42038: भिक्षादिभ्योऽण् ====================== **Padacheda:** भिक्षा-आदिभ्यः | S | 5 | 3 | अण् | S | 1 | 1 | Sutrartha --------- **भिक्षादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते ।** 'भिक्षादिगणः' इति कश्चन गणः । अस्मिन् गणे ये शब्दाः पाठिताः सन्ति, तेषां विषये **तस्य समूहः** (4.2.37) अस्मिन् अर्थे सर्वान् अपवादान् बाधित्वा अण्-प्रत्ययः एव विधीयते । भिक्षादिगणः अयम् - भिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन्, सहस्र, युवति, पदाति, पद्धति, अथर्वन्, दक्षिणा, भूत । अस्मिन् गणे ये अचित्तवाचिनः शब्दाः सन्ति, तेषां विषये **अचित्तहस्तिधेनोः ठक्** (4.2.47) इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । अन्येभ्यः शब्देभ्यः **अनुदात्तादेः अञ्** (4.2.44) अनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । 1. भिक्षाणां समूहः = भिक्षा + अण् → भैक्षम् । 2. गर्भिणीनां समूहः गार्भिणम् । 3. क्षेत्राणां समूहः क्षैत्रम् । 4. अङ्गाराणां समूहः आङ्गारम् । 5. चर्मिणाम् समूहः चार्मिणम् । अस्य प्रक्रिया इयम् - चर्मिन् + अण् → चार्मिन् + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → चार्मिण [ **नस्तद्धिते** (6.4.144) इत्यनेन टिलोपे प्राप्ते **संयोगादिश्च** (6.4.166) इति टिलोपनिषेधः] 6. धर्मिणां समूहः धार्मिणम् । 7. युवतीनां समूहः यौवनम् । प्रक्रिया इयम् - युवती + अण् → युवन् + अण् [ अनेन वार्त्तिकेन पुंवद्भावः] → यौवन् + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → यौवन [**अन्** (6.4.167) इति टिलोपनिषेधः] 8. पदातीनां समूहः पादातम् । 9. पद्धतीनां समूहः पाद्धतम् । 10. अथर्वणां समूहः आथर्वम् । 11. दक्षिणानां समूहः दाक्षिणम् । 12. भूतानां समूहः भौतम् । Vasu English Summary -------------------- The affix अण् comes the sense is 'a collection thereof' after the words भिक्षा etc. Vasu English Translation ------------------------ The affix अण् comes the sense is 'a collection thereof' after the words भिक्षा etc. The repetition of the word अण् in this *sutra*, though its *anuvritti* was here, is for the sake of removing the operation of any obstructing rule. Thus भिक्षाणां समूहः = भैक्षम् 'what is collected in the shape of alms'. So also गर्भिणी + अण् = गर्भिण् + अण् (the masculine form of a *Bha* is substituted, when a *Taddhita* affix follows without an indicatory ढ, भस्याढे तद्धिते) = गर्भिणः (6.4.164), In the case of युवति, the word however is not changed to its masculine form. Thus युवतीनां समूहः = यौवतम् 'a collection of young women'. 