42045: खण्डिकादिभ्यश्च

Padacheda: खण्डिका-आदिभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha

‘तस्य समूहः’ अस्मिन् अर्थे खण्डिकादिगणे विद्यमानानां शब्दानां विषये अञ्-प्रत्ययः भवति ।

तस्य समूहः (4.2.37) अस्मिन् अर्थे खण्डिकादिगणे उपस्थितानां शब्दानां विषये अञ्-प्रत्ययः विधीयते । खण्डिकादिगणः अयम् - खण्डिका, वडवा, क्षुद्रकमालवात् सेना-संज्ञायाम् (गणसूत्रम्), भिक्षुक, शुक, उलूक, श्वन् , अहन्, युग, वरत्रा, हलबन्ध । यथा - 1. खण्डिकानाम् समूहः = खण्डिका + अञ् → खाण्डिकम् । 2. वडवानाम् समूहः = वडवा + अञ् → वाडवम् । 3. ‘क्षुद्रकमालव’ इति कस्यचन गोत्रस्य नाम । अस्मात् शब्दात् ‘सेना’ अस्मिन् अर्थे एव अञ्-प्रत्ययः भवति । यथा - क्षुद्रकमालवस्य सेना = क्षुद्रकमालव + अञ् → क्षौद्रकमालवी सेना । अन्यत्र तु (गोत्रत्वात्) गोत्रोक्षोष्ट्रो… (4.2.39) इत्यनेन वुञ्-प्रत्ययं कृत्वा क्षौद्रकमालवक’ इति सिद्ध्यति । 4. भिक्षुकानां समूहः भैक्षुकम् । 5. शुकानां समूहः शौकम् । 6. उलूकानां समूहः औलूकम् । 7. श्वनाम् समूहः शौवम् । अत्र प्रक्रिया इयम् - श्वन् + अञ् → शौवन् + अ [ द्वारादीनां च (7.3.4) इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ] → शौव् + अ [नस्तद्धिते (6.4.144) इत्यनेन टिलोपः] → शौव 8. अह्नाम् समूहः आहम् । (परन्तु ‘क्रतु’ अस्मिन् अर्थे तु ख-प्रत्ययः भवति एतत् ब्राह्मण-माणव-वाडवात् यन् (4.2.42) इत्यत्र स्पष्टीकृतमस्ति ।) 9. युगानां समूहः यौगम् । 10. वरत्राणाम् समूहः वारत्रम् । 11. हलबन्धानाम् समूहः हालबन्धम् । ज्ञातव्यम् - अनुदात्तादेः अञ् (4.2.44) अनेन सूत्रेण अनुदात्तादि-शब्देभ्यः समूहार्थे अञ्-प्रत्यये कृते, वर्तमानसूत्रेण खण्डिकादिगणे विद्यमानानामाद्युदात्तशब्दानां विषये अपि अञ्-प्रत्ययः उक्तः अस्ति ।

Sutrartha (English)

The words of the खण्डिकादिगण get अञ् प्रत्यय to indicate the meaning of ‘तस्य समूहः’

Vasu English Summary

The affix अञ् comes in the sense of ‘collection thereof’ after the words खण्डिक etc.

Vasu English Translation

The affix अञ् comes in the sense of ‘collection thereof’ after the words खण्डिक etc. Karika अञसिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात् । गोत्राद्वुञ् न च तद्गोत्रं तदन्तान्न च सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः । सेनायां नियमार्थं च यथा बाध्येत चाञ् वुञा ॥

This sutra applies to words having anudatta on the first syllable, and being names of non-living things. e.g. खाण्डिकम्, वाडवम् ॥

