41147: गोत्रस्त्रियाः कुत्सने ण च ================================= **Padacheda:** गोत्र-स्त्रियाः | S | 5 | 1 | कुत्सने | S | 7 | 1 | ण | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **गोत्रसंज्ञकं यत् स्त्रीलिङ्गवाचि अपत्यम्, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् 'ण' तथा 'ठक्' प्रत्ययौ भवतः ।** Vasu English Summary -------------------- And when contempt is to be expressed, the affix ण comes in the sense of descendant after a feminine word denoting a गोत्र-descendant. Vasu English Translation ------------------------ And when contempt is to be expressed, the affix ण comes in the sense of descendant after a feminine word denoting a गोत्र-descendant. By the force of the word च in the *sutra* we get the affix ठक् also. When one's father is not known, and he is called by a name derived from his mother, it casts a slur upon his legitimacy; hence such an epithet is a कुत्सा or 'a defamatory or contemptuons epithet'. Thus गार्गी is a female *gotra*-descendant. Her son will be called गार्गः, as गार्गः जाल्मः ॥ So also गार्गिकः ॥ Similarly the son of ग्लुचुकायनी will be ग्लौचुकायनः and ग्लौचुकायनिकः ॥ This affix being added to a *Gotra* word has the force of a *Yuvan* affix. Why do we say 'a *Gotra* descendant'. Observe कारिकेयो जाल्मः (formed by ढक् (4.1.120)). Why do we say 'female descendant'? Observe औपगवि जाल्मः ॥ Why do we say 'when contempt is meant'? Observe गार्गेयो माणवकः which is to be explained as गार्ग्या अपत्यं पुमान् युवा भवति ॥ मातामहादेरुपलक्षणार्थोयं प्रयोग इति नास्ति कुत्सा ॥ Bhashya ------- गोत्रस्त्रियाः कुत्सने ण च (1393) (ण ठक् प्रत्ययाधिकरणम्) (णित्वाक्षेपे भाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः, ञ्ञ्णितीति वृद्धिर्यथा स्यात्, गार्गो जाल्मः॥ (5295 णित्वाक्षेपवार्तिकम्॥ 1 ॥) - गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) गोत्रस्त्रियाः प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात्प्रातिपदिकस्य। वृद्धमेवेदं प्रातिपदिकम्॥ (णित्वफलप्रदर्शकभाष्यम्) लुगर्थं तर्हि णकारः कर्तव्यः। यल्लुगन्तमवृद्धं तत्र वृद्धिर्यथा स्यात् -वातण्डो जाल्मः॥ (5296 फले आक्षेपवार्तिकम्॥ 2 ॥) - लुगर्थमिति चेन्न लुक्प्रतिषेधात् - (भाष्यम्) लुगर्थमिति चेत्तन्न। किं कारणम्? लुक्प्रतिषेधात्, प्रतिषिध्यते तत्र लुक् -गोत्रेऽलुगचि(ग।1।89) इति॥ (प्रत्याक्षेपे भाष्यम्) व्यवहितत्वादप्रतिषेधः। ईकारेण व्यवहितत्वात्प्रतिषेधो न प्राप्नोति॥ (5297 प्रत्याक्षेपनिरासवार्तिकम्॥ 3 ॥) - व्यवहितत्वादप्रतिषेध इति चेन्न पुंवद्भावात् - (भाष्यम्) व्यवहितत्वादप्रतिषेध इति चेत्तन्न। किं कारणम्? पुंवद्भावात्, पुंवद्भावोऽत्र भवति -भस्याढे तद्धिते पुंवद्भावो भवतीति॥ (5298 णित्वफलप्रदर्शकवार्तिकम्॥ 4 ॥) - फिनर्थं तु - (भाष्यम्) फिनर्थं तु णकारः कर्तव्यः। यत्फिनन्तमवृद्धं तत्र वृद्धिर्यथा स्यात् -ग्लौचुकायनो जाल्म इति॥ (5299 णित्वफलसंग्राहकवार्तिकम्॥ 5 ॥) - पुंवद्भावप्रतिषेधार्थं च - (भाष्यम्) पुंवद्भावप्रतिषेधार्थं च णकारः कर्तव्यः। गार्गा भार्या अस्य गार्गाभार्यः। वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो यथा स्यात्॥ (5300 पुंवद्भावप्रतिषेधार्थरूपफलखण्डनवार्तिकम्॥ 6 ॥) - गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम् - (भाष्यम्) गोत्राद्यून्यस्त्रियाम् (4.1.94) इति वचनादप्रयोजनमेतद्भवति। नास्ति गार्गा॥ (5301 मतान्तरप्रदर्शकवार्तिकम्॥ 7 ॥) - अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् - (भाष्यम्) अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमेतद्भवति। न च स्त्री वंश्या। अस्ति गार्गा स्त्री॥ (मतान्तरप्रदर्शकभाष्यम्) अपर आह - द्वावेवं वंशौ। मातृवंशः, पितृवंशश्च। यावता मातृवंशोऽप्यस्ति, नास्ति गार्गा॥ Kashika ------- **अपत्यं पौत्रप्रभृति गोत्रम्** (४.१.१६२) गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकारात् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा। गार्ग्या अपत्यं गार्गो जाल्मः। गार्गिकः। ग्लुचुकायन्या अपत्यं ग्लौचुकायनः। ग्लौचुकायनिकः। **गोत्राद् यूनि०** (४.१.९४) इति यूनि प्रत्ययो भवति। गोत्रमिति किम्? कारिकेयो जाल्मः। स्त्रिया इति किम्? औपगविर्जाल्मः। कुत्सन इति किम्? गार्गेयो माणवकः॥ Siddhanta Kaumudi ----------------- गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-(SK311) इति लोपः । आपत्यस्य-(SK1082) इति यलोपः ॥ Balamanorama ------------ **गोत्रस्त्रियाः कुत्सने ण च** - गोत्रस्त्रियाः । 