41159: पुत्रान्तादन्यतरस्याम्

Padacheda: पुत्र-अन्तात् | S | 5 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

यस्य वृद्धसंज्ञकस्य शब्दस्य अन्ते ‘पुत्र’ इति वर्तते, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे उदीचामाचार्याणां मतेन (फिञ्-प्रत्यये कृते) कुक्-आगमः अपि विकल्पेन भवति ।

Vasu English Summary

The augment कुक् optionally comes after a stem ending with the word पुत्र when the Patronymic affix फिन् follows.

Vasu English Translation

The augment कुक् optionally comes after a stem ending with the word पुत्र when the Patronymic affix फिन् follows. The anuvritti of the words “according to the opinion of Northern Grammarians when the word has a Vriddhi in the first syllable” must be read into this sutra. Of course, a word ending in पुत्र cannot be a Gotra-word, for a Gotra word means a grandson or a still lower descendant. Hence a word ending in पुत्र having Vriddhi in the first syllable will take the affix फिञ् by (4.1.157); the present aphorism only rules that it takes the augment कुक् optionally.

Thus we have three forms :- गार्गीपुत्रकायणिः or गार्गीपुत्रायणिः or गार्गीपुत्रिः ॥ So also वात्सीपुत्रकायणिः, वात्सीपुत्रायणिः and वात्सीपुत्रिः ॥

Kashika

उदीचां वृद्धादिति वर्तते। पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्धः, तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते। पुत्रान्तात् प्रातिपदिकाद् यः फिञ् प्रत्ययः, तस्मिन् परभूतेऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य। तेन त्रैरूप्यं संपद्यते। गार्गीपुत्रकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः। वात्सीपुत्रकायणिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः॥

Siddhanta Kaumudi

अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः- गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥

Balamanorama

पुत्रान्तादन्यतरस्याम् - पुत्रान्तादन्यतरस्यां । स्पष्टम् ।

Tattvabodhini

पुत्रान्तादन्यतरस्याम् - पुत्रान्तात् ।उदीचां वृद्धा॑दित्यनुवर्तत इत्याशयेनाह वा फिञ्सिद्ध इति । तेनैव सुत्रेण फिञि सिद्धे अनेन कुगेव वा विधीयत इति भावः ।

Padamanjari

पूर्वेणाइव प्रत्ययः सिद्ध इति । तेनासाविह विधीयते । कथं तर्हि पञ्चम्या निर्देश इत्याह - पुत्रान्तादित्यादि ॥

Nyaas

तेन इत्यादि। वचनात् पूर्वसूत्रेणैवोदीचां मतेन यः पक्षे फिञ् विहितस्तस्मिन्ननेनान्यतरस्यां कुगागमोऽपि विधीयते।तेन त्रीणि रूपाणि भवन्ति॥

Prakriyasarvasvam

पुत्रान्तस्य शब्दस्य ‘उदीचां वृद्धाद्—’ (४-१-१५७) इति फिञि परे वा कुक् स्यात् । राजपुत्रस्य पुत्रो राजपुत्रकायणिः । राजपुत्रायणिः । अनुदङ्‌मते फिञभावाद् राजपुत्रिः ॥