The word क्षुद्रकमालवं is included in this list. It is a Dvandva compound of two words क्षुद्रक and मालव, denoting tribes of Kshatriyas. The Tadraja affix अञ् (4.1.168) is elided after the first, and ञ्यङ् (4.1.171) after the second word which is a Vriddham. When these two words form a compound, the acute falls on the final (6.1.223), the initial of this compound is therefore, anudatta: and therefore by the last sutra (4.2.44), this word would have taken अञ्; where is the necessity of its being included in this list? It is to exclude the वुञ् of (4.2.39) which comes after a Gotra word. But will not the subsequent अञ् (4.2.44) debar the preceding वुञ् (4.2.39) by the rule of paratva? Moreover, a collection or aggregate of two Gotra words will not be called Gotra, as an aggregate of countries is not called a ‘country’ for the application of janapada rule, as काशिकोसलीयाः does not take वुञ् and there will not apply tadanta vidhi to the compound word क्षुद्रकमालव, which ends in a gotra word?. To this we reply, that the fact of the inclusion of this word in the list, is an indication of the existence of these two rules : (1) that वुञ् affix supersedes a subsequent affix in cases of conflict. Thus औपगव and कापटव are anudattadi words because formed by अण् (3.1.2), and require therefore अञ् by (4.2.44), but वुञ् supersedes it, and we have औपगवकम् and कापटवकम् ॥ The second rule is: (2) that in सामूहिक affixes there is tadantavidhi in spite of the prohibition contained in vartika under (1.1.72). As वानहस्तिकं, गौधेनुकम् ॥ The complete sentence in the Ganapatha is क्षुद्रकमालवात् सेनासंज्ञायाम्, the first portion denotes the existence of the above two rules, the second portion सेना &c restricts the application of the rule. The affix is added when it is the name of a सेना ‘army’ and not otherwise. As क्षौद्रकमालवी सेना, otherwise क्षौद्रकमालवकं ॥ The existence of above corollaries is proved by the sutra of the Grammarian Apisali also धेनुरनञि ठकमुत्पादयति ‘the affix ठक् comes after धेनु in denoting collection thereof, when not preceded by the negative particle नञ्’, therefore, when preceded by any other word, the affix will apply.

1 खण्डिक (खण्डिका K.), 2 वडवा, 3 क्षुद्रकमालवात्सेनासंज्ञायाम् (a Vartika to 4.2, 45), 4 भिक्षुक, 5 शुक, 6 उलूक, 7 श्वन्, 8 अहन्, 9 युगवरत्र, (वरत्रा v. 1.; युग, वरत्रा K.), 10 हलबन्ध (बग्धा).

