42020: क्षीराड्ढञ् ================== **Padacheda:** क्षीरात् | S | 5 | 1 | ढञ् | S | 1 | 1 | Sutrartha --------- **'संस्कृतं भक्षाः' अस्मिन् अर्थे क्षीर-शब्दात् ढञ्-प्रत्ययः भवति ।** **संस्कृतं भक्षाः** (4.2.16) इत्यस्मिन् अर्थे क्षीरशब्दात् ढञ् प्रत्ययः भवति । क्षीरे संस्कृतम् क्षैरेयम् । क्षीरे संस्कृतम् = क्षीर + ढञ् → क्षीर + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एय्-आदेशः] → क्षैर + एय [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → क्षैर् + एय [**यस्येति च** (6.4.148) इति अन्तिमवर्णलोपः] → क्षैरेय Sutrartha (English) ------------------- The word क्षीर gets the प्रत्यय ढञ् in the meaning of 'संस्कृतं भक्षाः' Vasu English Summary -------------------- The affix ढञ् comes in the sense of 'prepared food' after the word दधि ending in the Locative -7th case. Vasu English Translation ------------------------ The affix ढञ् comes in the sense of 'prepared food' after the word दधि ending in the Locative -7th case. This debars अण् ॥ Thus क्षीरे संस्कृताः = क्षैरेयी यवागूः 'milky gruel'. Kashika ------- क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भवति। अणोऽपवादः। क्षीरे संस्कृता क्षैरेयी यवागूः॥ Siddhanta Kaumudi ----------------- अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥ Padamanjari ----------- अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति ।'टिड्ढाणञ्' इत्यादिना ङीप् ॥ Nyaas ----- `क्षैरेयी` इति। `टिड्ढाणञ्` (4.1.15) इति ङीप्॥ Prakriyasarvasvam ----------------- क्षीरे संस्कृतः क्षैरेयः पृथुकः । संस्कृतत्वमात्रमत्रेष्टं न भक्ष्यत्वमिति रामः । तेन क्षैरेयी श्राणेत्यपीष्टम् । क्षीरस्य श्राणातः पृथक्त्वविवक्षया तत्र संस्कृतत्वं नेयम् ॥