41136: गृष्ट्यादिभ्यश्च

Padacheda: गृष्ट्य-आदिभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे गृष्ट्यादिगणस्य शब्देभ्यः ढञ्-प्रत्ययः भवति ।

Vasu English Summary

The affix ढञ् comes in the sense of a descendant after the word गृष्टि etc.

Vasu English Translation

The affix ढञ् comes in the sense of a descendant after the word गृष्टि etc. This debars अण् and ढक् &c. Thus गार्ष्टेयः, हार्ष्टेय ॥ The word गृष्टि when it means ‘a cow’ will of course get the affix ढञ् by the last Sutra. The present sutra applies when it does not mean a four-footed animal, but means ‘a woman who has one child only’.

1 गृष्टि, 2 हृष्टि, 3 बलि, 4 हलि, 5 विश्रि, 6 कुद्रि, 7 अजवस्ति, 8 मित्रयु ।

Kashika

गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। गार्ष्टेयः। हार्ष्टेयः। गृष्टिशब्दो यश्चतुष्पाद्वचनः, ततः पूर्वेणैव सिद्धः। अचतुष्पादर्थं वचनम्॥ गृष्टि। हृष्टि। हलि। बलि। विश्रि। कुद्रि। अजबस्ति। मित्रयु॥

Siddhanta Kaumudi

एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥

Balamanorama

गृष्ट्यादिभ्यश्च - गृष्टआदिभ्यश्च । अण्ढकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु एते गृष्टआदयः । अत्राऽन्त्ययोरृषित्वादण्प्राप्तः ।अन्येभ्यस्तु ‘इतश्चाऽनिञः’ इति ढक्प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गोरेव । ततश्च ‘चतुष्पाद्भ्यः’ इत्यनेन न प्राप्तिः ।

Tattvabodhini

गृष्ट्यादिभ्यश्च - गृष्टआदिभ्यश्च । गृष्टि, ह्मषि, हलि, बलि, क्रुद्रि, अगस्ति, मित्रयु । अण्ढकोरपवाद इति । इहान्त्ययोद्र्वयोरृषित्वादण् प्राप्तः, अन्येभ्यस्तुइतश्चानिञः॑इति ढगिति विवेकः । गार्ष्टेय इति । सकृत्प्रसूता सर्वापि गृष्टिः, न तु गोरेव । अतोऽत्र नचतुष्पाभ्द्यः॑इत्यनेन ढञ्सिद्धिः ।

Padamanjari

अणादीनामिति । आदिशब्देन ढकः । बहुवचनं तु प्रकृतिभेदेन तयोरेव बहुत्वात् तत्राजबस्ति-मित्रयुशब्दयोरणोऽपवादः, शेषाणाम् ठितश्चानिञःऽ इति ढकः । गृष्टिशब्दो य इति । सकृत्प्रसूता स्त्री सर्वेव गृष्टिर्न धेव्नादिश्चतुष्पादेवेति भावः । अपर आह - सकृत्प्रसूतत्वसाधर्म्येणाचतुष्पदीष्वपि गौणो गृष्टिशब्द इति ॥