41148: वृद्धाट्ठक् सौवीरेषु बहुलम्¶
Padacheda: वृद्धात् | S | 5 | 1 |
ठक् | S | 1 | 1 |
सौवीरेषु | S | 7 | 3 |
बहुलम् | S | 1 | 1 |
Sutrartha¶
सौवीरकुलवाचि यः वृद्धसंज्ञकः शब्दः, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् बहुलम् ठक्-प्रत्ययः भवति ।
Vasu English Summary¶
When contempt is to be expressed, the affix ठक् is diversely added in the senses of a descendant after a वृद्ध word denoting सौवीर गोत्र-s.
Vasu English Translation¶
When contempt is to be expressed, the affix ठक् is diversely added in the senses of a descendant after a वृद्ध word denoting सौवीर गोत्र-s. Karika
भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः ॥ तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलं ततः ॥
Thus भागवित्तिकः ‘the son of Bhagavitti’. So also तार्णबिन्दविकः formed from तृणबिन्दु + अण् (4.1.83) तार्णबिन्दवः, and then adding ठक् ॥ In the alternative we have the affix फक् (4.1.101) as भागवित्तायनः, so also तार्णबिन्दविः ॥ The word अकशाप belongs to Subhradi class (4.1.123): and forms आकशापेयः, his son will be आकशापेयिकः or आकशापेयिः ॥ Of course, when contempt is not expressed, we have to भागवित्तायनः only.
The operation of this sutra is, in fact, confined to the three words भागवित्ति, तार्णबिन्दव, and आकशापेय as given in the karika.
What is the necessity of using the word ‘Vrddha’ in the sutra, for the anuvritti of the word ‘gotra’ is understood in the sutra, and a Sauvira class Nominal-stem formed with a Gotra affix will necessarily have a Vrddhi letter in its first syllable? The word Vrddha is employed in the sutra to stop the anuvritti of स्त्रियाः; for had ‘Vrddha’ not been used, then with the anuvritti of गोत्र from the last sutra, there would have come the anuvrtti of स्त्रियाः also, but by using ‘Vriddha’ the anuvrtti of ‘Gotra’ only is taken, and not that of ‘striyah’.
Why do we say “of the Sauviras”? Observe औपगविर्जाल्मः ॥ Why do we say ‘in denoting contempt’? Observe भागवित्तायनो माणवकः ॥ Why do we say ‘diversely’? The word बरुल indicates the anomalous nature of these four sutras (4.1.147) to (4.1.150). Thus the first of these viz (4.1.147) only denotes contempt, the last of these viz (4.1.150), denotes ‘Sauvira’ only and not contempt; whilst the middle two namely (4.1.148) and (4.1.189) denote both ‘contempt’ and ‘Sauvira’.
Bhashya¶
द्धट्ठक् सौवीरेषु बहुलम् (1394) (विषयविभागप्रदर्शकभाष्यम्) गोत्रस्त्रियाः, वृद्धाट्ठक्, फेश्छश्च, फाण्टाहृति (147-150) इमे चत्वारो योगाः। तत्र त्रयः कुत्सने, त्रयः सौवीरगोत्रे। आद्यो योगः कुत्सन एव, अन्त्यः सौवीरगोत्र एव॥