Bhashya

खण्डिकादिभ्यश्च (1468) (अञ्ञोऽधिकरणम्) (गणे उलूकशब्दपाठप्रयोजनभाष्यम्) खण्डिकशुकोलूक। किमर्थं खण्डिकादिषूलूकशब्दः पठ्यते, न अनुदात्तादेः इत्येव सिद्धम्? न सिध्यति। चाषोलूकयोश्छन्दस्याद्युदात्तः प्रयोगो दृश्यते -चाषेण किकिदीविना, यदुलूको वदति। नैतयोश्छन्दसि सामूहिको दृश्यते। यत्र च दृश्यते, तत्रैतावनुदात्तादी॥ इदं तर्हि प्रयोजनम् -अयमौलूक्यो गोत्रम्, तत्र गोत्राश्रयो वुञ्ञ्प्राप्तस्तद्बाधनार्थम्। एतदपि नास्ति प्रयोजनम्। बहुवचनान्तानां हि सामूहिकः, बहुषु च लुक्। तत्र लुकि कृते अनुदात्तादेः इत्येव सिद्धम्। न सिध्यति। गोत्रेऽलुगचि (4.1.89) इत्यलुक् प्राप्नोति॥ (क्षुद्रकमालवपाठप्रयोजने भाष्यवार्तिकम्) अञ्ञ्सिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात्। (भाष्यम्) अनुदात्तादेः इत्येवाञ्ञ्सिद्धः, किमर्थं क्षुद्रकमालवशब्दः खण्डिकादिषु पठ्यते। गोत्राश्रयो वुञ्ञ्प्राप्तस्तद्बाधनार्थम्॥ (पाठप्रयोजनखण्डने भाष्यवार्तिकम्) गोत्राद्रुञ्ञ् न च तद्गोत्रम्॥ (भाष्यम्) गोत्राद् वुञ्ञ् भवतीत्युच्यते, न च क्षुद्रकमालवशब्दो गोत्रम् -न च गोत्रसमुदायो गोत्रग्रहणेन गृह्यते। तद्यथा -जनपदसमुदायो जनपदशब्देन न गृह्यते, काशिकोसलीया इति वुञ्ञ्न भवति॥ (प्रयोजनसमर्थकं भाष्यम्) तदन्तविधिना प्राप्नोति॥ (तदन्तविधिखण्डने भाष्यवार्तिकम्) तदन्तान्न स सर्वतः॥ (भाष्यम्) परिगणितेषु कार्येषु तदन्तविधिः। न चेदं तत्र परिगण्यते॥ (तदन्तविधिसाधनेन फलसमर्थने भाष्यवार्तिकम्) ज्ञापकं स्यात्तदन्तत्वे (भाष्यम्) एवं तर्हि ज्ञापयत्याचार्यो भवतीह तदन्तविधिरिति॥ (तदन्तविधिज्ञापनेन इष्टबोधकभाष्यवार्तिकम्) तथा चापिशलेर्विधिः। (भाष्यम्) एवञ्च कृत्वाऽऽपिशलेराचार्यस्य विधिरुपपन्नो भवति -धेनुरनञ्ञि कमुत्पादयति -धेनूनां समूहो धैनुकम्॥ ञ्ञीति किमर्थम्? अधेनूनां समूहः -आधेनवम्॥ (सिद्धान्तख्यापकं भाष्यवार्तिकम्) सेनायां नियमार्थं वा (भाष्यम्) अथवा नियमार्थोऽयमारम्भः -क्षुद्रकमालवशब्दात्सेनायामेव। क्व मा भूत्? क्षौद्रकमालवकमन्यदिति॥ (मतान्तरेण सिद्धान्तभाष्यवार्तिकम्) यथा बाध्येत वाऽञ्ञ् वुञ्ञा॥ (भाष्यम्) अथवा ज्ञापयत्याचार्यः पूर्वोऽपि वुञ्ञ् परमञ्ञं बाधत इति॥ (अनुपपत्तिपरिहारभाष्यम्) ननु चोक्तं गोत्राद् वुञ्ञ् न च तद्गोत्रमिति। तदन्तविधिना प्राप्नोति। ननु चोक्तम् - तदन्तान्न स सर्वतः इति। ज्ञापकं स्यात्तदन्तत्वे। एवं तर्हि ज्ञापयत्याचार्यो भवतीह तदन्तविधिरिति॥ कथं पुनरेतदुभयं शक्यं ज्ञापयितुम् -भवति च तदन्तविधिः, पूर्वश्च वुञ्ञ् परमञ्ञं बाधत इति। उभयं ज्ञाप्यते॥ (5369 सिद्धार्थकं वार्तिकम्॥ 1 ॥) - अञ्ञ्प्रकरणे क्षुद्रकमालवात्सेनासंज्ञायाम् - (भाष्यम्) अञ्ञ्प्रकरणे क्षुद्रकमालवात्सेनासंज्ञायामिति वक्तव्यम्। क्षौद्रकमालवी सेना चेत्। क्व मा भूत्? क्षौद्रकमालवकमन्यदिति॥

Kashika

खण्डिका इत्येवमादिभ्यः शब्देभ्योऽञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। आद्युदात्तार्थमचित्तार्थं च वचनम्। खण्डिकानां समूहः खाण्डिकम्। वाडवम्। क्षुद्रकमालवशब्दोऽत्र पठ्यते। क्षुद्रकाश्च मालवाश्चेति क्षत्रियद्वन्द्वः। ततः पूर्वणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् (४.२.३९)। ननु च परत्वादञा वुञ् बाधिष्यते। न च गोत्रसमुदायो गोत्रम्, न च तदन्तविधिरत्रास्ति? एवं तर्ह्येतज् ज्ञापयति — वुञि पूर्वविप्रतिषेधः, सामूहिकेषु च तदन्तविधिरस्तीति। प्रयोजनमौपगवकं कापटवकमिति वुञ् भवति। वानहस्तिकं गौधेनुकमिति च तदन्तविधिः। क्षुद्रकमालवादित्येतावता योगविभागेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते सेनासंज्ञायामिति। क्षुद्रकमालवात् सेनासंज्ञायामेवाञ् भवति। क्षौद्रकमालवी सेना। क्षौद्रकमालवकमन्यत्।

