42022: आग्रहायण्यश्वत्थाट्ठक् ============================= **Padacheda:** आग्रहायणी-अश्वत्थात् | S | 5 | 1 | ठक् | S | 1 | 1 | Sutrartha --------- **आग्रहायणी-शब्दात् तथा अश्वत्थ-शब्दात् 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।** **सा अस्मिन् पौर्णमासी इति संज्ञायाम्** (4.2.21) अस्मिन् अर्थे आग्रहायणी-शब्दात् अश्वत्थशब्दात् च ठक्-प्रत्ययः भवति । यथा - 1. आग्रहायणी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = आग्रहायणी + ठक् → आग्रहायणी + इक [**ठस्येकः** (7.3.50) इत्यनेन ठकारस्य इक्-आदेशः] → आग्रहायणी + इक [**किति च** (7.3.118) इति आदिवृद्धिः] → आग्रहायण् + इक [**यस्येति च** (6.4.148) इति ईकारलोपः] → आग्रहायणिक । 2. अश्वत्थः पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = अश्वत्थ + ठक् → अश्वत्थ + इक [**ठस्येकः** (7.3.50) इत्यनेन ठकारस्य इक्-आदेशः] → आश्वत्थ + इक [**किति च** (7.3.118) इति आदिवृद्धिः] → अाश्वत्थ् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → आश्वत्थिक । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'अश्वत्थात्' इति निर्देशः कृतः अस्ति । अस्मात् निर्देशात् पौर्णमास्याः नाम 'अश्वत्थ' इति 'पुंलिङ्गे ' अस्ति एतत् ज्ञायते । अतः **संज्ञायाम् श्रवण-अश्वत्थाभ्याम्** (4.2.5) अनेन सूत्रेण पौर्णमास्याः नाम्नः विषये अपि अण्-प्रत्ययस्य लुप् विधीयते, येन 'अश्वत्थः पौर्णमासी' अयं प्रयोगः सिद्ध्यति । Sutrartha (English) ------------------- The words आग्रहायण and अश्वत्थ get the प्रत्यय ठक् in the meaning of 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्'. Vasu English Summary -------------------- The affix ठक् comes in the sense of Locative -7th case after the words आग्रहायणी and अश्वत्थ ending in the 1st - Nominative Case-affix in construction and being the name of a full-moon night. Vasu English Translation ------------------------ The affix ठक् comes in the sense of Locative -7th case after the words आग्रहायणी and अश्वत्थ ending in the 1st - Nominative Case-affix in construction and being the name of a full-moon night. The words सास्मिन्पौर्णमासीति of the last *sutra* govern this also. This debars अण् ॥ Thus आग्रहायणिको मासः 'the month called *Agrahayanika*' i.e. in which the moon is full in the asterism of *Agrahayana*. Similarly आश्वत्थिकः ॥ Kashika ------- सास्मिन् पौर्णमासीति सर्वमनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दात् च प्रथमा — समर्थात् पौर्णमास्युपाधिकाद् अस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। आग्रहायणिको मासः, अर्धमासः, संवत्सरः। एवमाश्वत्थिकः॥ Siddhanta Kaumudi ----------------- अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-(SK857) इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिक ॥ Balamanorama ------------ **आग्रहायण्यश्वत्थाट्ठक्** - आग्रहायण्यआत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादआत्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः ।संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री॑त्यमर । यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह — प्रज्ञादेरिति ।प्रज्ञादिभ्यश्चे॑ति स्वार्थे अमिटिड्ढे॑ति ङीबित्यर्थः । अआत्थेनेति । अइआनीनक्षत्रेणेत्यर्थः । अआत्थ इति । नक्षत्राऽणो 'लुबविषेशे ' इति लुबिति भावः । ननुविभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॑ इति निर्देशेन पौर्णमास्यां 'लुबविशेषे' इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह — निपातनादिति । तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः । Padamanjari ----------- अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्,'पूर्वपदात्संज्ञायाम्' इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप् ॥ Prakriyasarvasvam ----------------- आग्रहायणी पौर्णमास्यस्मिन्नस्तीत्याग्रहायणिको मासः । अश्विनीयुक्ता पौर्णमास्यश्वत्थः । तद्वान्मासो आश्वत्थिकः ॥