42033: अग्नेर्ढक् ================= **Padacheda:** अग्नेः | S | 5 | 1 | ढक् | S | 1 | 1 | Sutrartha --------- **'सा अस्य देवता' अस्मिन् अर्थे 'अग्नि'शब्दात् ढक्-प्रत्ययः विधीयते ।** 'अग्नि' शब्दात् **सा अस्य देवता** (4.2.24) अस्मिन् अर्थे ढक्-प्रत्ययः भवति । अग्निः अस्य देवता सः आग्नेयः । प्रक्रिया इयम् - अग्नि + ढक् → अग्नि + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एय्-आदेशः] → अाग्नि + एय [**किति च** (7.2.118) इति आदिवृद्धिः] → आग्न् + एय [**यस्येति च** (6.4.148) इति इकारलोपः] → आग्नेय वस्तुतः अस्य सूत्रस्य विषये वार्त्तिककारः वदति - । इत्युक्ते, अग्नि-शब्दात् कलि-शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु ढक्-प्रत्ययः एव भवति, न अन्यः । यथा - अग्नेः अपत्यमाग्नेयः । कलेः अपत्यम् कालेयः । Sutrartha (English) ------------------- The word अग्नि gets the प्रत्यय ढक् in the meaning of 'सा अस्य देवता'. Vasu English Summary -------------------- The affix ढक् comes in the sense of 'this its deity' after the name अग्नि। Vasu English Translation ------------------------ The affix ढक् comes in the sense of 'this its deity' after the name अग्नि। Thus अग्निर्देवताऽस्य = आग्नेयोऽष्टकपालः ॥ Vart:- The affix '*dhak*' always comes after the words *Agni* and *Kali*, in the various senses of the affixes called *Pragdivyatiya*. See (4.2.8). Kashika ------- अग्निशब्दाद् ढक् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अग्निर्देवतास्य आग्नेयोऽष्टाकपालः (तै० सं० १.८.२.१)। प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः (वा० ४.२.८)॥ Siddhanta Kaumudi ----------------- आग्नेयम् ॥ Balamanorama ------------ **अग्नेर्ढक्** - अग्नेर्ढक् । आग्नेयमिति । प्राग्दीव्यतीयेष्वर्थेष्वयम्,सर्वत्राग्निकलिभ्या॑मिति वचनात् । Padamanjari ----------- कलेर्ढगित्यत्रोक्तमेवार्थं स्मरयति - प्राग्दीव्यतीयेष्विति ॥