42046: चरणेभ्यो धर्मवत् ======================= **Padacheda:** चरणेभ्यः | S | 5 | 3 | धर्मवत् | S | 0 | 0 | Sutrartha --------- **चरणवाचिभ्यः (= पद्यपङ्क्तिवाचिभ्यः ) प्रातिपदिकेभ्यः 'चरणात् धर्माम्नानयोः इष्यते' अनेन वार्त्तिकेन उक्ताः प्रत्ययाः 'तस्य समूहः' अस्मिन् अर्थे अपि विधीयन्ते ।** अस्मिन् सूत्रे 'चरण' शब्दः 'पद्यपङ्क्तिः' (पद्यस्य एकः श्लोकः एका ऋक् वा) अस्मिन् अर्थे प्रयुक्तः अस्ति । यत् प्रातिपदिकम् 'चरणवाची' प्रातिपदिकमस्ति, इत्युक्ते, यत् प्रातिपदिकम् पद्यपङ्क्तेः नाम्नः निर्देशं करोति, तस्मात् प्रातिपदिकात् **तस्य समूहः** (4.2.37) अस्मिन् अर्थे कीदृशम् प्रत्ययचयनम् करणीयमस्य सिद्धान्तः अस्मिन् सूत्रे उक्तः अस्ति । किमुच्यते अनेन सूत्रेण? **गोत्रचरणात् वुञ्** (4.3.126) अस्मिन् सूत्रे इति वार्त्तिकम् पाठितमस्ति । अस्मिन् वार्त्तिके यः 'धर्म' शब्दः प्रयुक्तः अस्ति, तस्यैव निर्देशः वर्तमानसूत्रे 'धर्मवत्' इत्यनेन क्रियते । अतः वर्तमानसूत्रस्य आशयः अयम् - अनेन वार्त्तिकेन चरणवाचिभ्यः शब्देभ्यः 'तस्य धर्मः' अस्मिन् अर्थे ये प्रत्ययाः भवन्ति, ते एव **तस्य समूहः** (4.2.37) अस्मिन् अर्थे अपि करणीयाः । यथा - 1. 'कठानाम् धर्मः' इत्यस्मिन् अर्थे कठ्-शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे **गोत्रचरणात् वुञ्** (4.3.126) इत्यनेन वुञ्-प्रत्ययः उच्यते । कठानां धर्मः काठकम् । अतः समूहार्थे अपि 'कठ' शब्दात् 'वुञ्' प्रत्ययः एव करणीयः । कठानां समूहः = काठकम् । 2. 'कलापानाम् धर्मः' इत्यस्मिन् अर्थे कलाप-शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे **गोत्रचरणात् वुञ्** (4.3.126) इत्यनेन वुञ्-प्रत्ययः उच्यते । कलापानां धर्मः कालापकम् । अतः समूहार्थे अपि 'कलाप' शब्दात् 'वुञ्' प्रत्ययः एव करणीयः । कलापानां समूहः = कालापकम् । 3. 'छन्दोग' शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे **छन्दोगौ...** (4.3.129) अनेन सूत्रेण' ञ्य' प्रत्ययः विधीयते । छन्दोगानां धर्मः छान्दोग्यम् । अतः समूहार्थे अपि छन्दोग-शब्दात् 'ञ्य' प्रत्ययः एव कर्तव्यः । छन्दोगानां समूहः छान्दोग्यम् । 4. 'उक्थिक' शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे **छन्दोगौ...** (4.3.129) अनेन सूत्रेण' ञ्य' प्रत्ययः विधीयते । उक्थिकानां धर्मः औक्थिक्यम् । अतः समूहार्थे अपि उक्थिक-शब्दात् 'ञ्य' प्रत्ययः एव कर्तव्यः । उक्थिकानां समूहः औक्थिक्यम्। 5. 'आथर्वणिक' शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे **आथर्वणिकस्येकलोपश्च** इत्यनेन वुञ्-प्रत्ययः, अग्रे तस्य लोपः च भवति, येन 'आथर्वण' इति प्रातिपदिकं सिद्ध्यति । यथा - आथर्वणिकस्य धर्मः आथर्वणः । अतः समूहार्थे अपि एतदेव रूपं जायते - आथर्वणिकानां समूहः आथर्वणः । ज्ञातव्यम् - एतत् सूत्रमतिदेशसूत्रमस्ति यतः अनेन सूत्रेण अन्य-अर्थवत् प्रक्रियाविधानं कृतमस्ति । Sutrartha (English) ------------------- For the words that represent the names of stanzas of a poem, the प्रत्ययाः that are applicable in the meaning given by