41153: उदीचामिञ्

Padacheda: उदीचाम् | S | 6 | 3 |

इञ् | S | 1 | 1 |

Sutrartha

यस्य शब्दस्य अन्ते ‘सेन’ इति विद्यते तस्मात् शब्दात्, ‘लक्षण’शब्दात् तथा ‘कारिवाचि’शब्दात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे उदीचामाचार्याणां मतेन इञ्-प्रत्ययः भवति ।

Vasu English Summary

According to the opinion of Northern Grammarians, the affix इञ् comes in the sense of descendant after the words ending in सेना , the word लक्षण and words expressing artisans.

Vasu English Translation

According to the opinion of Northern Grammarians, the affix इञ् comes in the sense of descendant after the words ending in सेना , the word लक्षण and words expressing artisans. Thus कारिषेणिः, हारिषेणिः, लाक्षणिः, तान्तुवायिः, कौम्भकारिः ॥ As to the word तक्ष्ण ‘carpenter.’ See (4.1.112). It will have ताक्ष्णः and ताक्ष्ण्यः, but will not take इञ् ॥ The word नापित being a Vriddha, non-gotra word, will take फिञ् under (4.1.157) according to the Northern Grammarians, as नापितायनिः ॥

Bhashya

उदीचामिञ्ञ् (1399) (ःइञ्ञोऽधिकरणम्) (5306 वार्तिकम्॥ 1 ॥) - उदीचामिञ्ञ्विधौ तक्ष्णोऽण्वचनम् - (भाष्यम्) उदीचामिञ्ञ्विधौ तक्ष्णोऽण् वक्तव्यः -ताक्ष्णः॥ (लाघवप्रदर्शकभाष्यम्) यदि पुनरयं तक्षन्शब्दः शिवादिषु पठ्येत॥ (5307 लाघवाभावबोधकवार्तिकम्॥ 2 ॥) - शिवादिरिति चेण्ण्यविधिः - (भाष्यम्) शिवादिरिति चेद् ण्यो विधेयः। ताक्षण्य इति॥ (5308 सिद्धान्तवार्तिकम्॥ 3 ॥) - सिद्धं तूदीचां वा ण्यवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? उदीचां वा ण्यवचनात्। उदीचां वा ण्यो भवतीति वक्तव्यम्। ण्येन मुक्ते यो यतः प्राप्नोति स ततो भविष्यति॥

Kashika

ण्ये प्राप्त इञपरो विधीयते। सेनान्तलक्षणकारिभ्योऽपत्य इञ् प्रत्ययो भवत्युदीचां मतेन। कारिषेणिः। हारिषेणिः। लाक्षणिः। तान्तुवायिः। कौम्भकारिः। वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्ध आचार्यग्रहणं वैचित्र्यार्थम्। तक्षन्शब्दः शिवादिः, तेनाणायमिञ् बाध्यते, न तु ण्यः। तक्ष्णोऽपत्यं ताक्ष्णः। ताक्षण्यः॥

Siddhanta Kaumudi

हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः ।<!तक्ष्णोऽण उपसंख्यानम् !> (वार्तिकम्) ॥ षपूर्व-(SK1160) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥

Balamanorama

उदीचामिञ् - उदीचामिञ् । सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः । परत्वात्फिञेवेति ।उदीचां वृद्धा॑दित्यनेनेति शेषः ।तक्ष्णोऽण उपसङ्ख्यानमिति ।उदीचांमते॑इति शेषः । ताक्ष्ण इति । अणि प्रकृतिभावान्न टिलोपः ।अल्लोपस्तुषपूर्वह॑न्निति वचनाद्भवति । पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । ‘ये चाऽभावकर्मणोः’ इति प्रकृतिभावान्न टिलोपः ।

Padamanjari

ताक्ष्ण इति ।’षपूर्वहन्धऋतराज्ञामणि’ इत्यल्लोपः । ताक्षण्य इति ।’ये चाभावकर्मणोः’ इति प्रकृतिभावः । इह’सेनान्तलक्षणकारिभ्यो वा’ इति वक्तव्यम्, नार्थोऽनेनेञ्वचनेन, नापि शिवादिषु तक्षन्शब्दस्य पाठेन, ण्ये हि विकल्पिते यो यतः प्राप्नोति सततो भवतीति लक्ष्णः’प्राग्दीव्यतो’ ण्ऽ, अन्येभ्यश्च ठत इञ्ऽ भविष्यति ? नैवं शक्यम्; एवं हि जातसेनादिभ्य ऋष्यादिलक्षणोऽण् प्राप्नोति ॥

Nyaas

वचनसामर्थ्यात् इत्यादि। ण्योऽप्युच्यते, इञपि, वचनसामर्थ्यादेवान्तरेणाचार्यग्रहणं तयोः समावेशे सिद्धे तदाचार्यग्रहणं क्रियते तद्वैचित्र्यार्थम्। आचार्यग्रहणस्यातिरिच्यमानत्वादयमर्थो लभ्यते, ग्रन्थाधिक्यादर्थाधिक्यं भवतीति कृत्वा। ननु च पूजार्थमाचार्यग्रहणं स्यात्? नैतदस्ति; एवं हि प्राचामपि ग्रहणं कर्तव्यं स्यात्। तेऽपि हि सेनान्तलक्षणकारिभ्य इञं स्मरन्ति। तक्षन्शब्दः इत्यादिना वैचित्र्यं दर्शयति। ताक्ष्णः इति। शिवाद्यणि कृते षपूर्वहन्धृतराज्ञामणि (6.4.135) इत्यल्लोपः। ताक्षण्यः इति। ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः॥

Prakriyasarvasvam

तन्मत उक्तेभ्यस्त्रिभ्य इञ् । हारिषेणिः । लाक्षणिः । तान्तुवायिः ।।

Vartika

तक्ष्णोऽण उपसंख्यानम् ।