42047: अचित्तहस्तिधेनोष्ठक् =========================== **Padacheda:** अ-चित्त-हस्ति-धेनोः | S | 5 | 1 | ठक् | S | 1 | 1 | Sutrartha --------- **अचित्तवाचिभ्यः शब्देभ्यः, 'हस्ति'शब्दात् तथा 'धेनु'शब्दात् 'तस्य समूहः' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।** **तस्य समूहः** (4.2.37) अस्मिन् अर्थे अचित्तवाचिभ्यः शब्देभ्यः (इत्युक्ते, ते शब्दाः ये अचेतनवस्तूनां निर्देशं कुर्वन्ति, तेभ्यः) ठक्-प्रत्ययः भवति । तथा च, 'हस्तिन्' तथा 'धेनु' - एताभ्यां शब्दाभ्यामपि अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा - 1. अपूपानां समूहः आपूपिकम् । प्रक्रिया इयम् - अपूप + ठक् → अपूप + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → आपूप + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → आपूप् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → आपुपिक 2. शष्कुलीनां समूहः = शष्कुली + ठक् → शष्कुली + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → शाष्कुली + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → शष्कुल् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → शाष्कुलिक 3. सक्तूनाम् समूहः = सक्तु + ठक् → सक्तु + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → साक्तु + क [**किति च** (7.2.118) इति आदिवृद्धिः] → साक्तुक 3. हस्तिनां समूहः = हस्तिन् + ठक् → हस्तिन् + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → हास्तिन् + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → हास्त् + इक [**नस्तद्धिते** (6.4.144) इति टिलोपः] → हास्तिक 4. धेनूनां समूहः = धेनु + ठक् → धेनु + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → धैनु + क [**किति च** (7.2.118) इति आदिवृद्धिः] → धैनुक अत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, नञ्-समासे विद्यमानस्य धेनु-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः तत्र औत्सर्गिकरूपेण अण्-प्रत्ययः एव क्रियते । यथा - अधेनूनाम् समूहः = अधेनु + अञ् [**उत्सादिभ्योऽञ्** (4.1.86) इति अञ्] → आधेनु + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → आधेनो + अ [**ओर्गुणः** (6.4.146) इति गुणादेशः] → आधेनव [**एचोऽयवायावः** (6.1.78) इति अवादेशः] ज्ञातव्यम् - यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि **अनुदात्तादेः अञ्** (4.2.44) इत्यनेन अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः एव विधीयते । Sutrartha (English) ------------------- For the words that represent non-living entities, and also for the words हस्तिन् and धेनु, the प्रत्यय ठक् is used to indicate the meaning of 'तस्य समूहः'. Vasu English Summary -------------------- The affix ठक् comes in the sense of 'collection thereof' after the names of things without consciousness and after 1. हस्ति and 2. धेनु। Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'collection thereof' after the names of things without consciousness and after 1. हस्ति and 2. धेनु। This debars अण् and अञ् ॥ The अपूपानां समूहः = आपूपिकम् ॥ The affix ठक् is replaced by इक् (7.3.50) or क (7.3.50). Thus हास्तिकम्, धेनुकम्, शाष्कुलिकम् ॥ Vart:- Not so, if the word धेनु is preceded by the negative particle नञ् ॥ As आधेनवम् (See IV. 2.45). Kashika ------- अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूह आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्॥ धेनोरनञ इति वक्तव्यम्॥ आधेनवम् ॥ Siddhanta Kaumudi ----------------- साक्तुकम् । हास्तिकम् । धैनुकम् ॥ Balamanorama ------------ **अचित्तहस्तिधेनोष्ठक्** - अचित्तहस्ति । अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः' इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक् इकः । टिलोपः । आदिवृद्धिः । धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वाट्ठस्य कः । आदिवृद्धिः । Padamanjari ----------- अणञोरपवाद इति । अचितार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चितवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदातयोरनुदातादिलक्षणस्याञोऽपवादः । हस्तिशब्दः'हस्ताज्जातौ' इतीनिप्रत्ययान्तः । धेनुशब्दः'घेटो' नुश्चऽ इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्,'जङ्गलधेनुवलजान्तस्य' इति पक्षे वृद्ध्यभावः ॥ Nyaas ----- `अचित` इति। अर्थप्रधानत्वान्निर्देशस्यार्थस्येदं ग्रहणम्, न स्वरूपस्य, तेनाचित्तवाचिभ्यष्ठग्विज्ञायत इत्याह - `अचित्तवाचिभ्यः शब्देभ्यः` इति। हस्तिधेनुशब्दयोश्च शब्दप्रधानत्वान्निर्देशस्य स्वरूपग्रहणम्। अत एव `हस्तिधेनुशब्दाभ्याम्` इति।`{धेनोरनञ इति वक्तव्यम् - इति वार्तिकपाठः।} अधेनोरिति वक्तव्यम्` इति। धेनुशब्दादनञ्पूर्वाट्ठग् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - वक्ष्यमाणमिहान्यतरस्यांग्रहणमुभयोरपि योगयोः शेषो विज्ञायते, व्यवस्थिविभाषा च।तेन धेनुशब्दादनञ्पूर्वादेव भवतीति, न नञ्पूर्वादिति। `आधेनवम्` इति। **उत्सादिभ्योऽञ्** (4.1.86) । ननु च धेनुशब्दस्तत्र पठते, तत्कथमधेनुशब्दाद्भवतीति?तत्रापि तदन्तविधेः सम्भवात्। तत् कथं विज्ञायते? वष्कयास इति वष्कयशब्दस्य समासे प्रतिषेधात्। वष्कयशब्दाद्धि प्रत्ययविधानम्, गोवष्कयशब्दान्न प्राप्नोति,किं समासप्रतिषेधेन? इतः प्रतिषेधाद्विज्ञायते - अस्ति तत्र तदन्तविधिरिति॥ Prakriyasarvasvam ----------------- अचेतनेभ्यः, आपूपिकम् । पार्वतिकम् । 'नस्तद्धिते' हास्तिकम् । उगन्ताट्टस्य कः । धैनुकम् । सामूहिके तदन्तविध्युक्तेर्वनहस्तिकम् । सुधेनूनां समूह इत्यत्र- Vartika ------- धेनोरनञ इति वक्तव्यम् । Sutra Prayogas -------------- * **हास्तिका** (भट्टिकाव्यम्): `अचित्त हस्ति` इति ठक्।