41154: तिकादिभ्यः फिञ्¶
Padacheda: तिक-आदिभ्यः | S | 5 | 3 |
फिञ् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे तिकादिगणस्य शब्देभ्यः फिञ्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix फिञ् comes in the sense of descendant after the words तिक etc.
Vasu English Translation¶
The affix फिञ् comes in the sense of descendant after the words तिक etc. Thus तैकायनिः, कैतवायनिः ॥ The word वृष occurs in this class. In taking this affix, it adds an intermediate य as वार्ष्यायणिः ॥ The word कौरव्य occurs in this class, and denotes a Kshatriya: because it is immediately preceded by the word आरैश = उरसा शेते = उरशः क्षत्रियः, his son will be aurasa with, अञ् which ends in an affix denoting a Kshatriya (4.1.168). But the word कौरव्य formed by the affix ण्य of (4.1.150) will take the affix इञ् and not फिञ् of this Sutra. See (2.4.58) and (2.4.68).
1 तिक, 2 कितव, 3 संज्ञा, 4 बाला (बाल) 5 शिखा, 6 उरस् (उरश), 7 शाट्य (शाट्य) 8 सैन्धव, 9 यमुन्द, 10 रूप्य, 11 ग्राम्य, 12 नील, 13 अमित्र, 14 गौकक्ष्य, 15 कुरु (करु) 16 देवरथ, 17 तैतल (तैतिल) 18 औरस (औरश), 19 कौरव्य, 20 भौरिकि 21 भौलिकि, 22 चौपयत, 23 चैटयत, 24 शीकयत (शैकयत) 25 क्षैतयत, 26 वाजवत (ध्वाजवत K.) 27 चन्द्रमस्, 28 शुभ, 29 गङ्गा, 30 वरेण्य, 31 सुपामन्, 32 आरद्ध (आरटव), 33 वह्यका, 34 खल्यका (खल्या; खल्य) 35 वृष, 36 लोमक, 37 उदज्ञ (उदन्य) 38 यज्ञ, 39 सुयामन्, 40 ऋश्य (ऋष्य), 41 भीत, 42 जाजल, 43 रस, 44 लावक, 45 ध्वजबद, 46 वसु, 47 बन्धु, 48 आवन्धका (as well as आबन्धका).
Kashika¶
तिक इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति। तैकायनिः। कैतवायनिः। वृषशब्दोऽत्र पठ्यते, तस्य प्रत्ययसन्नियोगेन यकारान्तत्वमिष्यते। वार्ष्यायणिः। कौरव्यशब्दः पठ्यते, स च क्षत्रियवचनः, औरसशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात्। यस्तु कुर्वादिभ्यो ण्यः (४.१.१५१), तदन्ताद् इञैव भवितव्यम्। तथा च ण्यक्षत्रियार्षञितः० (२.४.५८) इत्यत्रोदाहृतं कौरव्यः पिता, कौरव्यः पुत्र इति॥ तिक। कितव। संज्ञा। बाल। शिखा। उरस्। शाट्य। सैन्धव। यमुन्द। रूप्य। ग्राम्य। नील। अमित्र। गौकक्ष्य। कुरु। देवरथ। तैतिल। औरस। कौरव्य। भौरिकि। भौलिकि। चौपयत। चैतयत। चैटयत। शैकयत। क्षैतयत। ध्वाजवत। चन्द्रमस्। शुभ। गङ्गा। वरेण्य। सुयामन्। आरद। वह्यका। खल्या। वृष। लोमका। उदन्य। यज्ञ॥
Siddhanta Kaumudi¶
तैकायनिः ॥
Balamanorama¶
तिकादिभ्यः फिञ् - तिकादिभ्य फिञ् । इञोऽपवादः । तैकायनिरिति । फञि आयन्नादेशः ।
Padamanjari¶
