42018: दध्नष्ठक्

Padacheda: दध्नः | S | 5 | 1 |

ठक् | S | 1 | 1 |

Sutrartha

दधिशब्दात् ‘संस्कृतं भक्षाः’ इत्यस्मिन् अर्थे ठक् -प्रत्ययः भवति ।

संस्कृतं भक्षाः (4.2.16) इत्यस्मिन् अर्थे ‘दधि’शब्दात् ठक् प्रत्ययः भवति । दध्नि संस्कृतम् दाधिकम् । ज्ञातव्यम् - प्राग्वहतीय-अधिकारे संस्कृतम् (4.4.3) इत्यनेन अपि दधि-शब्दात् ठक्-प्रत्ययः भवति, परन्तु तत्र तृतीयासमर्थात् एतत् प्रत्ययविधानं कृतमस्ति, अतः तत्र ‘दध्ना संस्कृतम्’ इति अर्थः स्वीकर्तव्यः । अत्र तु ‘दध्नि संस्कृतम्’ इति अर्थः अपेक्ष्यते ।

Sutrartha (English)

The word दधि gets the प्रत्यय ठक् in the meaning of संस्कृतं भक्षाः.

Vasu English Summary

The affix ठक्

Vasu English Translation

The affix ठक् Thus दधनि संस्कृतं = दाधिकम् ‘made of coagulated milk’. This form will be evolved by (4.4.3), but the दाधिकं formed by that rule means दध्ना संस्कृतं i. e. anything prepared or seasoned with curd; while the दाधिकं of this sutra means ‘curd itself seasoned with salt or, pepper’.

Kashika

दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग् वहतेष्ठकं (४.४.१) वक्ष्यति, तेनैव सिद्धम् ? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतम्, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते॥

Siddhanta Kaumudi

दध्नि संस्कृतं दाधिकम् ॥

Balamanorama

दध्नष्ठक् - दध्नष्ठक् । सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकमिति । ठकि इकादेशेयस्येति चे॑ति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु ‘संस्कृतम्’ इति तृतीयान्ताठ्ठग्वक्ष्यते ।

Tattvabodhini

दध्नष्ठक् - दध्नष्ठत् । दध्नीति । संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम् । यस्तुप्राग्वहते॑रित्यत्रसंस्कृत॑मिति ठग्वक्ष्यते स तृतीयान्तद्बोध्यः । तेन दध्ना संस्कृतमपि दाधिकमेव ।

Padamanjari

इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ॥

Prakriyasarvasvam

इकः । ‘यस्येति च’ । दाधिकाः सक्तवः ॥ अस्माद् वा ठक् ॥