41168: जनपदशब्दात् क्षत्रियादञ् =============================== **Padacheda:** जनपद-शब्दात् | S | 5 | 1 | क्षत्रियात् | S | 5 | 1 | अञ् | S | 1 | 1 | Sutrartha --------- **क्षत्रियवाची यः शब्दः जनपदस्य नामरूपेण अपि प्रयुज्यते, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix अञ् comes in the sense of descendant after a word which while denoting a country, expresses also a tribe of क्षत्रिय-s. Vasu English Translation ------------------------ The affix अञ् comes in the sense of descendant after a word which while denoting a country, expresses also a tribe of क्षत्रिय-s. Thus पाञ्चालः 'the son of *Panchala*', so also ऐक्ष्वाकः and वैदेहः are *Kshatriyas* who live in that country. Of course, when the word is only expressive of *Kshatriya*, but not of the name of a country, अञ् will not be used but अण्, the difference being in the accent. Thus द्रौह्यवः 'the son of '*Druhya*'; पौरवः 'the son of *Puru*.' Why do we say when it expresses *Kshatriyas*? Observe ब्राह्मणस्य पञ्चालस्यापत्यं = पाञ्चालिः, (4.1.95) 'the son of *Panchala* a *Brahmana*'; so also वैदेहिः ॥ Vart:- Let the same affix, which comes when the sense is that of the progeny, be added to a word denoting a country named after *Kshatriyas*, to denote the king thereof. Thus पंचालानाम् राजा = पाञ्चालः 'the king of the *Kshatriyas* called *Panchala* or of the country of *Panchalas*'. So also वैदेहः, 'the king of the *Kshatriyas* or of the country of *Videha*'. The words *Panchala* &c. originally are names of *Kshatriya* tribes only, secondarily they have been applied to the country inhabited by those tribes, because the *Taddhita* affix denoting 'the country inhabited by them', is elided by (4.2.81). Thus the same word पञ्चाल comes to denote the *Kshatriya* tribe as well as the country called *Panchala*. It will make practically little difference to consider words like *Panchala* &c. as original (not derivative) name of countries as well as of *Kshatriyas*. In fact, *Panini* himself considers them in the same light in this *sutra*, and does not think them to be derivative words, in spite of his own *sutra* (4.2.81). Those words when denoting a country are always in the plural, as पञ्चालाः, in denoting the *Kshatriya*, they are in the singular. Bhashya ------- जनपदशब्दात् क्षत्रियादञ्ञ् (1414) (अञ्ञोऽधिकरणम्) (5325 पूर्वपक्षवार्तिकम्॥ 1 ॥) - क्षत्रियादेकराजात्सङ्घप्रतिषेधार्थम् - (भाष्यम्) क्षत्रियादेकराजादिति वक्तव्यम्। किं प्रयोजनम्? सङ्घप्रतिषेधार्थम्। सङ्घान्मा भूत् -पञ्ञ्चालानामपत्यम्, विदेहानामपत्यमिति। तत्तर्हि वक्तव्यम्॥ (समाधानभाष्यम्) न वक्तव्यम्। न ह्यन्तरेण बहुषु लुकं पञ्ञ्चाला इत्येतद्भवति। यस्तस्मादुत्पद्यते युवप्रत्ययः स स्यात्। युवप्रत्ययश्चेत्तस्य लुक्, तस्मिंश्चालुग् भविष्यति॥ इदं तर्हि -क्षौद्रकाणामपत्यम्, मालवानामपत्यमिति। अत्रापि क्षौद्रक्यो मालव्य इति नैतत्तेषां दासे वा भवति कर्मकरे वा। किं तर्हि? तेषामेव कस्मिंश्चित्। यावता तेषामेव कस्मिंश्चित्, यस्तस्मादुत्पद्यते स युवप्रत्ययः स्यात्। युवप्रत्ययश्चेत्तस्य लुक्, तस्मिंश्चालुग्भविष्यति॥ (क्षत्रियपदाक्षेपभाष्यम्) अथ क्षत्रियग्रहणं किमर्थम्? इह मा भूत् -विदेहो नाम ब्राह्मणस्तस्यापत्यं वैदेहिः॥ (5326 क्षत्रियपदप्रयोजनवार्तिकम्॥ 2 ॥) - क्षत्रियग्रहणानर्थक्ये चोक्तम् - (भाष्यम्) किमुक्तम्? एकं तावदुक्तम् -बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेध इति। अपरमुक्तम् -अनभिधानादिति॥ (5327 अतिदेशवार्तिकम्॥ 3 ॥) - क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् - (भाष्यम्) क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्प्रत्यया भवन्तीति वक्तव्यम्। पञ्ञ्चालानां राजा पाञ्ञ्चालः॥ पूरोरण् वक्तव्यः -पौरवः॥ पाण्डोडर्यण् वक्तव्यः -पाण्डयः॥ Kashika ------- जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्येऽञ् प्रत्ययो भवति। पाञ्चालः। ऐक्ष्वाकः। वैदेहः। जनपदशब्दादिति किम्? द्रुह्योरपत्यं द्रौह्यवः। पौरवः। क्षत्रियादिति किम्? ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिः। वैदेहिः॥ क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत्॥ पञ्चालानां राजा पाञ्चालः। वैदेहः। मागधः॥ Siddhanta Kaumudi ----------------- जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायन-(SK1145) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥ (वार्तिकम्) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः । (वार्तिकम्) ॥ पौरवः । (वार्तिकम्) ॥ पाण्ड्यः ॥ Laghu Siddhanta Kaumudi ----------------------- जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। **क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्** (वार्त्तिकम्) । पञ्चालानां राजा पाञ्चालः। **पूरोरण् वक्तव्यः** (वार्त्तिकम्)। पौरवः। **पाण्डोर्ड्यण्** (वार्त्तिकम्)। पाण्ड्यः॥ Padamanjari ----------- जनपदशब्दोयः क्षत्रियवाचीति । नन्वेते पञ्चालादयः शब्दाः क्षत्रियशब्दा एव, तत्सम्बन्धातु'तस्य निवासः' इति तद्धिते कृते'जनपदे लुप्' इति च लुपि जनपदे वर्तन्ते, तत्कथमवरकालया जनपदशब्दतया नित्यक्षत्रियशब्दता लक्ष्यते ? कः पुनराह - क्षत्रियसम्बन्धादेव ते जनपदे वर्तन्त इति, सूत्रकारस्तावत्'लुब्योगाप्रख्यानात्' इति वदन् क्षत्रियेष्विव जनपदेऽपि स्वाभाविका पञ्चालादिशब्दस्य प्रवृत्तिरित्याह - पाञ्चाल इति । यदपि पञ्चालादयः शब्दा जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्य विशेषणं जनपदत्वम्, न सुबन्तस्येत्येकवचनान्तादपि प्रत्ययो भवत्येव । ऐक्ष्वाक इति । इक्ष्वाकुशब्दस्य दाण्डिनायनादिसूत्रे टिलोपो निपातितः । द्रौह्यव इति । क्षत्रियवचन एवायं न जनपदशब्दः । ब्राह्मणस्य पञ्चालस्येति । बाह्वादिप्रभृतिषु येषां दर्शनमित्युक्तत्वात्कथमत्र प्रसङ्ग इति चिन्त्यम् । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य यमानशब्दः, क्षत्रियेण यस्य समानशब्दस्तस्माज्जनपदशब्दात् तस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत्प्रत्ययो भवति । अवृद्धादपीति प्राप्तस्य वुञोऽपवादः । क्वचितु वृतावेवाय ग्रन्थः पठ।ल्ते । मागध इति ।'द्व्यञ्मगध' इत्यण् ॥ Nyaas ----- जनपदवृत्तिशब्दः पञ्चालादिर्जनपद इत्युक्तः,क्षत्रियवृत्तिः क्षत्रिय इत्यभिधानेऽभिधेयोपचारात्, साहचर्याद्वा। ननु पञ्चालादयः शब्दाः, ते **तस्य निवासः** (4.2.69) इति तद्धिते कृते तस्य **जनपदे लुप्** (4.2.81) इति लुपि च जनपदे वर्तन्ते, तत् कथमवरकालया जनपदशब्दतया नित्याः क्षत्रियशब्दा विशेष्यन्ते? कथं पुनः क्षत्त्रियसम्बन्धादेते जनपदे वर्तन्त इत्येतदभिधातुमर्हति विद्वान्। सूत्रकारेण हि `तदशि,यं संज्ञाप्रमाणत्वाल्लुव्योगाप्रख्यानात्` (1.2.53,54) इतियुक्तवद्भावं लुपञ्च प्रत्यादिशता जनपदे क्षत्त्रियेष्विव स्वत एव पञ्चालादिशब्दस्य वृत्तिरुक्ता। यथा शब्दा नित्यास्तथा पञ्चालादिरपि जनपद इति कुतो जनपदवचनानताया अवरकालता !`पाञ्चालः` इत्यादि। पञ्चालादयः शब्दा देशे सन्तः क्षत्त्रियवाचिनोऽपि भवन्ति स्वभावत एव, तेभ्योऽपत्यार्थेऽञ्। `ऐक्ष्वाकः` इति। इक्ष्वाकुशब्दस्य `दाण्डिनायनहस्तिनायन` (6.4.174) इत्यादौ सूत्रे उकारलोपो निपातितः।`द्रौह्रवः` इति। द्रह्रुशब्दः क्षत्त्रियवचन एव, न जनपदशब्दः, तेनाणेव भवति। `पाञ्चालिर्वैदेहिः` इति। इह पञ्चालविदेहशब्दौ भवतो जनपदशब्दौ, न तु क्षत्त्रियवचनौ। अपि तु ब्राआहृणवचनो, तेनेञेव भवति। `क्षत्त्रियसमानशब्दात्` इत्यादि। क्षत्त्रियवचन एव शब्द उपचारेण क्षत्त्रिय इत्युक्तः जनपदशब्दो जनपद इति। क्षत्त्रियेण समानः शब्दो यस्य स तथोक्तः। तस्मात् क्षत्त्रियसमानशब्दादस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत् प्रत्ययोत्पत्तिरिति वक्तव्यम्। **अवृद्धादपि बहुवचनविषयात्** (4.2.125) (इति) प्राप्तस्य वुञोऽपवादः। यथा पञ्चालस्यापत्यमित्यत्र भवति पाञ्चालः, तथा पञ्चालानां राजा पाञ्चाल इत्यत्रापि भवति।`मागधः` इति। मगधशब्दादपत्ये **द्व्यञ्मगधकलिङ्गसूरमसादण्** (4.1.170) इत्यादिनाण् भवति, तथा तस् यराजेत्यत्रापि॥ Prakriyasarvasvam ----------------- जनपदवाचकात् क्षत्रियनाम्नोऽपत्येऽञ् स्यात् । पञ्चाला इति जनपदो राजानश्चोच्यन्ते । तदपत्यं पाञ्चालः । वैदेहः । इक्ष्वाकुशब्दात् अञि ओर्गुणे प्राप्ते, दाण्डिनायनाद्युक्त्या टिलोपः । ऐक्ष्वाकः ॥ केकयशब्दादञि— Sutra Prayogas -------------- * **मैथिल-यज्ञ-भूमिम्** (भट्टिकाव्यम्): `जनपदशब्दात् क्षत्रियादञ्` इत्यत्र तस्य राजन्यपत्यवदित्यतिदेशादञ्।