क्षत्रियवचन इति । यः’कुरुनादिभ्यो ण्यः’ इति व्युत्पादितः । औरशशब्देनेति । उरसा शेते उरशः क्षत्रियः, पृषोदरादित्वाद्रूपम्, तस्यापत्यम्’जनपदशब्दात्क्षत्रियात्’ इत्यञ् । किं पुनरेवं प्रयत्नेन क्षत्रियवचनस्य ग्रहणं व्याख्यायते ? इत्यत्राह - तथा चेति । उदाहृतमिति । पूर्वैरपि वृत्तिकारैरित्यर्थः । तिक्नोतेरिगुपधात्कः, तिकः । किं तवास्तीति प्रवर्तते कितवः, पृषोदरादिः । सम्पूर्वाज्जानातेः ठातश्चोपसर्गेऽ इति कः, स्त्रियां टाप्, संज्ञा । बालैर्बद्धा शिखास्य स बालशिखः । द्वौ शब्दावित्यन्ये, बलतेर्णिजन्तादच् बालः, तस्य बालायनिः । शिखाशब्देन तद्वान् लक्ष्यते, शैखायनिः । उरशशब्दो व्युत्पादितः ।’शटकुत्सायाम्’ पचाद्यच्, ततो गर्गादित्वाद्यञ् - शाट।ल्ः; ततो यूनि फिञ् । सिन्धुशब्दाद्’द्व्यञ्मगध’ इत्यण्, सैन्धवः, अत्रापि यूनि फिञ् । यममुनतीतियमुन्दः, शकन्ध्वादि । प्रशस्तं रूपमस्यास्ति रूपादाहतप्रशंसयोर्यप्ऽ, रूप्यः । ग्रामे भवो ग्राम्यः । नील वर्णे, इगुपधात्कः नीलः । ठम् रोगेऽ, औणाअदिक इत्रः, अमित्रः । गौकाक्ष्यो गर्गादियञन्तः ।’कृग्रोरुः’ , कुरुः । देवस्येव रथोऽस्य देवरथः । तिलेतिलः, तितिलः, पृषोदरादिः, ततो मत्वर्थीय इन्, तितिलिनोऽपत्यमौत्सर्गिकोऽण्,’नस्तद्धिते’ इति टिलोपः, तैतिलः । औरशशब्दो व्युत्पादितः ।’कुरुनादिभ्यो ण्यः’ , कौरव्यः । भूरि अस्यास्ति भूरिको व्रीह्यादिः, तस्यैव पक्षे कपिलादित्वाल्लत्वं भूलिकः, ताभ्यामत इञ्, भौरिकिः, भौलिकिः ।’चुप मन्दायां गतौ’ ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चौपयतः, एवं चैतयतः ।’चिट परप्रेष्ये’ , ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चैटयतः ।’शीकृ सेचने’ , णिजादि पूर्ववत्, शैकयतः । क्षितमाचष्टे क्षितयन्, तस्यापत्यं क्षैतयतः । ध्वजोऽस्यास्ति ध्वजवान्, तस्यापत्यं ध्वाजवतः । द्वौ शब्दावित्यन्ये,’ध्वज गतौ’ ण्यन्तात्पचाद्यच्, ध्वाजः; वनोतेस्तःष वतः ।’चदि आह्लादने’ , ततो रमस् चन्द्रमाः, तस्यापत्यं चान्द्रमसायनिर्बुधः । शोभतेऽसौ शुभः, इगुपधात्कः । गमेर्गन्, गङ्गा । वृञ एण्यः, वरेण्यः । सर्वधातुभ्यो मनिन्, यानं यामा, शोभनं यामास्य सुयाम् । आरदो नाम जनपदः, ततोऽपत्ये’जनपदशब्दात्’ इत्यञ् - आरदः । वह्यं करणम्, वह्यमेव वह्यका, निपातनादित्वाभावः । खलाय हिता खल्या,’खलयव’ इति यत् ।’वृषु सेचने’ इगुपधात्कः - वृषः । लोमानि कामयति लोमका । उदकमिच्छत्यात्मन उदन्यः, ठशनायोदन्यधनायऽ इत्युदकस्योदन्भावः, ततः पचाद्यच् । यज्ञयोगाद्यज्ञः । एते तिकादयः ॥
Nyaas¶
कौरव्यशब्दः पठते इत्यादि। कौरव्यशब्दोऽयमस्त्येव क्षत्त्रियगोत्रवचनो यः कुरुनादिभ्यो ण्यः (4.1.172) इति ण्यप्रत्ययान्तः; तयोरिह पूर्वो गृह्रते। कुत एतत्? औरसशब्देन साहचर्यात्। औरसशब्दोऽयं जनपदशब्दात् क्षत्रियादञ् (4.1.168) इत्यञ्प्रत्ययान्तः, तेनासौ क्षत्त्रियवचनः, तत्साहचर्याच्चकौरव्यशब्दो यः क्षत्त्रियप्रत्ययान्तत्वात् क्षत्त्रियवचनः स एव गृह्रते।यस्तु इत्यादि। यस्तु कुर्वादिभ्यो ण्यः (4.1.151) । इति ण्यप्रत्ययान्तो ब्राआहृणादिगोत्रवचनः, तस्मात् अत इञ् (4.1.95) इदीञैव भवितव्यम्, तत्रैतत् स्यात्? स्वमनीषिकेयं भवत इत्याह - तथा च इत्यादि। यत एवं ब्राआहृणादिगोत्रवचनादिञैव भवितव्यम्। तथा हि ण्यक्षत्त्रियादि (2.4.58) सूत्रे पूर्वेरपि वृत्तिकारैः - कौरव्यः पिता, कौरव्यः पुत्र इत्युदाहृतम्। यदि चातः फिञ् स्यात् तदुदाहरणं न युज्येत।न हि ण्यप्रत्ययान्ताद्विहितस्य फिञो यूनि लुगुच्यते, अपि त्वणिञोः॥