'ण' इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते । तदाह — गोत्रं यास्त्रीत्यादिना । सामर्थ्यादिति । 'एको गोत्रे' इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्त्री गार्गी । 'गर्गादिभ्यः' इति यञ् ।यञश्चे॑ति ङीप् ।यस्येति चे॑त्यकारलोपः ।हलस्तद्धितस्ये॑ति यकारलोपः ।छ गाग्र्या अपत्यं युवेति विग्रहः । पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे चयस्येति॑चे॑ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह — पुंवद्भ्वादिति ।भस्याढे॑इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम् । तच्च समूहाधिकारेभिक्षादिभ्योऽ॑णित्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं । णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम् । Tattvabodhini ------------- **गोत्रस्त्रियाः कुत्सने ण च** - गोत्रस्त्रियाः । णित्त्वं तु ग्लुचुकायन्या अपत्यं ग्लौचुकायनो जाल्मः॑इत्य्तर फिन्नन्ताण्णे वृद्द्यर्थमिति बोध्यम् । समाथ्र्याद्यूनीति ।गोत्रादपरो गोत्रप्रत्ययो ने॑त्युक्तत्वादिति भावः । गाग्र्या अपत्यमिति । पितुरसंविज्ञाने मात्रा व्यपदेशात्कुत्सा । गोत्रेति किम् । कारिकेयो जाल्मः । स्त्रियाः किम् । औपगवस्यापत्यम् औपगविर्जाल्मः । कुत्सने किं । गार्गेयो माणवकः । Padamanjari ----------- पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह - अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात्'तत्स्त्रियाः' इत्येव ब्रूयात्, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात् । गार्ग इति । गार्गीशब्दो'यञश्च' इति ङीबन्तः, तस्य'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावेन पुंशब्दस्यातिदेशात्गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः,'यस्येति च' , ठापत्यस्य च तद्धितेऽनातिऽ इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम्'प्राचामवृद्धात्फिन्बहुलम्' इति फिन्, ठितो मनुष्यजातेःऽ इति ङीष्, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात् । इह तु वतण्डस्यापत्यं गोत्रं स्त्री,'वतण्डाच्च लुक् स्त्रियांम्' वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृते'लुक्' स्त्रियाम्ऽ इत्यस्य'गोत्रे' लुगचिऽ इति प्रतिषेधाद्वातण्ड।ल्शब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति'जातेश्च' इत्येव पुंवद्भावप्रतिषेधसिद्धिः,'गोत्रं च चरणैः सह' इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमितस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च - गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, ठस्त्रियाम्ऽ इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र ठेको गोत्रेऽ इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः । अपर आह - अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद् ठेतो गोत्रेऽ इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति । ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते - मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात् । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव,'पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद् ठेको गोत्रे' इति नियमात्प्रत्ययान्तराभाव इति । वृतौ तु क्वचित्पठ।ल्ते - गोत्राद्यौउनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह - गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ॥ Nyaas ----- `अपत्यं प्रौत्रप्रभृति गोत्रं गृह्रते` इति। न लौकिकमपत्यमात्रम्, तद्ग्रहणे हि गोत्रग्रहणमनर्थकं स्यात्। अपत्याधिकारादेव तद्ग्रहणस्य लब्धत्वादिति भावः। `पितुरसंविज्ञाने` इति। अप्रसिद्धौ। तस्य पितुरसंविज्ञानप्रदर्शनार्थं मात्रा यो व्यपदेशोऽस्ति तेन कुत्सा स्यात्। `गार्गो जाल्मो गार्गिकः` इति। गर्गशब्दाद्गोत्रे गर्गादियञन्तात् `यञश्च` (4.1.16) इति ङीपि **हलस्तद्धितस्य** (6.4.150) इतिलोपे सति यकारस्य गार्गी इति स्थिते णठकौ। `ग्लौचुकायनः` इत्यादि। ग्लुचकस्यापत्यं गोत्रं स्त्री `प्राचामवृद्धात्` फिन् बहुलम्` (4.1.160) इति फिन्,ततः **इतो मनुष्यजातेः** (4.1.65) इति ङीष्,ततो णठकौ।`कारिकेयः`इति। कारकशब्दाण्ण्वुलन्ताट्टाप्।कारिकाशब्दोऽयं गोत्रे न वर्तते,ततो ढगेव भवति। `औपगविः`इति। उपगोरपत्यं गोत्रं पुमान्ण्, तदन्तादिञेव भवति। अत्र केनचित् प्रतिषिद्धाचरणादिना कुत्सा वेदितव्या।`गार्गेयो माणवकः` इति। अत्र पितरि विज्ञाते मातुः परिज्ञानार्थं तन्मत्रा व्यपदेशः क्रियत इति नास्ति कुत्सा, तेन ढगेन भवति॥ Prakriyasarvasvam ----------------- गोत्रप्रत्ययान्तस्त्रीशब्दात् कुत्सितेऽपत्ये वाच्ये णश्च ठक् च स्यात् । गार्गीपुत्रो गार्ग्योऽयं जाल्मः । गार्गिको वा । अकुत्सने स्त्रीभ्यो ठक् गार्गेयः ।।