अञ्सिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात्।

गोत्राद् वुञ् न च तद्गोत्रं तदन्तान्न स सर्वतः॥ १॥

ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः।

सेनायां नियमार्थं च यथा बाध्येत चाञ् वुञा ॥ २॥

खण्डिका। वडवा। क्षुद्रकमालवात् सेनासंज्ञायाम्। (ग०सू० ७९)। भिक्षुक। शुक। उलूक। श्वन्। युग। अहन्। वरत्रा। हलबन्ध॥

Siddhanta Kaumudi

अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥

Balamanorama

खण्डिकादिभ्यश्च - खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे — अञ्स्यादिति ।समूहे॑इति शेषः । आद्युदात्तार्थमिदम् ।

Tattvabodhini

खण्डिकादिभ्यश्च - खण्डिका । आद्युदातार्थमचित्ताठ्ठको बाधनार्थं च वचनम् ।

Padamanjari

क्षुद्रकाश्चेति । क्षुद्रकस्यापत्यानि, जनपदशब्दादिति विहितस्य तद्राजस्य लुक्, मालवातु वृद्धलक्षणस्य ञ्यङः । पूर्वेणाञि सिद्धे इति । समासान्तोदातत्वे सति शेषनिघातेनानुदातादित्वात् ॥ ननु च परत्वादिति । अभ्युपेत्य गोत्रत्वमेतदुक्तम्, तदेव तु नास्तीत्याह - न च गोत्रसमुदायो गोत्रमिति । तत्र च यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति काशिकोसलाया इत्यत्र च्छ एव भवति, न जनपदलक्षणो वुञ्, तद्वदत्रापि गोत्रलक्षणो वुञ् न प्राप्नोतीति भावः । स्यादेतत् - मा भूत्समुदायो गोत्रम्, मालवशब्दस्तु गोत्रं भवति, ततश्च तदन्तविधिना समुदायादपि वुञ्प्राप्नोतीति ? तत्राह - न चेति ।’येन विधिस्तदन्तस्य’ इत्यत्र हि’समासप्रत्ययविधौ प्रतिषेधः’ इत्युक्तम् । एवं तर्हीत्यादि । कथमेकेन यत्नेनोभयं शक्यं ज्ञापयितुम् ? शक्यमित्याह, अन्यथानुपपत्या ज्ञापकं भवति, उभयेन च विना नास्मादञ्विधानमुपपद्यत इति । किमात्रानुपपन्नम् ? तत्र पूर्वविप्रतिषेधज्ञापनस्य प्रयोजनमौपगवकं कापटवकमिति । वुञोऽवकाशः यदाद्यौदातम् - ग्लुचुकस्यापत्यं ग्लुचुकायनिः,’प्राचामवृद्धात्फिन्’ तेषां समूहो ग्लौचुकायनकमिति; अञस्तु कापोतमित्याद्यगोत्रमवकाशः; गोत्रादनुदातादेरुभयप्रसङ्गे परत्वादञ्, स्यात्, अस्मातु ज्ञापकाद् वुञेव भवति । तदन्तविधिज्ञापनस्य प्रयोजनम् - वनहस्तिनां समूहो वानहस्तिकम् । गौधेनुमिति ।’जङ्गलधेनुवलजानतस्य’ इत्युतरपदवृद्धिविकल्पः । पुनरस्यैव नियमार्थत्वं वर्णयिष्यन् कथमेकेन यत्नेनोभयं लभ्यम् - ज्ञापनं च नियमश्च ? इत्याशङ्क्याह - क्षुद्रकमालवादित्येतावतेति । योगविभागेन यत्नद्वयमाश्रीयत इत्यर्थः । क्षौद्रकमालवी, क्षौद्रकमालवकमिति । उभयत्रापि मालवादुत्पन्नस्य ञ्यङः’गोत्रे’ लुगचिऽ इति लुकि प्रतिषिद्धे ठापत्यस्यऽ इति यलोपः । अञ्सिद्धिरित्यादि अनुदातादेरिति । हेतुगर्भं विशेषणम्; यतोऽयं क्षुद्रकमालवशब्दोऽनुदातादिस्तेन तस्यादनुदातादेरित्येवाञः सिद्धिरस्ति । कोर्थः तस्य गणपाठेनेति शेषः । न किञ्चित्प्रयोजनम् इत्यर्थः । गोत्रलक्षणो वुञ् प्राप्नोति, अतस्तद्वाधनार्थः पाठ इति चेतत्राह - गोत्राद्वुञिति । गोत्राद्वुञ् विधीयते, न च तत्क्षुद्रकमालवेतिशब्दरूपगोत्रमित्यर्थः । तदन्तादिति । मालवशब्दस्य गोत्रत्वातदन्तविधिना प्राप्नोत्येव । न स सर्वत इति । आद्यादित्वात्सप्तम्यन्तातसिः, स तदन्तविधिः सर्वत्र न भवतीत्यर्थः । तदन्तत्वे इति । तदन्तविधिरस्तीत्यस्मिन्नर्थ इत्यर्थः । तथा चेति । धेनुरनञिकमुत्पादयतीति आपिशलेः सूत्रम् । अत्र वृद्ध्यर्थोऽनुबन्धो मृग्यः, इकस्यैव चेसुसुक्तान्तात्परस्य कादेशो द्रष्टव्यः । अर्थमात्रं वा भाष्कारेण निर्दिष्टम् । इकगिति ठकमित्यर्थः । धेनूनां समूहो धैनुकम् । अनञिति किम् ? अधेनूनां समूह आधेनवम्, उत्सादिपाठादञ् । यद्यपि धेनुशब्दः सूत्रे पठ।ल्ते, तथापि बष्कयास इति लिङ्गादधेनुशब्दादपि भवति । तत्र यदि सामूहिकेषु तदन्तविधिर्न स्यात्, अनञिति प्रतिषेधोऽर्थकः स्यात् । प्रयोजनान्तरमप्याह - सेनायामिति । यथेति । पूर्वविप्रतिषेधेन वुञाऽञो बाधा यथा स्यादित्येवमर्थश्च तस्य गणे पाठ इत्यर्थः । उलूकशब्दोऽत्र पठ।ल्ते स’लघावन्ते’ इति मध्योदातः । च्छन्दसि तु यदुलूको वदति मोघमेतत्, इत्था उलूक आपप्तदिति यदाद्यौदातत्वम्, तच्छान्दसम् । भाषायां तु मध्योदातमेव, तत्र पूर्वेणैवाञ् सिद्धः, तस्मादेवं वक्तव्यम् - औलूक्यशब्दो गर्गादियञन्तः, यतः’यञञोश्च’ इति बहुषु लुकि कृते रूपम्, तदिह पठ।ल्त इति । असति हि तस्य पाठे उलूकानां समूह इत्यर्थविवक्षायां’गोत्रे’ लुगचिऽ इति लुकः प्रतिषेधादौलुक्यशब्दाद् गोत्राश्रयो वुञ्प्रप्नोति । शुकशब्दोऽत्र पठ।ल्ते,’तस्य समूहः’ इत्यत्र तु’यस्य च नान्यत्प्रतिपदविधानमस्ति’ इत्युक्त्वोदाहृतम् -काकं शौकमिति, तस्मातत्र शौकमित्यस्य स्थाने बाकमिति पठितव्यम् । बकशब्दः’प्राणिनां कुपूर्वाणाम्’ इत्याद्यौदातः । युगवरत्रेति पठ।ल्ते, तत्सङ्घातविगृहीतार्थमिच्छन्ति - यौगवरत्रम्, यौगम्, वारत्रमिति, तत्र सङ्घातपक्षे’जातिरप्राणिनाम्’ इति द्वन्द्वैकवद्भावे नपुंसकह्रस्वत्वे सति युगवरत्रेति दीर्घनिर्देशोऽनुपपन्नः, तस्माद्यौगसहिता वरत्रेति समासः कर्तव्यः, जातिपरत्वाभावाद्वा एकवद्भावाभावः ॥

Prakriyasarvasvam

अञ् स्यात् । खण्डिकाहन् हलबन्धयुगवरत्राबडवाभिक्षुकशुकोलूकश्वभ्यः ।। खण्डिका दात्रं, तत्समूहः खाण्डिकम् । ‘अह्न्नष्टखोरेवे’ (६-४-१४५) ति नियमादिह टिलोपाभावः ।