति। चरणेभ्यः समूहः इत्येतस्मिन्नर्थे, एवमपि धर्मप्रत्ययान विशेषिताः स्युः। ततश्चाचरणेभ्योऽपि ये धर्मे विधास्यन्ते प्रत्ययास्तेऽपीह चरणेभ्य आपद्येरन्। अथाप्युभयसन्निधानादुभयं विशेष्यते, तेन वाक्यभेदं कृत्वा प्रत्ययैः प्रकृतिभिः सम्बध्यते - चरणेभ्यो धर्मेऽथ ये प्रत्यया विधास्यन्ते ते समूहे भवन्ति चरणेभ्य इति? एवमपि कश्चित् चरणप्रकृतिकः प्रत्ययो यतः कुतश्चिच्चरणात् समूहे स्यात्। कौपिञ्जलहास्तिपदादण् (4.3.132) छन्दोग#आदिभ्योऽपि स्यात्। वतौ तु तस्य सादृश्ये विधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यश्चरणविशेषणेन ये प्रत्ययाः विहिताः , इहापि ताभ्यः प्रकृतिस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टमापद्यते। तस्मात् सर्वसादृश्यपरिग्रहार्थं वत्करणं कर्तव्यम्। ` काठकम्, कालापकम्` इति। गोत्रचरणाद्वुञ् (4.3.126) । छान्दोग्यम्, औक्थिक्यम् इति। छन्दोगोक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः (4.3.129) इति ञ्यः। आथर्वणम् इति। कौपिञ्जलहास्तिपदादण् (4.3.132) ,**आथर्वणिकस्येकलोपश्च** (4.3.133) इत्यण्, इकलोपश्च। एते प्रत्यया यथा चरणेभ्यो धर्मे भवन्ति, तथा समूहेऽपि॥
Prakriyasarvasvam¶
‘तस्येद’ (४-३-१२०) मित्यारभ्य तस्य धर्म इत्यर्थे चरणेभ्यो वुञ्, छन्दोगादेर्ञ्यः इत्यादि वक्ष्यते । तत्समूहेऽपि तथैव स्यात् । शाखाभेदकृताः कठादिसंज्ञाश्चरणाख्याः । वुञि, कठानां समूहः काठकम् । छन्दोगानां छान्दोग्य- मित्यादि ॥