41148: वृद्धाट्ठक् सौवीरेषु बहुलम् ================================== **Padacheda:** वृद्धात् | S | 5 | 1 | ठक् | S | 1 | 1 | सौवीरेषु | S | 7 | 3 | बहुलम् | S | 1 | 1 | Sutrartha --------- **सौवीरकुलवाचि यः वृद्धसंज्ञकः शब्दः, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् बहुलम् ठक्-प्रत्ययः भवति ।** Vasu English Summary -------------------- When contempt is to be expressed, the affix ठक् is diversely added in the senses of a descendant after a वृद्ध word denoting सौवीर गोत्र-s. Vasu English Translation ------------------------ When contempt is to be expressed, the affix ठक् is diversely added in the senses of a descendant after a वृद्ध word denoting सौवीर गोत्र-s. *Karika* भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः ॥ तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलं ततः ॥ Thus भागवित्तिकः 'the son of *Bhagavitti*'. So also तार्णबिन्दविकः formed from तृणबिन्दु + अण् (4.1.83) तार्णबिन्दवः, and then adding ठक् ॥ In the alternative we have the affix फक् (4.1.101) as भागवित्तायनः, so also तार्णबिन्दविः ॥ The word अकशाप belongs to *Subhradi* class (4.1.123): and forms आकशापेयः, his son will be आकशापेयिकः or आकशापेयिः ॥ Of course, when contempt is not expressed, we have to भागवित्तायनः only. The operation of this *sutra* is, in fact, confined to the three words भागवित्ति, तार्णबिन्दव, and आकशापेय as given in the *karika*. Q. What is the necessity of using the word '*Vrddha*' in the *sutra*, for the *anuvritti* of the word '*gotra*' is understood in the *sutra*, and a *Sauvira* class Nominal-stem formed with a *Gotra* affix will necessarily have a *Vrddhi* letter in its first syllable? The word *Vrddha* is employed in the *sutra* to stop the *anuvritti* of स्त्रियाः; for had '*Vrddha*' not been used, then with the *anuvritti* of गोत्र from the last *sutra*, there would have come the *anuvrtti* of स्त्रियाः also, but by using '*Vriddha*' the *anuvrtti* of '*Gotra*' only is taken, and not that of '*striyah*'. Why do we say "of the *Sauviras*"? Observe औपगविर्जाल्मः ॥ Why do we say 'in denoting contempt'? Observe भागवित्तायनो माणवकः ॥ Why do we say 'diversely'? The word बरुल indicates the anomalous nature of these four *sutras* (4.1.147) to (4.1.150). Thus the first of these viz (4.1.147) only denotes contempt, the last of these viz (4.1.150), denotes '*Sauvira*' only and not contempt; whilst the middle two namely (4.1.148) and (4.1.189) denote both 'contempt' and '*Sauvira*'. Bhashya ------- द्धट्ठक् सौवीरेषु बहुलम् (1394) (विषयविभागप्रदर्शकभाष्यम्) गोत्रस्त्रियाः, वृद्धाट्ठक्, फेश्छश्च, फाण्टाहृति (147-150) इमे चत्वारो योगाः। तत्र त्रयः कुत्सने, त्रयः सौवीरगोत्रे। आद्यो योगः कुत्सन एव, अन्त्यः सौवीरगोत्र एव॥ Kashika ------- कुत्सन इत्येव। सौवीरेष्विति प्रकृतिविशेषणम्। वृद्धात् सौवीरगोत्रादपत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमाने। भागवित्तेर्भागवित्तिकः। तार्णबिन्दवस्य तार्णबिन्दविकः। पक्षे यथाप्राप्तं फक्। भागवित्तायनः। पक्षे तार्णबिन्दविः। अकशापः शुभ्रादिः — आकशापेयः। तस्यापत्यम् आकशापेयिकः। पक्ष आकशापेयिः। भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः। तृतीयस्त्वाकशापेयो गोत्राट् ठग् बहुलं ततः॥ वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम्। सौवीरेष्विति किम्? औपगविर्जाल्मः। कुत्सन इत्येव — भागवित्तायनो माणवकः। बहुलग्रहणमुपाधिवैचित्र्यार्थम्। गोत्रस्त्रिया इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि। तदेतद् बहुलग्रहणाल् लभ्यते॥ Siddhanta Kaumudi ----------------- सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥ Balamanorama ------------ **वृद्धाट्ठक् सौवीरेषु बहुलम्** - वृद्धाट्ठक्सौ । पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेषणं । तदाह — वृद्धादिति ।वृद्धिर्यस्याचामादि॑रिति वृद्धिसंज्ञकादित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यं — भागावित्तिः, तस्यापत्य युवेत्यर्थे ठकि इकादेसे भागवित्तिक॑ इति रूपमित्यर्थः । पक्षे फगिति । 'यञिञोश्चे' त्यनेने॑ति शेषः । Padamanjari ----------- अत्र'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति वृद्धं गृह्यते, न त्वपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरपरिभाषितम् । उतरसूत्रे हि वक्ष्यति - फिञो ग्रहणं न फिनः, वृद्धाधिकारादिति । सौवीरेष्विति प्रकृतिविशेषणमिति ।'गोत्रस्त्रियाः' इत्यतो गोत्रग्रहणानुवृतेर्गोत्रप्रत्ययान्ता या प्रकृतिस्तस्या विशेषणमित्यर्थः । वृद्धात्सौवीरगोत्रादिति । इदमपि पारिभाषिकस्यैव वृद्धस्य ग्रहणे घटते, अन्यथा सौवीरेषु यद्वृद्धं तस्मादिति वक्तव्यम् । भागवितायन इति ।'यञिञोश्च' इति फक् । तृणबिन्दोरपत्यमिति औत्सर्गिकोऽण्तार्णबिन्दवः, ततष्ठक् । पूर्वठग्ग्रहणं णेन सम्बद्धम्, अतस्तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह ग्रहणम् । भागपूर्वपदौ वितिरिति । वित्यन्त इत्यर्थः । भागवितिशब्द इति यावत् । गोत्राट्ठग्बहुलं तत इति ।'गोत्रस्त्रियाः' इत्यतो गोत्रग्रहणानुवृत्या गोत्रवचनात्प्रातिपदिकाद्वहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवितिप्रभृतिभ्यस्त्रिभ्य एव भवति, नान्येभ्य इति परिगणनश्लोकार्थः । ननु गोत्रग्रहणमनुवर्तते, यच्च सौवीरसगोत्रवृत्तिप्रातिपदिकं तद्वृद्धमेव, तत्किमर्थं वृद्धग्रहणम् ? अत आह - वृद्धग्रहणं स्त्रीनिवृत्यर्थमिति । तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तदनुवृतौ स्त्रीग्रहणमप्यनुवर्तेत, वृद्धग्रहणसामर्थ्यातु गोत्रग्रहणमेवानुवर्तते, न स्त्रीग्रहणमिति व्याचक्षते । अपत्यमन्तर्हितं वृद्धमित्यस्य तु वृद्धस्य ग्रहणेऽसमञ्जसोऽयं ग्रन्थः स्यात् । औपगविरिति । ननु च परिगणनादेवात्र न भविष्यति ? तन्न; न हि सूत्रकारोऽर्वाचीनपरिगणनाश्रयेणातिप्रसङ्गनिवारणं मन्यते, वाग्रहण एव कर्तव्ये यद्वहुलग्रहणं कृतं तस्य प्रयोजनमाह - बहुलग्रहणमित्यादि । वैचित्र्यमेव दर्शयति - गोत्रस्त्रिया इत्यारभ्येति । तत्रान्त्यः सौवीरगोत्र एवेति । अयमेवार्थो यत्नसाध्यः ॥ Nyaas ----- `सौवीरेष्विति प्रकृतिविशेषणम्` इति। सौवीरेषु यद्वृद्धं सौवीरगोत्राभिधायि यद्वृद्धमित्यर्थः। `भागवित्तेःट इत्यादि। भगवित्तस्यापत्यं गोत्रम्। `अत इञ` (4.1.95) , तदन्तात् ठक् - `भागवित्तिकः`। `भागवित्तायनः` इति। **यञिञोश्च** (4.1.101) इति फक्। तृणादिबिन्दोरपत्यमौत्सर्गिकोऽण् तार्णबिन्दवः, ततष्ठक् - `तार्णबिन्दविकः`। पूर्वसूत्रे ठक् चानुकृष्ट इतीह नानुवर्तत इति पुनष्ठग्ग्रहणं ण्सय निवृत्त्यर्थम्। वापूर्वकं हि ठग्ग्रहणं णप्रत्ययेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्।`भागपूर्वपदो वृत्तिः` इत्यादि। येभ्योऽनेन सूत्रेण ठगिष्यते, त एतेन श्लोकेन परिगण्यन्ते। `भाग` इत्येतत् पूर्वपदं यस्य वृत्तिशब्दस्य स तथोक्तः। अयं तावदेको भागवित्तिः, द्वितीयस्तार्णबिन्दवः, तृतीयस्त्वाकशापेयः - य एते त्रयः शब्दाः ,गोत्रे ठग्बहुलं तत इति। सौवीरगोत्रवचनान्तात् प्रातिपदिकाद्बहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवित्तिप्रभृतिभ्यस्त्रिभ्यो भवति, नान्येभ्य इत्यर्थः।अथ वृद्धग्रहणं किमर्थम्, यावता पूर्वसूत्राद्गोत्रग्रहणमनुवर्तते, सौवीरग्रहणेनैव विशेषयिष्यामः; यच्चसौवीरगोत्रे वर्तते प्रातिपदिकं भागवित्त्यादिकं तद्वृद्धमेव, ततो निवृत्त्यभावादपार्थकं वृद्धग्रहणम्? इत्याह - `वृद्धग्रहणम्` इत्यादि। तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तस्मिन्ननुवर्तमाने विशेष्यायाः स्त्रिया अनुवृत्तिः स्यात्। तस्मात् तन्निदृत्त्यर्थं वृद्धग्रहणम्। गोत्रग्रहणमेवानुवर्तिष्यते; तस्यैव स्वरितत्वात्, न स्त्रीति - एतद्व्याख्येयं भवति। व्याख्यानाच्च लघु वृद्धग्रहणमेव।`औपगविः` इति। अणन्तादिञ्। ननु च परिगणनं कृतम्,तत्कथमौपगवशब्दात् ठक्प्रसङ्गः? सौवीरग्रहणे सति तत्परिगणनम्। तथा हि - भागवित्तिप्रभृतयः सौवीरगोत्राभिधायिन एव परिगणिताः। तत्रासति सौवीरग्रहणे औपगवशब्दादपि प्रसज्यते - `भागवित्तायनः` इति। पूर्ववत् फक्।अथ बहुलग्रहणं किमर्थम्,न, वाग्रहणमेव क्रियेत,तेनापि हि भागवित्तिको भाघवित्तिकायन इत्यादि सिध्यत्येव? इत्यत आह - `बहुलग्रहणम्` इत्यादि। वाग्रहणाद्विकल्पमात्रं लभ्यते, न तूपाधिवैचित्र्यम्। बहुलग्रहणे तु तदपि। तस्मादुपाधीनां विशेषमानां वैचित्र्यम् = नानाप्रकारता यथा स्यादित्येवमर्थं बहुलग्रहणम्। तदेवोपाधिवैचित्र्यं दर्शयितुमाह - `गोत्रस्त्रिया इत्यारभ्य` इत्यादि। सुखावबोधम्॥ Prakriyasarvasvam ----------------- वृद्धात् सौवीरगोत्रात् कुत्सितापत्ये बहुलं ठक् । भागवित्तिः तार्णबिन्दवः आकाशपेय इति त्रिभ्य एव । भागवित्तिको जळः । बहुलोक्तेर्यञिञो—'रिति फगपि । भागवित्तायनः ।।