41152: सेनान्तलक्षणकारिभ्यश्च¶
Padacheda: सेनान्त-लक्षण-कारिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
यस्य शब्दस्य अन्ते ‘सेन’ इति विद्यते तस्मात् शब्दात्, ‘लक्षण’शब्दात् तथा ‘कारिवाचि’शब्दात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे ण्य-प्रत्ययः भवति ।
Vasu English Summary¶
The affix ण्य comes in the sense of descendant after प्रातिपदिक (Nominal Stem) ending in सेना after the word लक्षण and after words denoting artisans.
Vasu English Translation¶
The affix ण्य comes in the sense of descendant after प्रातिपदिक (Nominal Stem) ending in सेना after the word लक्षण and after words denoting artisans. The word कारि means ‘handicrafts’, such as weavers, barbers, potters &c. Thus करिषेण्यः हारिषेण्यः, लाक्षण्यः, तान्तुवाय्यः, कौम्भकार्यः, नापित्यः ॥
Kashika¶
सेनान्तात् प्रातिपदिकाल् लक्षणशब्दात् कारिवचनेभ्यश्चापत्ये ण्यः प्रत्ययो भवति। कारिशब्दः कारूणां तन्तुवायादीनां वाचकः। कारिषेण्यः। हारिषेण्यः। लाक्षण्यः। कारिभ्यः — तान्तुवाय्यः। कौम्भकार्यः। नापित्यः॥
Siddhanta Kaumudi¶
एभ्यो ण्यः । एति संज्ञायाम्-(SK1023) इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥
Balamanorama¶
सेनान्तलक्षणकारिभ्यश्च - सेनान्त । एभ्य इति । सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति । हरिषेणो नाम कश्चित् ।एति संज्ञायां॑मिति षत्वम् । तस्याऽसिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति । लक्षणमस्यास्तीति लक्षणः । अर्शाअद्यच् । तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे — कारिः शिल्पीति । तस्मादिति । कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापितस्यापत्यमिति विग्रहः ।
Tattvabodhini¶
सेनान्तलक्षणकारिभ्यश्च - हारिषेण्य इति ।एति संज्ञाया॑मिति षत्वस्याऽसिद्धत्वत्सेनान्तोऽयम् ।ताक्ष्णोऽण उपसङ्ख्यानम् । ताक्ष्ण इति । उदीचामिञोपवादोऽयमण् । अस्मादुपसङ्ख्यानाच्छिवादिषु तक्षन्शब्दपाठोऽनार्षं इति गम्यते । वृत्तिकारस्तु -तक्षन्शब्दं शिवादिषु पठित्वाकारिलक्षणमुदीचाभिञमयमण्बाधते, णस्य तु बाधो नेष्यते॑इत्याह । तदनुरोधेनास्माभिरपि तत्र तथैव व्याख्यातम् । फले विशेषाऽभावात् ।
Padamanjari¶
लक्षणेति स्वरूपग्रहणमित्याह - लक्षणशब्दादिति । कारीत्यर्थग्रहणमित्याह - कारिवचनेभ्यश्चेति । साधु कुर्वन्तीति कारिणःउशिल्पिनः । नापित्य इति । प्राचां मते ण्य उदाहृतः । उदीचां तु मते परत्वाद् ठुदीचां वृद्धात्ऽ इति फिञेव भवति - नापितायनिरिति ॥
Nyaas¶
अत्र ग्रहणवता प्रातिपदिकेन तदन्तविधि (व्या।प।89) प्रतिषेधाल्लक्षणशब्दस्य स्वरूपग्रहणम्। अत एवाह - लक्षणशब्दात् इति। कारीत्यर्थग्रहणम्। तत्रार्थे कार्यस्याभावात् तद्वाचिनः प्रत्ययो विज्ञायत इत्याह - कारिवचनेभ्यश्च इति।यथा लक्षणशब्दस्य स्वरूपग्रहणं तथा कारिशब्दस्य कस्मान्न भवति? शिवादिषु तक्षन्निति पाठात्। अस्य हि कारिलक्षणमिञं बाधितुं तत्र पाठः। यदि च कारिशब्दस्येह स्वरूपग्रहणं स्यात्, तक्षन्शब्दादिभ्यः प्राप्तेरसम्भवादुत्सर्गेणैवाणा भवितव्यमिति तस्य शिवादिषु पाठोऽनर्थकः स्यात्। अर्थग्रहणे त्वनेन प्राप्तस्येञो बाधनार्थस्तत्र पाठो युज्यते॥
Prakriyasarvasvam¶
सेनान्तेभ्यो लक्षणशब्दात् कारिभ्यश्च अपत्ये ण्यः स्यात् । हरिषेणसुतो हारिषेण्यः । लाक्षण्यः । कारी शिल्पी । तान्तुवाय्यः । तार्क्ष्यः । ‘ये च’— (६-४-१६८) इति प्रकृतिभावः । शिवाद्युक्तेस्ताक्ष्णोऽपि । ‘षपूर्व’—(६-४-१३५) इत्यल्लोपः ।।