41146: रेवत्यादिभ्यष्ठक्

Padacheda: रेवती-आदिभ्यः | S | 5 | 3 |

ठक् | S | 1 | 1 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे रेवत्यादिगणस्य शब्देभ्यः ठक्-प्रत्ययः भवति ।

Vasu English Summary

The affix ठक् comes in the sense of descendant after the word रेवती etc.

Vasu English Translation

The affix ठक् comes in the sense of descendant after the word रेवती etc. This of course debars ढक् &c. Thus रेवती + ठक् = रैवतिकः ‘the son of Revati’. So also आश्वपालिकः (7.3.50)

1 रेवती, 2अश्वपाली, 3 मणिपाली, 4 द्वारपाली, 5 वृकवञ्चिन्, 6 वृकबन्धु, 7 वृकग्राह, 8 कर्णग्राह, 9 दण्डग्राह, 10 कुक्कूटाक्ष, 11 (ककुदाक्ष) 12 चामरग्राह,

Kashika

रेवतीत्येवमादिभ्योऽपत्ये ठक् प्रत्ययो भवति। यथायोगं ढगादीनामपवादः। रैवतिकः। आश्वपालिकः॥ रेवती। अश्वपाली। मणिपाली। द्वारपाली। वृकवञ्चिन्। वृकग्राह। कर्णग्राह। दण्डग्राह। कुक्कुटाक्ष॥

Balamanorama

रेवत्यादिभ्यष्ठक् - रेवत्यादिभ्यष्ठक् । ‘अपत्ये’ इति शेषः । ढगाद्यपवादः ।

Tattvabodhini

रेवत्यादिभ्यष्ठक् - रेवत्या.रेवती, अआपाली, मणिपाली, द्वारपाली -इत्यादि । ठस्येकः ।अङ्गस्ये॑त्यनुवर्तनादाहर -अङ्गात्परस्येति ।अङ्गा॑दिति ठकारविशेषणादठचष्ठकारस्य न भवति । कर्मठः ।

Padamanjari

ढगादीनामपवाद इति । तत्र रेवतीशब्दो ङीषन्तः, अश्व, मणि, द्वारशब्दोपपदात्पालयतेः कर्मण्यणि ङीप्, तेषु ढक्प्राप्तः ।’वञ्चु प्रलम्भने’ , अस्माद्वृकोपपदात्’कर्तर्युपमाने’ इति णिनिः, अस्मादण्प्राप्तः वृककर्णदण्डोपपदाद् ग्रहेः’कर्मण्यण्’ , कुक्कुटस्येवाक्षिणी यस्य स कुक्कुटाक्षः, एष्विञ् प्राप्तः ॥

Nyaas

यथायोगम् इत्यादि। तत्राद्यानां चतुर्णां स्त्रीप्रत्ययान्तत्वाद् ढकोऽपवादः; वृकञ्चिन् - इत्यस्याणः, शेषाणामकरान्तत्वादिञः॥