41147: गोत्रस्त्रियाः कुत्सने ण च¶
Padacheda: गोत्र-स्त्रियाः | S | 5 | 1 |
कुत्सने | S | 7 | 1 |
ण | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
गोत्रसंज्ञकं यत् स्त्रीलिङ्गवाचि अपत्यम्, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् ‘ण’ तथा ‘ठक्’ प्रत्ययौ भवतः ।
Vasu English Summary¶
And when contempt is to be expressed, the affix ण comes in the sense of descendant after a feminine word denoting a गोत्र-descendant.
Vasu English Translation¶
And when contempt is to be expressed, the affix ण comes in the sense of descendant after a feminine word denoting a गोत्र-descendant. By the force of the word च in the sutra we get the affix ठक् also. When one’s father is not known, and he is called by a name derived from his mother, it casts a slur upon his legitimacy; hence such an epithet is a कुत्सा or ‘a defamatory or contemptuons epithet’. Thus गार्गी is a female gotra-descendant. Her son will be called गार्गः, as गार्गः जाल्मः ॥ So also गार्गिकः ॥ Similarly the son of ग्लुचुकायनी will be ग्लौचुकायनः and ग्लौचुकायनिकः ॥
This affix being added to a Gotra word has the force of a Yuvan affix.
Why do we say ‘a Gotra descendant’. Observe कारिकेयो जाल्मः (formed by ढक् (4.1.120)). Why do we say ‘female descendant’? Observe औपगवि जाल्मः ॥ Why do we say ‘when contempt is meant’? Observe गार्गेयो माणवकः which is to be explained as गार्ग्या अपत्यं पुमान् युवा भवति ॥ मातामहादेरुपलक्षणार्थोयं प्रयोग इति नास्ति कुत्सा ॥
Bhashya¶
गोत्रस्त्रियाः कुत्सने ण च (1393) (ण ठक् प्रत्ययाधिकरणम्) (णित्वाक्षेपे भाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः, ञ्ञ्णितीति वृद्धिर्यथा स्यात्, गार्गो जाल्मः॥ (5295 णित्वाक्षेपवार्तिकम्॥ 1 ॥) - गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) गोत्रस्त्रियाः प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात्प्रातिपदिकस्य। वृद्धमेवेदं प्रातिपदिकम्॥ (णित्वफलप्रदर्शकभाष्यम्) लुगर्थं तर्हि णकारः कर्तव्यः। यल्लुगन्तमवृद्धं तत्र वृद्धिर्यथा स्यात् -वातण्डो जाल्मः॥ (5296 फले आक्षेपवार्तिकम्॥ 2 ॥) - लुगर्थमिति चेन्न लुक्प्रतिषेधात् - (भाष्यम्) लुगर्थमिति चेत्तन्न। किं कारणम्? लुक्प्रतिषेधात्, प्रतिषिध्यते तत्र लुक् -गोत्रेऽलुगचि(ग।1।89) इति॥ (प्रत्याक्षेपे भाष्यम्) व्यवहितत्वादप्रतिषेधः। ईकारेण व्यवहितत्वात्प्रतिषेधो न प्राप्नोति॥ (5297 प्रत्याक्षेपनिरासवार्तिकम्॥ 3 ॥) - व्यवहितत्वादप्रतिषेध इति चेन्न पुंवद्भावात् - (भाष्यम्) व्यवहितत्वादप्रतिषेध इति चेत्तन्न। किं कारणम्? पुंवद्भावात्, पुंवद्भावोऽत्र भवति -भस्याढे तद्धिते पुंवद्भावो भवतीति॥ (5298 णित्वफलप्रदर्शकवार्तिकम्॥ 4 ॥) - फिनर्थं तु - (भाष्यम्) फिनर्थं तु णकारः कर्तव्यः। यत्फिनन्तमवृद्धं तत्र वृद्धिर्यथा स्यात् -ग्लौचुकायनो जाल्म इति॥ (5299 णित्वफलसंग्राहकवार्तिकम्॥ 5 ॥) - पुंवद्भावप्रतिषेधार्थं च - (भाष्यम्) पुंवद्भावप्रतिषेधार्थं च णकारः कर्तव्यः। गार्गा भार्या अस्य गार्गाभार्यः। वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो यथा स्यात्॥ (5300 पुंवद्भावप्रतिषेधार्थरूपफलखण्डनवार्तिकम्॥ 6 ॥) - गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम् - (भाष्यम्) गोत्राद्यून्यस्त्रियाम् (4.1.94) इति वचनादप्रयोजनमेतद्भवति। नास्ति गार्गा॥ (5301 मतान्तरप्रदर्शकवार्तिकम्॥ 7 ॥) - अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् - (भाष्यम्) अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमेतद्भवति। न च स्त्री वंश्या। अस्ति गार्गा स्त्री॥ (मतान्तरप्रदर्शकभाष्यम्) अपर आह - द्वावेवं वंशौ। मातृवंशः, पितृवंशश्च। यावता मातृवंशोऽप्यस्ति, नास्ति गार्गा॥
Kashika¶
अपत्यं पौत्रप्रभृति गोत्रम् (४.१.१६२) गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकारात् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा। गार्ग्या अपत्यं गार्गो जाल्मः। गार्गिकः। ग्लुचुकायन्या अपत्यं ग्लौचुकायनः। ग्लौचुकायनिकः। गोत्राद् यूनि० (४.१.९४) इति यूनि प्रत्ययो भवति। गोत्रमिति किम्? कारिकेयो जाल्मः। स्त्रिया इति किम्? औपगविर्जाल्मः। कुत्सन इति किम्? गार्गेयो माणवकः॥
Siddhanta Kaumudi¶
गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-(SK311) इति लोपः । आपत्यस्य-(SK1082) इति यलोपः ॥
Balamanorama¶