Kashika¶
कुत्सन इत्येव। सौवीरेष्विति प्रकृतिविशेषणम्। वृद्धात् सौवीरगोत्रादपत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमाने। भागवित्तेर्भागवित्तिकः। तार्णबिन्दवस्य तार्णबिन्दविकः। पक्षे यथाप्राप्तं फक्। भागवित्तायनः। पक्षे तार्णबिन्दविः। अकशापः शुभ्रादिः — आकशापेयः। तस्यापत्यम् आकशापेयिकः। पक्ष आकशापेयिः।
भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः।
तृतीयस्त्वाकशापेयो गोत्राट् ठग् बहुलं ततः॥
वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम्। सौवीरेष्विति किम्? औपगविर्जाल्मः। कुत्सन इत्येव — भागवित्तायनो माणवकः। बहुलग्रहणमुपाधिवैचित्र्यार्थम्। गोत्रस्त्रिया इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि। तदेतद् बहुलग्रहणाल् लभ्यते॥
Siddhanta Kaumudi¶
सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥
Balamanorama¶
वृद्धाट्ठक् सौवीरेषु बहुलम् - वृद्धाट्ठक्सौ । पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेषणं । तदाह — वृद्धादिति ।वृद्धिर्यस्याचामादि॑रिति वृद्धिसंज्ञकादित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यं — भागावित्तिः, तस्यापत्य युवेत्यर्थे ठकि इकादेसे भागवित्तिक॑ इति रूपमित्यर्थः । पक्षे फगिति । ‘यञिञोश्चे’ त्यनेने॑ति शेषः ।
Padamanjari¶
अत्र’वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ इति वृद्धं गृह्यते, न त्वपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरपरिभाषितम् । उतरसूत्रे हि वक्ष्यति - फिञो ग्रहणं न फिनः, वृद्धाधिकारादिति । सौवीरेष्विति प्रकृतिविशेषणमिति ।’गोत्रस्त्रियाः’ इत्यतो गोत्रग्रहणानुवृतेर्गोत्रप्रत्ययान्ता या प्रकृतिस्तस्या विशेषणमित्यर्थः । वृद्धात्सौवीरगोत्रादिति । इदमपि पारिभाषिकस्यैव वृद्धस्य ग्रहणे घटते, अन्यथा सौवीरेषु यद्वृद्धं तस्मादिति वक्तव्यम् । भागवितायन इति ।’यञिञोश्च’ इति फक् । तृणबिन्दोरपत्यमिति औत्सर्गिकोऽण्तार्णबिन्दवः, ततष्ठक् । पूर्वठग्ग्रहणं णेन सम्बद्धम्, अतस्तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह ग्रहणम् । भागपूर्वपदौ वितिरिति । वित्यन्त इत्यर्थः । भागवितिशब्द इति यावत् । गोत्राट्ठग्बहुलं तत इति ।’गोत्रस्त्रियाः’ इत्यतो गोत्रग्रहणानुवृत्या गोत्रवचनात्प्रातिपदिकाद्वहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवितिप्रभृतिभ्यस्त्रिभ्य एव भवति, नान्येभ्य इति परिगणनश्लोकार्थः । ननु गोत्रग्रहणमनुवर्तते, यच्च सौवीरसगोत्रवृत्तिप्रातिपदिकं तद्वृद्धमेव, तत्किमर्थं वृद्धग्रहणम् ? अत आह - वृद्धग्रहणं स्त्रीनिवृत्यर्थमिति । तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तदनुवृतौ स्त्रीग्रहणमप्यनुवर्तेत, वृद्धग्रहणसामर्थ्यातु गोत्रग्रहणमेवानुवर्तते, न स्त्रीग्रहणमिति व्याचक्षते । अपत्यमन्तर्हितं वृद्धमित्यस्य तु वृद्धस्य ग्रहणेऽसमञ्जसोऽयं ग्रन्थः स्यात् । औपगविरिति । ननु च परिगणनादेवात्र न भविष्यति ? तन्न; न हि सूत्रकारोऽर्वाचीनपरिगणनाश्रयेणातिप्रसङ्गनिवारणं मन्यते, वाग्रहण एव कर्तव्ये यद्वहुलग्रहणं कृतं तस्य प्रयोजनमाह - बहुलग्रहणमित्यादि । वैचित्र्यमेव दर्शयति - गोत्रस्त्रिया इत्यारभ्येति । तत्रान्त्यः सौवीरगोत्र एवेति । अयमेवार्थो यत्नसाध्यः ॥