1 भिक्षा, 2 गर्भिणी, 3 क्षेत्र, 4 करीष, 5 अङ्गार, 6 चर्मन् (चर्मिन् according to some texts) 7 सहस्र, 8 युवति, 9 पदाति, 10 पद्धति, 11 अथर्वन, (also अर्वन् K.) 12 दक्षिणा, 13 भूत, 14 विषय, 15 श्रोत्र. also 16 धर्मिन् Bhashya ------- भिक्षादिभ्योऽण् (1461) (अणोऽधिकरणम्) (युवतिशब्दपाठफलबोधकं भाष्यम्) किमर्थं भिक्षादिषु युवतिशब्दः पठ्यते,न तस्य समूहः (4.2.37) इत्येव सिद्धम्। न सिद्धयति. अनुदात्तादिलक्षणोऽञ्ञ्प्राप्तः, तद्वाधनार्थम्। अत उत्तरं पठति - (5359 युवतिपाठानर्थक्यबोधकं वार्तिकम्॥1॥) भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्॥ भिक्षादिषु युवतिग्रहणानर्थकम्। किं कारणम्? पुंवद्भावस्य सिद्धत्वात्। प्रत्ययविधौ पुंवद्भावोऽत्र भविष्यति। भस्याढे तद्धिते पुंवद्भवतीति। सिद्धश्च प्रत्ययविधौ । स च सिद्धः प्रत्ययविधौ ॥ Kashika ------- भिक्षेत्येवमादिभ्यः शब्देभ्योऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अण्ग्रहणं बाधकबाधनार्थम्। भिक्षाणां समूहो भैक्षम्। गार्भिणम्। युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्यात् पुंवद्भावो न भवति **भस्याढे तद्धिते०** (वा० ६.३.३५) इति। युवतीनां समूहो यौवतम्॥ भिक्षा। गर्भिणी। क्षेत्र। करीष। अङ्गार। चर्मिन्। धर्मिन्। सहस्र। युवति। पदाति। पद्धति। अथर्वन्। दक्षिणा। भूत॥ Siddhanta Kaumudi ----------------- भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥ Laghu Siddhanta Kaumudi ----------------------- भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह **भस्याढे तद्धिते पुंवद्भावो वक्तव्यः** (वार्त्तिकम्) । इति पुंवद्भावे कृते - Balamanorama ------------ **भिक्षाऽऽदिभ्योऽण्** - भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्रअचित्तहस्ती॑ति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परश्च आद्युदात्तश्चेति इकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्ज॑मिति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः । ततो नान्तलक्षणङीपि तस्यअनुदात्तो सुप्पितौ॑ इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थेअनुदात्तादेर॑ञिति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम्, अञि तुञ्नित्यादिर्नित्यम् इत्याद्युदात्तत्वमिति स्वरे विशेषः । अणि टिलोपाऽभावोऽपि प्रयोजनमिति दर्शयति — इह भस्येति । गर्भिणीशब्दादणि सति 'भस्याऽढे' इति पुंवत्त्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः । Tattvabodhini ------------- **भिक्षाऽऽदिभ्योऽण्** - भिक्षादिभ्योऽण् । भैक्षमिति । अचित्तत्वाठ्ठक् प्राप्तः । गार्भिणमिति । अनुदात्तादित्वादञ् प्राप्तः । सति हि तस्मिन्नाद्युदात्तटिलोपौ स्याताम् । न चभस्याढे॑ इति पुंवाचकरूपा तिदेशान्न टिलोपः स्यादिति वाच्यं, हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपाऽनापत्तेः । तस्मात्स्त्रीप्रत्ययनिवृत्तिमात्रपरं तन्न तु रूपातिदेशकमिति बोध्यम् । Padamanjari ----------- अण्ग्रहणं बाधकबाधनार्थमिति । भिक्षाशब्दोऽयम्'गुरोश्च हलः' इत्यकारप्रत्ययान्तत्वादन्तोदातः, ततः ठनुदातादेःऽ इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधनार्थमण्ग्रहणम् । ननु च यद्यत्राञ्, स्यात्पुनर्वचनमनर्थकं स्यात् ? नानर्थकम्; परत्वादचि ततल्लक्षणष्ठक् प्राप्नोति, तद्वाधनार्थमत्र पुनर्वचनं स्यादित्यञ् स्यादेव, पुनरण्ग्रहणादणेव भवति । गार्भिणमिति ।'