41160: प्राचामवृद्धात् फिन् बहुलम् ================================== **Padacheda:** प्राचाम् | S | 6 | 3 | अ-वृद्धात् | S | 5 | 1 | फिन् | S | 1 | 1 | बहुलम् | S | 1 | 1 | Sutrartha --------- **यः शब्दः वृद्धसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे पूर्वदिशि विद्यमानानामाचार्याणाम् मतेन बहुलं फिन् प्रत्ययः भवति ।** Vasu English Summary -------------------- According to the opinion of Eastern Grammarians after a stem not having वृद्धि vowel in the first syllable, the affix फिन् is diversely used in the sense of a descendant. Vasu English Translation ------------------------ According to the opinion of Eastern Grammarians after a stem not having वृद्धि vowel in the first syllable, the affix फिन् is diversely used in the sense of a descendant. Thus ग्लुचुकायनिः or ग्लौचुकिः 'son of *Gluchuka*', ॥ अहिचुम्बकायनिः or आहिचुम्बिः ॥ Why do we say, "not having a *Vriddhi* in the first syllable", Observe राजदन्तिः ॥ The words प्राचाम्, बहुलं and अन्यतरस्याम् all denote optional rules, so the employment of any one of them would have here sufficed. Why two are used in this *sutra* viz. प्राचां and बहुलं ? The mention of Grammarians is made as a token of respect, and बहुलं is used to express the non-uniformity of the *sutra* construction. In some places this affix फिन् is not at all added, as दाक्षिः, प्लाक्षिः ॥ Kashika ------- अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन। ग्लुचुकायनिः। अहिचुम्बकायनिः। प्राचामिति किम्? ग्लौचुकिः। अवृद्धादिति किम्? राजदन्तिः। उदीचां प्राचामन्यतरस्यां बहुलमिति सर्व एते विकल्पार्थास्तेषामेकेनैव सिध्यति। तत्राचार्यग्रहणं पूजार्थम्। बहुलग्रहणं वैचित्र्यार्थम्। क्वचिन्न भवत्येव — दाक्षिः। प्लाक्षिः॥ Siddhanta Kaumudi ----------------- ग्लुचुकायनिः ॥ Balamanorama ------------ **प्राचामवृद्धात् फिन् बहुलम्** - प्राचामवृद्धात् । अवृद्धसंज्ञकादपत्ये बहुलं फिन् स्यादित्यर्थः । प्राचांग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुवग्रहणान्नेह — दाक्षिः । Tattvabodhini ------------- **प्राचामवृद्धात् फिन् बहुलम्** - प्राचामवृद्धात् । प्राचांग्रहणं पूजार्थम् । अवृद्धादिति किम् । राजदन्तिः । बहुग्रगणान्नेह -दाक्षिः । Padamanjari ----------- विकल्पार्था इति । विकल्पप्रयोजनम् । तत्राऽऽचार्योपादानं मतान्तरे प्रत्ययस्याभावं द्योतयति, बहुलग्रहणं तु क्वचित्प्रवृत्यादिकम्, अन्यतरस्यांशब्दस्तु विकल्पमेव, तेषामेकेनैव सिद्ध्यतीति प्रकरणाद्विकल्प इति गम्यते । किमर्थं तर्हि सर्वेषां ग्रहणम् ? तत्राह - तत्रेति । बहुलग्रहणं वैचित्र्यार्थमिति । पारिशेष्यादन्यस्य ग्रहणं विकल्पार्थमित्युक्तं भवति । वैचित्र्यमेव दर्शयति - क्वचिदिति ॥ Nyaas ----- `विकल्पार्थः` इति। विकल्पप्रयोजनाय। `एकेनैव सिध्यति` इति। विकल्पार्थत्वादिति।प्रकृतत्वाद्विकल्प इति गम्यते। अत्र च किमर्थं सर्वेषां ग्रहणमित्यध्याहार्यम्। तत्रेत्याद्युत्तरम्। यच्चोदीचांग्रहणं यच्च प्राचांग्रहणम्, तदुभयं पूजार्थम्। `बहुलग्रहणं वैचित्र्यार्थम्` (इति)। पारिशेष्यादन्यतरस्यांग्रहणं विकल्पार्थमित्युक्तं भवति। `क्वचित्` इत्यादिना बहुलग्रहणस्य वैचित्र्यार्थतां दर्शयति॥ Prakriyasarvasvam ----------------- ग्लुचुकायनिः । उदङ्‌मते ग्लौचुकिः । बहुलोक्तेः सर्वत्र न । दक्षाद् दाक्षिः ॥