the वार्त्तिक 'चरणात् धर्माम्नानयोः इष्यते' should also be used in the meaning of 'तस्य समूहः' as well. Vasu English Summary -------------------- After the name of a Vedic School, the affixes which denote the rule of that school, also come in the sense of 'collection thereof'. Vasu English Translation ------------------------ After the name of a Vedic School, the affixes which denote the rule of that school, also come in the sense of 'collection thereof'. The Vedic Schools or *Charanas* are like कठ, कलाप &c. The affixes denoting the rule of the School are those taught in *Sutra* (4.3.126) &c. The word धर्म does not occur in the *Sutra* (4.3.126), or any where else, but it occurs in the following *ishti* under that *Sutra*:-चरणद्धर्माम्नाययोः ॥ Thus कठानां धर्म = काठकम्, so also कठानां समूहः = काठकम् ॥ Similarly कालापकम्, छान्दोग्यम्, औक्धिक्यम् and आथर्वणम् ॥ Kashika ------- चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति। **गोत्रचरणाद् वुञ्** (४.३.१२६) इत्यारभ्य प्रत्यया वक्ष्यन्ते, तत्रेदमुच्यते **चरणाद् धर्माम्नाययोः०** (वा० ४.३.१२६) इति, तेन धर्मवदित्यतिदेशः क्रियते। वतिः सर्वसादृश्यार्थः। कठानां धर्मः काठकम्। कालापकम्। छान्दोग्यम्। औक्थिक्यम्। आथर्वणम्। तथा समूहेऽपि। काठकम्। कालापकम्। छान्दोग्यम्। औक्थिक्यम्। आथर्वणम्॥ Siddhanta Kaumudi ----------------- काठकम् । छान्दोग्यम् ॥ Balamanorama ------------ **चरणेभ्यो धर्मवत्** - चरणेभ्यो धर्मवत् । चरणाः=शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रचरणाद्वुञ्' इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति । छान्दोग्यमिति । छन्दोगाः-सामशाखिनः, तेषां समूह इति विग्रहः ।छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः॑ इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति । Tattvabodhini ------------- **चरणेभ्यो धर्मवत्** - चरणेभ्यः । यस्याः प्रकृतेर्यः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्य्रथः । वुञादयो हि चरणेभ्यो वक्ष्यन्ते । तत्रचरणाद्धर्माम्नाययो॑रिति तु वार्तिकम् । तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते । काठकमित्यादि । गोत्रचरणाद्वुञ् । छान्दोग्यमिति ।छन्दोगौक्थिके॑तिञ्यः । यच्छाविति । यथासङ्ख्यं स्तः । ठगणाविति । केशशब्दादचित्तत्वेन ठक् । Padamanjari ----------- गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते इति । ननु च न तत्र धर्मग्रहणमस्ति, तत्कथं धर्मवदित्यतिदेशो युज्यत इत्याह - तत्रेदमिति । इदमेव धर्मवदितिवचनं लिड्गमस्ति, तत्र चरणाद्धर्माम्नाययोरिति । वतिः सर्वसादृश्यार्थ इति । असति तस्मिन्'चरणेभ्यो धर्मः' इत्युच्यमाने यदि तावदेवं सम्बन्धः, चरणेभ्यो धर्मे ये प्रत्यया विधास्यन्ते ते भवन्ति, समूह इति समूहप्रकृतिरविशेषिता स्यात्, ततश्च काकादिभ्योऽपि वुञादयः प्रसज्येरन् । अथ पुनरेवं सम्बन्धः - धर्मे ये प्रत्यया विधास्यन्ते ते चरणेभ्यः