Nyaas¶
सौवीरेष्विति प्रकृतिविशेषणम् इति। सौवीरेषु यद्वृद्धं सौवीरगोत्राभिधायि यद्वृद्धमित्यर्थः। भागवित्तेःट इत्यादि। भगवित्तस्यापत्यं गोत्रम्। `अत इञ (4.1.95) , तदन्तात् ठक् - भागवित्तिकः। भागवित्तायनः इति। यञिञोश्च (4.1.101) इति फक्। तृणादिबिन्दोरपत्यमौत्सर्गिकोऽण् तार्णबिन्दवः, ततष्ठक् - तार्णबिन्दविकः। पूर्वसूत्रे ठक् चानुकृष्ट इतीह नानुवर्तत इति पुनष्ठग्ग्रहणं ण्सय निवृत्त्यर्थम्। वापूर्वकं हि ठग्ग्रहणं णप्रत्ययेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्।भागपूर्वपदो वृत्तिः इत्यादि। येभ्योऽनेन सूत्रेण ठगिष्यते, त एतेन श्लोकेन परिगण्यन्ते। भाग इत्येतत् पूर्वपदं यस्य वृत्तिशब्दस्य स तथोक्तः। अयं तावदेको भागवित्तिः, द्वितीयस्तार्णबिन्दवः, तृतीयस्त्वाकशापेयः - य एते त्रयः शब्दाः ,गोत्रे ठग्बहुलं तत इति। सौवीरगोत्रवचनान्तात् प्रातिपदिकाद्बहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवित्तिप्रभृतिभ्यस्त्रिभ्यो भवति, नान्येभ्य इत्यर्थः।अथ वृद्धग्रहणं किमर्थम्, यावता पूर्वसूत्राद्गोत्रग्रहणमनुवर्तते, सौवीरग्रहणेनैव विशेषयिष्यामः; यच्चसौवीरगोत्रे वर्तते प्रातिपदिकं भागवित्त्यादिकं तद्वृद्धमेव, ततो निवृत्त्यभावादपार्थकं वृद्धग्रहणम्? इत्याह - वृद्धग्रहणम् इत्यादि। तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तस्मिन्ननुवर्तमाने विशेष्यायाः स्त्रिया अनुवृत्तिः स्यात्। तस्मात् तन्निदृत्त्यर्थं वृद्धग्रहणम्। गोत्रग्रहणमेवानुवर्तिष्यते; तस्यैव स्वरितत्वात्, न स्त्रीति - एतद्व्याख्येयं भवति। व्याख्यानाच्च लघु वृद्धग्रहणमेव।औपगविः इति। अणन्तादिञ्। ननु च परिगणनं कृतम्,तत्कथमौपगवशब्दात् ठक्प्रसङ्गः? सौवीरग्रहणे सति तत्परिगणनम्। तथा हि - भागवित्तिप्रभृतयः सौवीरगोत्राभिधायिन एव परिगणिताः। तत्रासति सौवीरग्रहणे औपगवशब्दादपि प्रसज्यते - भागवित्तायनः इति। पूर्ववत् फक्।अथ बहुलग्रहणं किमर्थम्,न, वाग्रहणमेव क्रियेत,तेनापि हि भागवित्तिको भाघवित्तिकायन इत्यादि सिध्यत्येव? इत्यत आह - बहुलग्रहणम् इत्यादि। वाग्रहणाद्विकल्पमात्रं लभ्यते, न तूपाधिवैचित्र्यम्। बहुलग्रहणे तु तदपि। तस्मादुपाधीनां विशेषमानां वैचित्र्यम् = नानाप्रकारता यथा स्यादित्येवमर्थं बहुलग्रहणम्। तदेवोपाधिवैचित्र्यं दर्शयितुमाह - गोत्रस्त्रिया इत्यारभ्य इत्यादि। सुखावबोधम्॥
Prakriyasarvasvam¶
वृद्धात् सौवीरगोत्रात् कुत्सितापत्ये बहुलं ठक् । भागवित्तिः तार्णबिन्दवः आकाशपेय इति त्रिभ्य एव । भागवित्तिको जळः । बहुलोक्तेर्यञिञो—‘रिति फगपि । भागवित्तायनः ।।