41135: चतुष्पाद्भ्यो ढञ्¶
Padacheda: चतुष्पाद्भ्यः | S | 5 | 3 |
ढञ् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे चतुष्पादवाचिशब्देभ्यः ढञ्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix ढञ् comes in the sense of a descendant after the bases denoting quadrupeds.
Vasu English Translation¶
The affix ढञ् comes in the sense of a descendant after the bases denoting quadrupeds. This debars अण् &c. Thus कमण्डलु + ढञ् = कामण्डलेयः (4.4.147), the उ being elided before ढ)). So also शौन्तिबाहेयः and जाम्बेयः from शुन्तिबाहु and जम्बु॥
Kashika¶
चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। कामण्डलेयः। शौन्तिबाहेयः। जाम्बेयः॥
Balamanorama¶
चतुष्पाद्भ्यो ढञ् - चतुष्पाद्भ्यो । चतुष्पादः-पशवः । तद्विशेषवाचिभ्योऽपत्ये ढञित्यर्थः ।
Padamanjari¶
कमण्डलुशब्दश्चतुष्पाद्वचनोऽस्ति, दृश्यते हि - कमण्डलुपद आदधीतेति । जम्बुःउशृगालः ॥
Nyaas¶
चतुष्पाद्भ्यः इति। चत्वारः पाद आसामिति तास्तथोक्ताः। पादस्य लोपऽहस्त्यादिभ्यः (5.4.138) इति लोपः। इहाप्यर्थधर्मेण तदभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। अत एवाह - चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यः इति। बहुवचननिर्देशः स्वरूपविधिनिरासाय। अणादीनाम् इति। आदिशब्देन ढगादीनां ग्रहणम्। कामण्डलेयः इत्यादि। कमण्डलूशुन्तिबाहुजम्बुशब्दाश्चतुष्पाज्जातिवाचिनः,तेषां ढे लोपोऽकद्रवाः (6.4.147) इत्युवर्णलोपः॥अणादीनामपवादः। आदिशब्देन ढकः। बहुवचननिर्देशस्तु प्रकृतिभेदेन तयोर्भेदस्य विवक्षितत्वात्। तत्राजवस्तिमित्रयुशब्दयोरणोऽपवादः, शेषाणां इतश्चानिञः (4.1.122) इति ढकः॥
Prakriyasarvasvam¶
चतुष्पाद्वाचिभ्योऽपत्ये ढञ् । सुरभिगौः । तदपत्यं सौरभेयः । जम्बुः सृगालः । जाम्बेयः ॥