41173: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ========================================= **Padacheda:** साल्व-अवयव-प्रत्यग्रथ-कलकूट-आश्मकात् | S | 5 | 1 | इञ् | S | 1 | 1 | Sutrartha --------- **साल्वदेशस्य जनपदवाचिनः अवयवाः, तथा प्रत्यग्रथ-जनपदः, कलकूट-जनपदः, आश्मक-जनपदः - एतेषां नामानि क्षत्रियस्य अभिधानस्वरूपेण अपि प्रयुज्यन्ते चेत् तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे 'इञ्' प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix इञ् comes in the sense of descendant after a word which denotes any sub-division of the country साल्व and after the words 1. प्रत्यग्रथ 2. कलकूट and 3. अश्मक, when these are names of countries and of tribes. Vasu English Translation ------------------------ The affix इञ् comes in the sense of descendant after a word which denotes any sub-division of the country साल्व and after the words 1. प्रत्यग्रथ 2. कलकूट and 3. अश्मक, when these are names of countries and of tribes. *Karika* उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ॥" The word साल्वा is the name of a *Kshatriya* woman, her son will be साल्वेयः (4.1.121) formed by ढक्; also साल्वः formed by अण् ॥ The dwelling place of साल्व will be also साल्वः which is the name of a country. The sub-divisions of the country called साल्व are six, viz *Udumbarah*, *Tilakhalah*, *Madrakarah*, *Yugandharah*, *Bhulingah* and *Saradandah*. The patronymic from these will be: औदुम्बरिः, तैलखलिः, माद्रकारिः, यौगन्धरिः, भौलिङ्गिः and शारदण्डिः ॥ So also the affix 'in' will be added to the words '*Pratyagratha*' &c. As प्रात्यग्रथिः, कालकूटिः and आश्मकिः ॥ The affix has the force also of 'the king there of'. As औदुम्बरो राजा ॥ According to *Mahabhashya*, the words *Busa*, *Ajamidha*, and *Ajakanda* also take this affix, as बौसः, आजमीढिः and आजकन्दिः ॥ Kashika ------- जनपदशब्दात् क्षत्रियादित्येव। सल्वा नाम क्षत्रिया तन्नामिका तस्या अपत्यम्, **द्व्यचः** (४.१.१२१) इति ढक् । साल्वेयः। अणपीष्यते — साल्वः। तस्य निवासः साल्वो जनपदः। तदवयवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्य इञ् प्रत्ययो भवति। अञोऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रात्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनीत्येव — औदुम्बरी राजा। उदुम्बरास्तिलखला मद्रकारा युगन्धराः। भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥ Siddhanta Kaumudi ----------------- साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥ Balamanorama ------------ **साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्** - साल्वावयव । उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः ।द्व्यञ्मगधे॑ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः । Tattvabodhini ------------- **साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्** - उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगंधराः । भ्रूलिङ्गा शरदण्डाश्च साल्वावयवसंज्ञिताः॑इति वृत्तिः । औदुम्बरिरिति । तैलखलिः । माद्रकारिः । यौगन्धरिरित्यादीन्युदाहर्तव्यानि । Padamanjari ----------- सल्वा क्षत्रियेति पाठः, तन्नामिकेति वचनात्, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दातस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण् ढकोऽपवादः,'साल्वेयगान्धारिभ्या च' इति निर्देशात् । तेभ्यः क्षत्रियवृत्तिभ्य इति ।'जनपदशब्दात्क्षत्रियात्' इत्यनुवृतेरेतल्लभ्यते । ठुदुम्बरास्तिलखलाःऽ इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द -इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम् - बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव - इत्येवं शब्दिता इत्यर्थः ॥ Nyaas ----- `अजपीष्यते` इति। तन्नामिकालक्षणः। कुतो विज्ञायते? साल्व इति निपातनात्। तदवयवा जनपदानां वाचकाः क्षत्त्रियाणां समाना भवन्ति। अतस्तेऽप्यौपचारिकं साल्वापदेशमासादयन्ति॥ Prakriyasarvasvam ----------------- साल्वजनपदस्यांशपालेभ्यः प्रत्यग्रथादिभ्यश्चेञ् स्यात् । जनपदशब्दादित्य- ञोऽपवादः । औदुम्बरादयः साल्वावयवाः । तदपत्यमौदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः ॥