41153: उदीचामिञ् ================ **Padacheda:** उदीचाम् | S | 6 | 3 | इञ् | S | 1 | 1 | Sutrartha --------- **यस्य शब्दस्य अन्ते 'सेन' इति विद्यते तस्मात् शब्दात्, 'लक्षण'शब्दात् तथा 'कारिवाचि'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन इञ्-प्रत्ययः भवति ।** Vasu English Summary -------------------- According to the opinion of Northern Grammarians, the affix इञ् comes in the sense of descendant after the words ending in सेना , the word लक्षण and words expressing artisans. Vasu English Translation ------------------------ According to the opinion of Northern Grammarians, the affix इञ् comes in the sense of descendant after the words ending in सेना , the word लक्षण and words expressing artisans. Thus कारिषेणिः, हारिषेणिः, लाक्षणिः, तान्तुवायिः, कौम्भकारिः ॥ As to the word तक्ष्ण 'carpenter.' See (4.1.112). It will have ताक्ष्णः and ताक्ष्ण्यः, but will not take इञ् ॥ The word नापित being a *Vriddha*, non-*gotra* word, will take फिञ् under (4.1.157) according to the Northern Grammarians, as नापितायनिः ॥ Bhashya ------- उदीचामिञ्ञ् (1399) (ःइञ्ञोऽधिकरणम्) (5306 वार्तिकम्॥ 1 ॥) - उदीचामिञ्ञ्विधौ तक्ष्णोऽण्वचनम् - (भाष्यम्) उदीचामिञ्ञ्विधौ तक्ष्णोऽण् वक्तव्यः -ताक्ष्णः॥ (लाघवप्रदर्शकभाष्यम्) यदि पुनरयं तक्षन्शब्दः शिवादिषु पठ्येत॥ (5307 लाघवाभावबोधकवार्तिकम्॥ 2 ॥) - शिवादिरिति चेण्ण्यविधिः - (भाष्यम्) शिवादिरिति चेद् ण्यो विधेयः। ताक्षण्य इति॥ (5308 सिद्धान्तवार्तिकम्॥ 3 ॥) - सिद्धं तूदीचां वा ण्यवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? उदीचां वा ण्यवचनात्। उदीचां वा ण्यो भवतीति वक्तव्यम्। ण्येन मुक्ते यो यतः प्राप्नोति स ततो भविष्यति॥ Kashika ------- ण्ये प्राप्त इञपरो विधीयते। सेनान्तलक्षणकारिभ्योऽपत्य इञ् प्रत्ययो भवत्युदीचां मतेन। कारिषेणिः। हारिषेणिः। लाक्षणिः। तान्तुवायिः। कौम्भकारिः। वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्ध आचार्यग्रहणं वैचित्र्यार्थम्। तक्षन्शब्दः शिवादिः, तेनाणायमिञ् बाध्यते, न तु ण्यः। तक्ष्णोऽपत्यं ताक्ष्णः। ताक्षण्यः॥ Siddhanta Kaumudi ----------------- हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः । (वार्तिकम्) ॥ षपूर्व-(SK1160) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥ Balamanorama ------------ **उदीचामिञ्** - उदीचामिञ् । सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः । परत्वात्फिञेवेति ।उदीचां वृद्धा॑दित्यनेनेति शेषः ।तक्ष्णोऽण उपसङ्ख्यानमिति ।उदीचांमते॑इति शेषः । ताक्ष्ण इति । अणि प्रकृतिभावान्न टिलोपः ।अल्लोपस्तुषपूर्वह॑न्निति वचनाद्भवति । पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । 'ये चाऽभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । Padamanjari ----------- ताक्ष्ण इति ।'षपूर्वहन्धऋतराज्ञामणि' इत्यल्लोपः । ताक्षण्य इति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः । इह'सेनान्तलक्षणकारिभ्यो वा' इति वक्तव्यम्, नार्थोऽनेनेञ्वचनेन, नापि शिवादिषु तक्षन्शब्दस्य पाठेन, ण्ये हि विकल्पिते यो यतः प्राप्नोति सततो भवतीति लक्ष्णः'प्राग्दीव्यतो' ण्ऽ, अन्येभ्यश्च ठत इञ्ऽ भविष्यति ? नैवं शक्यम्; एवं हि जातसेनादिभ्य ऋष्यादिलक्षणोऽण् प्राप्नोति ॥ Nyaas ----- `वचनसामर्थ्यात्` इत्यादि। ण्योऽप्युच्यते, इञपि, वचनसामर्थ्यादेवान्तरेणाचार्यग्रहणं तयोः समावेशे सिद्धे तदाचार्यग्रहणं क्रियते तद्वैचित्र्यार्थम्। आचार्यग्रहणस्यातिरिच्यमानत्वादयमर्थो लभ्यते, ग्रन्थाधिक्यादर्थाधिक्यं भवतीति कृत्वा। ननु च पूजार्थमाचार्यग्रहणं स्यात्? नैतदस्ति; एवं हि प्राचामपि ग्रहणं कर्तव्यं स्यात्। तेऽपि हि सेनान्तलक्षणकारिभ्य इञं स्मरन्ति। `तक्षन्शब्दः` इत्यादिना वैचित्र्यं दर्शयति। `ताक्ष्णः` इति। शिवाद्यणि कृते **षपूर्वहन्धृतराज्ञामणि** (6.4.135) इत्यल्लोपः। `ताक्षण्यः` इति। **ये चाभावकर्मणोः** (6.4.168) इति प्रकृतिभावः॥ Prakriyasarvasvam ----------------- तन्मत उक्तेभ्यस्त्रिभ्य इञ् । हारिषेणिः । लाक्षणिः । तान्तुवायिः ।। Vartika ------- तक्ष्णोऽण उपसंख्यानम् ।