42040: केदाराद्यञ् च ==================== **Padacheda:** केदारात् | S | 5 | 1 | यञ् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् यञ् तथा वुञ् प्रत्ययौ भवतः ।** **तस्य समूहः** (4.2.37) अस्मिन् अर्थे 'केदाराणाम् समूहः' इति स्थिते वुञ् तथा यञ् प्रत्ययौ विधीयेते । यथा - 1. केदार + वुञ् → कैदारक । 2. केदार + यञ् → कैदार्य । अत्र एकं वार्त्तिकं पाठ्यते - । इत्युक्ते, गणिका-शब्दात् समूहार्थे यञ्-प्रत्ययः भवति । गणिकानां समूहः = गणिका + यञ् → गाणिक्यम् । Vasu English Summary -------------------- The affixes यञ् and वुञ् come after the word केदार in the sense of 'collection thereof'. Vasu English Translation ------------------------ The affixes यञ् and वुञ् come after the word केदार in the sense of 'collection thereof'. This debars ठक् of (4.2.47). Thus केदाराणाम् समूहः = कैदार्यम् or कैदारकम् ॥ Vart:- The affix यञ् comes after गणिका e.g. गाणिक्यम् ॥ Bhashya ------- केदाराद्यञ्च (1463) (5363 पूरकवार्तिकम्॥ 1 ॥) - गणिकायाश्च - (भाष्यम्) गणिकायाश्चेति वक्तव्यम्। गणिकानां समूहो गाणिक्यम्॥ Kashika ------- केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूह इत्येतस्मिन् विषये। अचित्तलक्षणस्य ठकोऽपवादः। केदाराणां समूहः कैदार्यम् कैदारकम्॥ गणिकायाश्च यञ् वक्तव्यः॥ गणिकानां समूहो गाणिक्यम्॥ Siddhanta Kaumudi ----------------- चाद्वुञ् । कैदार्यम् । कैदारकम् ॥ (वार्तिकम्) ॥ गाणिक्यम् ॥ Balamanorama ------------ **केदाराद्यञ् च** - केदराद्यञ् च । कैदार्यम्-कैदारकमिति । केदाराणां समूह इति विग्रहः ।गणिकाया यञ् । यञ्ग्रहणाद्वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः । Nyaas ----- `गणिकायाश्च यञ्वक्तव्यः` (इति)। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इहाप्युत्तरसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन गणिकाशब्दादपि यञ् भवतीति, वुञ् न भवतीति, अनभिधानात्॥ Prakriyasarvasvam ----------------- वुञ्च स्यात् । कैदार्यम् । कैदारकम् ।। (वा०) 'गणिकायाश्च यञ् वाच्यः' ।। गाणिक्यम् ।। Vartika ------- गणिकाया 'यञ्' इति वक्तव्यम् ।