42019: उदश्वितोऽन्यतरस्याम्¶
Padacheda: उदश्वितः | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘संस्कृतम् भक्षाः’ अस्मिन् अर्थे ‘उदश्वित्’ शब्दात् ‘ठक्’ तथा ‘अण्’ प्रत्ययौ भवतः ।
संस्कृतं भक्षाः (4.2.16) इत्यस्मिन् अर्थे ‘उदश्वित्’ ( = तक्रम्) शब्दात् विकल्पेन ठक् प्रत्ययः भवति । पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते । यथा - 1. उदश्विति संस्कृतम् = उदश्वित् + ठक् → उदश्वित् + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारः] → औदश्वित् + क [किति च (7.2.118) इति आदिवृद्धिः] → औदश्वित्क 2. उदश्विति संस्कृतम् उदश्वित् + अण् → औदश्वित् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → औदश्वित
Sutrartha (English)¶
The word उदश्वित् gets the प्रत्यय ठक् optionally the meaning of संस्कृतं भक्षाः.
Vasu English Summary¶
The affix ठक् comes in the sense of ‘prepared food’, optionally after the word उदश्वित ending in the Locative -7th case.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘prepared food’, optionally after the word उदश्वित ending in the Locative -7th case. Thus औदश्वित्कम् (7.3.51), or औदश्वितम् by अण् ॥
Kashika¶
उदश्विच्छब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थेऽन्यतरस्यां ठक् प्रत्ययो भवति, पक्षे यथाप्राप्तमण् भवति। औदश्वित्कम्, औदश्वितम्॥
Siddhanta Kaumudi¶
ठक् स्यात्पक्षेऽण् ॥
Balamanorama¶
उदश्वितोऽन्यतरस्याम् - उदइआतो । ठक्स्यादिति । शेषपूरणमिदम् । उक्तविषये उदइआच्छब्दाट्ठग्वा स्यादित्यर्थः ।
Padamanjari¶
औदश्वित्क इति । ठिसुसुक्तान्तात्कःऽ ॥
Nyaas¶
{ओदस्वित्यम् इति मु।पाठः} औदइआत्कम् इति। इसुसुक्तान्तात् कः (7.3.51) ॥