41149: फेश्छ च¶
Padacheda: फेः | S | 5 | 1 |
छ | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
सौवीरकुलवाचि यः फिञ्-प्रत्ययान्तशब्दः, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् ‘छ’ तथा ‘ठक्’ प्रत्ययौ भवतः ।
Vasu English Summary¶
When contempt is to be expressed, the affix छ (as well as the affix ठक्) comes in the sense of descendant after a प्रातिपदिक (Nominal Stem) ending in the affix फिञ् and denoting a सौवीर गोत्र।
Vasu English Translation¶
When contempt is to be expressed, the affix छ (as well as the affix ठक्) comes in the sense of descendant after a प्रातिपदिक (Nominal Stem) ending in the affix फिञ् and denoting a सौवीर गोत्र। Karika
यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः । सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् स्मरेत् ॥
Thus the son of यमुन्द will be यामुन्दायनिः formed by the affix फिञ् (4.1.154) as this word belongs to Tikadi class. The son of Yamundayani will be either यमुन्दायनीयः or यामुन्दायनिकः ॥
But when contempt is not to be expressed, the son of यामुन्दायनिः will be यामुन्दायनिः ॥ Thus यामुन्दायनि + अण् = यामुन्दायनि + o (Il. 4.58) = यामुन्दायनिः ॥
So also when persons of Suvira country are not meant, छ is not added. Thus तैकायनिः ॥
The फेः of the sutra refers to फिञ् and not to फिन्, for a stem formed by फिन् will not have a Vriddhi letter in the first syllable and will not be called ‘Vriddham’; and the anuvritti of this word is understood in the sutra.
According to the Karika, three फिञन्त stems, all belonging to Tikadi class, are only governed by this sutra viz यमुन्द, सुयामा and वार्ष्यायणिः ॥ The son of वृष is Varshyayani.
Kashika¶
कुत्सन इत्येव, सौवीरेष्विति च। फेरिति फिञो ग्रहणं न फिनः, वृद्धाधिकारात्। फिञन्तात् प्रातिपदिकात् सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने। यमुन्दस्यापत्यम्, तिकादिभ्यः फिञ् (४.१.१५४)। तस्यापत्यं यामुन्दायनीयः, यामुन्दायनिकः। कुत्सन इत्येव — यामुन्दायनिः। फिञन्तादौत्सर्गिकस्याण आगतस्य **ण्यक्षत्रियार्षञित०**(२.४.५८) इति लुक्। सौवीरेष्वित्येव — तैकायनिः।
यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः।
सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् स्मरेत्॥
Siddhanta Kaumudi¶
फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ण्यक्षत्रिया-(SK1276) इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥
Balamanorama¶
फेश्छ च - फेश्छ च ।छे॑ति लुप्तप्रथमाकम् । यमुन्दस्येति ष यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाऽभावाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रियार्षे॑ति तस्या लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् । ‘ण्यक्षत्रिये’ ति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रिये॑ति तस्य लुगिति भावः ।
Padamanjari¶
यमुन्दश्चेत्यादि । अत्र वार्ष्यायणीति शब्दरूपापेक्षाया नपुंसकनिर्देशः । फिञ इति । फिञन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिञन्ताः प्रकृतयः स्मृता इत्यर्थः । सौवीरेषु च कुत्सायामिति । पुनश्चकारो वृतभङ्गभयान्न पठितः । बहुलग्रहणात्सिद्धोऽयमर्थः पूर्वं वृत्तिकृता दर्शितः, इदानीं तु श्लोकवार्तिककारेणेत्यपौनरुक्त्यम् । सुयामशब्दोऽपि तिकादिः । वृषस्यापत्यं वार्ष्यायणिः । अयमपि तिकादिरेव,’दगुकोसलकर्मारच्छागवृषाणां युड् वादिष्टस्य’ इति वचनाद् आयनादेशे कृते युडागमः ॥
Nyaas¶
`यमुन्दश्च`इत्यादि। येभ्योऽनेन सूत्रेण छठकाविष्येते, तेषामनेन श्लोकेन परिगणनं क्रियते, तत्तु बहुलग्रहणानुवृत्तेरेव लभ्यत इत्येवं तद्वेदितव्यम्। यमुन्दमुद्दिश्य वृत्तिकारेणैवोदाहरणं दर्शितम्। इतरयोस्तु दर्शयामः - सुयाम्नोऽपत्यं, फिञ् - सौयामायनिः,तस्यापत्यं सौयामायनिकः। वृषस्यापत्यं,फिञ्, तस्य वाध्र्यायणिः, तस्यापत्यं वाष्र्यायणीयः,वाष्र्यायणिकः। एते यमुन्दादयः शब्दाः फिञः स्मृताः = फिञन्ता विज्ञाताः। गोत्रस्त्रियाः कुत्सने ण च (4.1.147) इत्यादयश्चत्वारो योगाः। तत्राद्यः कुत्सन एव, अन्त्यः सौवीरेष्वेव। मध्यमौ तु द्वौ सौवीरेषु कुत्सायाञ्च शब्दवित्स्मरेत् जानीयात्॥
Prakriyasarvasvam¶
वृद्धात् फान्तात्सौवीरगोत्रात् कुत्सितापत्ये छ च ठक् च स्यात् । तिकादि- फिञन्तेभ्यो यामुन्दायनिर्मौयामायनिवाष्पायणिभ्य एव । यामुन्दायनीयो यामुन्दायतिको वा जळः ।।