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावेन ङीपो निवृत्तिः, ततोऽणि ठिमण्यनपत्येऽ इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपाभावः । तस्य ग्रहणसामर्थ्यात्पुंवद्भावो न भवतीति । यदि स्यात्,'सिद्धत्वात्प्रत्ययविधौ' इति वचनादनुत्पन्न एव तद्धिते पुंवद्भावेन भवितव्यम् । युवशब्दश्चऽ कनिन्युवृषऽ इति कनिन्प्रत्ययान्तत्वादाद्यौदात इत्यौत्सगिक एवाण् सिद्ध इति तस्येह पाठोऽनर्थकः स्यात् । यौवतमिति । यथा तु वातिकं तथा पुंवद्भाव इष्यते । आह हि -'भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ' इति ॥ Nyaas ----- अथाण्ग्रहणं किमर्थम्, न भिक्षादिभ्यो यथाविहितमेवोच्येत? इत्यत आह - `अण्ग्रहणम्` इत्यादि। भिक्षाशब्दोऽयम् **गुरोश्च हलः** (3.3.103) इत्यकारप्रत्ययान्तत्वादन्तोदात्तः। तत्र **अनुदात्तादेरञ्** (4.2.44) इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। ननु च यद्यत्राण् स्यात् पुनर्वचनमनर्थकं स्यात्? नैतदस्ति; परत्वादचित्तलक्षणष्ठक् प्राप्नोति, अतस्तद्बाधनर्थं पुनर्वचनं स्यात्। अञ्प्रत्ययस्तु स्यादेव, अण्ग्रहणात् पुनरणेवेति न भवत्येष दोषः। `गार्भिणम्` इति। गर्भिणीनां समूहो `भस्याऽढे तद्धिते` (वा।731)। `सिद्धत्वात् प्रत्ययविधौ` (4.2.37) पुंवद्भावेन स्त्रीप्रत्ययनिवृत्तिः, ततोऽण्, तस्मिन् **नस्तद्धिते** (6.4.144) इति टिलोपः प्राप्तः, **इनण्यनपत्ये** (6.4.164) इति प्रकृतिभावान्न भवति। `तस्यग्रहण` इति। युवतिशब्दस्य यदि पुंवद्भावो न भवति, तदा तस्य प्रत्ययान्तत्वात् **अनुदात्तादेरञ्** (4.2.44) इत्यञि प्राप्ते तद्बाधनार्थमिहाण्ग्रहममर्थवद्भवति। यदि पुंवद्भावः स्यात् तदा तदनर्थकं स्यात्। तथा हि -`सिद्धश्च` प्रत्ययविधौ` (वा। 4.2.39) इति वचनादनुत्पन्न एव तद्धिते बुद्धिस्थे पुंवद्भावेन भवितव्यम्। युव शब्दस्य `कनिन् यृवृषितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इति कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वम्। तत्र यदि पुंवद्भावः स्यादुत्सर्गलक्षणेवाण् सिद्ध इतीह ग्रहणमनर्थकं स्यात्। तस्मान्ना भूदस्सयानर्थक्यमिति तस्यग्रहणसामर्थ्यादेव पुंवद्भावो न भवति, तेन यौवतमिति सिद्धं भवति॥ Prakriyasarvasvam ----------------- एभ्यो वक्ष्यमाणबाधकोऽण् स्यात् । भिक्षाक्षेत्रकरीषगर्भिणीदक्षिणाङ्गार- सहस्राथर्वन्चर्मन्युवतिपदातिपद्धतिभ्यः । भिक्षासमूहो भैक्षम् । क्षैत्रम् । कारीषम् । ‘भस्याढे तद्धिते’ इति पुंवत्त्वाद् गर्भिण्या ङीब्निवृत्तिः । गर्भिन् अ । ‘इनणी’ति (६-४-१६४) प्रकृतिभावः । गार्भिणम् । दक्षिणासमूहो दाक्षिणम् । आङ्गारम् । साहस्रम् । आथर्वणम् । चार्मणम् । युवतेरिह पुंवत्त्वं वेष्टम् । यौवतं यौवनम् । पादातं पाद्धतम् । Sutra Prayogas -------------- * **सकारनानारकास** (शिशुपालवधम्): `भिक्षादिभ्योऽण्` इति अरीणां समूहे अण् प्रत्ययः।