गोत्रस्त्रियाः कुत्सने ण च - गोत्रस्त्रियाः । ‘ण’ इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते । तदाह — गोत्रं यास्त्रीत्यादिना । सामर्थ्यादिति । ‘एको गोत्रे’ इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्त्री गार्गी । ‘गर्गादिभ्यः’ इति यञ् ।यञश्चे॑ति ङीप् ।यस्येति चे॑त्यकारलोपः ।हलस्तद्धितस्ये॑ति यकारलोपः ।छ गाग्र्या अपत्यं युवेति विग्रहः । पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे चयस्येति॑चे॑ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह — पुंवद्भ्वादिति ।भस्याढे॑इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम् । तच्च समूहाधिकारेभिक्षादिभ्योऽ॑णित्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं । णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम् ।
Tattvabodhini¶
गोत्रस्त्रियाः कुत्सने ण च - गोत्रस्त्रियाः । णित्त्वं तु ग्लुचुकायन्या अपत्यं ग्लौचुकायनो जाल्मः॑इत्य्तर फिन्नन्ताण्णे वृद्द्यर्थमिति बोध्यम् । समाथ्र्याद्यूनीति ।गोत्रादपरो गोत्रप्रत्ययो ने॑त्युक्तत्वादिति भावः । गाग्र्या अपत्यमिति । पितुरसंविज्ञाने मात्रा व्यपदेशात्कुत्सा । गोत्रेति किम् । कारिकेयो जाल्मः । स्त्रियाः किम् । औपगवस्यापत्यम् औपगविर्जाल्मः । कुत्सने किं । गार्गेयो माणवकः ।
Padamanjari¶
पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह - अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात्’तत्स्त्रियाः’ इत्येव ब्रूयात्, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात् । गार्ग इति । गार्गीशब्दो’यञश्च’ इति ङीबन्तः, तस्य’भस्या’ ढेअ तद्धितेऽ इति पुंवद्भावेन पुंशब्दस्यातिदेशात्गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः,’यस्येति च’ , ठापत्यस्य च तद्धितेऽनातिऽ इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम्’प्राचामवृद्धात्फिन्बहुलम्’ इति फिन्, ठितो मनुष्यजातेःऽ इति ङीष्, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात् । इह तु वतण्डस्यापत्यं गोत्रं स्त्री,’वतण्डाच्च लुक् स्त्रियांम्’ वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृते’लुक्’ स्त्रियाम्ऽ इत्यस्य’गोत्रे’ लुगचिऽ इति प्रतिषेधाद्वातण्ड।ल्शब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति’जातेश्च’ इत्येव पुंवद्भावप्रतिषेधसिद्धिः,’गोत्रं च चरणैः सह’ इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमितस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च - गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, ठस्त्रियाम्ऽ इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र ठेको गोत्रेऽ इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः । अपर आह - अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद् ठेतो गोत्रेऽ इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति । ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते - मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात् । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव,’पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद् ठेको गोत्रे’ इति नियमात्प्रत्ययान्तराभाव इति । वृतौ तु क्वचित्पठ।ल्ते - गोत्राद्यौउनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह - गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ॥
Nyaas¶
अपत्यं प्रौत्रप्रभृति गोत्रं गृह्रते इति। न लौकिकमपत्यमात्रम्, तद्ग्रहणे हि गोत्रग्रहणमनर्थकं स्यात्। अपत्याधिकारादेव तद्ग्रहणस्य लब्धत्वादिति भावः। पितुरसंविज्ञाने इति। अप्रसिद्धौ। तस्य पितुरसंविज्ञानप्रदर्शनार्थं मात्रा यो व्यपदेशोऽस्ति तेन कुत्सा स्यात्। गार्गो जाल्मो गार्गिकः इति। गर्गशब्दाद्गोत्रे गर्गादियञन्तात् यञश्च (4.1.16) इति ङीपि हलस्तद्धितस्य (6.4.150) इतिलोपे सति यकारस्य गार्गी इति स्थिते णठकौ। ग्लौचुकायनः इत्यादि। ग्लुचकस्यापत्यं गोत्रं स्त्री प्राचामवृद्धात् फिन् बहुलम्` (4.1.160) इति फिन्,ततः इतो मनुष्यजातेः (4.1.65) इति ङीष्,ततो णठकौ।कारिकेयः`इति। कारकशब्दाण्ण्वुलन्ताट्टाप्।कारिकाशब्दोऽयं गोत्रे न वर्तते,ततो ढगेव भवति। `औपगविः`इति। उपगोरपत्यं गोत्रं पुमान्ण्, तदन्तादिञेव भवति। अत्र केनचित् प्रतिषिद्धाचरणादिना कुत्सा वेदितव्या।`गार्गेयो माणवकः इति। अत्र पितरि विज्ञाते मातुः परिज्ञानार्थं तन्मत्रा व्यपदेशः क्रियत इति नास्ति कुत्सा, तेन ढगेन भवति॥
Prakriyasarvasvam¶
गोत्रप्रत्ययान्तस्त्रीशब्दात् कुत्सितेऽपत्ये वाच्ये णश्च ठक् च स्यात् । गार्गीपुत्रो गार्ग्योऽयं जाल्मः । गार्गिको वा । अकुत्सने स्त्रीभ्यो ठक् गार्गेयः ।।