समूहे भवन्तीति ? एवमपि धर्मप्रत्यया न विशेषिताः स्युः, ततश्च'तस्येदम्' इति विधास्यमाना अणादयोऽपि कठादिभ्य आपद्येरन् । अथाप्येवं सम्बन्धः - चरणेभ्यो धर्मे ये प्रत्ययास्ते भवन्ति चरणेभ्य एव समूह इति ? तत्र सकृत् श्रुतस्य चरणशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः, अथापि लभ्येत ? एवमपि यः कश्चिद्धर्मे प्रत्ययो यतः कुतश्चिच्चरणशब्दात्स्यात्,'कौपिञ्जलहास्तिपदादण्' कठादिभ्योऽपि स्यात्, वतिनिर्देशे तु सति सर्वसादृश्यपरिग्रहो भवति । तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया धर्मे विधास्यन्ते, इहापि ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव भवन्तीति न किञ्चिदनिष्टम् । काठकम्, कालापकमिति । गोत्रचरणाद्वुञ् । छान्दीग्यमिति ।'च्छन्दोगौक्थिक' इति ञ्यः । आथर्वणमिति । ठाथर्वणिकस्येकलोपश्चऽ इत्यण्, इकलोपश्च ॥ Nyaas ----- `गोतर्चरणाद्वुञित्यारभ्य` इति। ननु च तत्र धर्मग्रहमं नास्ति, तत्कथं धर्मवदित्यतिदेशः प्रयुज्यते? इत्याह - `तत्रेदम्` इत्यादि। इदमेव धर्मवदिति वचनं लिङ्गभूतं गमयति - `चरणाद्धर्माम्नाययोः` (वा।476) इत्येतद्वचनं शेषभूतमिति। न हि तेन विनाऽदेश उपपद्यते। `वतिः सादृश्यार्थः` इति। असति हि वतौ यदि चरणग्रहणं धर्मप्रत्ययैरभिसम्बध्यते - चरणेभ्यो धर्मेऽभ्यो ये प्रत्यया अभिधास्यन्ते ते भवन्ति **तस्य समूहः** (4.2.37) इत्येतस्मिन्नर्थ इति, समूहप्रकृतिर्न विशेषिता स्यात्। एवञ्चेह प्रकृतिमात्राद्धर्मप्रत्ययाः प्रसज्येरन्। अथ प्रकृतिः सम्बध्यते - धर्मे ये विधास्यन्ते प्रत्ययास्ते भवन्ति। `चरणेभ्यः समूहः` इत्येतस्मिन्नर्थे, एवमपि धर्मप्रत्ययान विशेषिताः स्युः। ततश्चाचरणेभ्योऽपि ये धर्मे विधास्यन्ते प्रत्ययास्तेऽपीह चरणेभ्य आपद्येरन्। अथाप्युभयसन्निधानादुभयं विशेष्यते, तेन वाक्यभेदं कृत्वा प्रत्ययैः प्रकृतिभिः सम्बध्यते - चरणेभ्यो धर्मेऽथ ये प्रत्यया विधास्यन्ते ते समूहे भवन्ति चरणेभ्य इति? एवमपि कश्चित् चरणप्रकृतिकः प्रत्ययो यतः कुतश्चिच्चरणात् समूहे स्यात्। **कौपिञ्जलहास्तिपदादण्** (4.3.132) छन्दोग#आदिभ्योऽपि स्यात्। वतौ तु तस्य सादृश्ये विधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यश्चरणविशेषणेन ये प्रत्ययाः विहिताः , इहापि ताभ्यः प्रकृतिस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टमापद्यते। तस्मात् सर्वसादृश्यपरिग्रहार्थं वत्करणं कर्तव्यम्। ` काठकम्, कालापकम्` इति। **गोत्रचरणाद्वुञ्** (4.3.126) । `छान्दोग्यम्, औक्थिक्यम्` इति। `छन्दोगोक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः` (4.3.129) इति ञ्यः। `आथर्वणम्` इति। **कौपिञ्जलहास्तिपदादण्** (4.3.132) ,**आथर्वणिकस्येकलोपश्च** (4.3.133) इत्यण्, इकलोपश्च। एते प्रत्यया यथा चरणेभ्यो धर्मे भवन्ति, तथा समूहेऽपि॥ Prakriyasarvasvam ----------------- 'तस्येद' (४-३-१२०) मित्यारभ्य तस्य धर्म इत्यर्थे चरणेभ्यो वुञ्, छन्दोगादेर्ञ्यः इत्यादि वक्ष्यते । तत्समूहेऽपि तथैव स्यात् । शाखाभेदकृताः कठादिसंज्ञाश्चरणाख्याः । वुञि, कठानां समूहः काठकम् । छन्दोगानां छान्दोग्य- मित्यादि ॥