41135: चतुष्पाद्भ्यो ढञ् ======================== **Padacheda:** चतुष्पाद्भ्यः | S | 5 | 3 | ढञ् | S | 1 | 1 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे चतुष्पादवाचिशब्देभ्यः ढञ्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix ढञ् comes in the sense of a descendant after the bases denoting quadrupeds. Vasu English Translation ------------------------ The affix ढञ् comes in the sense of a descendant after the bases denoting quadrupeds. This debars अण् &c. Thus कमण्डलु + ढञ् = कामण्डलेयः (4.4.147), the उ being elided before ढ)). So also शौन्तिबाहेयः and जाम्बेयः from शुन्तिबाहु and जम्बु॥ Kashika ------- चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। कामण्डलेयः। शौन्तिबाहेयः। जाम्बेयः॥ Balamanorama ------------ **चतुष्पाद्भ्यो ढञ्** - चतुष्पाद्भ्यो । चतुष्पादः-पशवः । तद्विशेषवाचिभ्योऽपत्ये ढञित्यर्थः । Padamanjari ----------- कमण्डलुशब्दश्चतुष्पाद्वचनोऽस्ति, दृश्यते हि - कमण्डलुपद आदधीतेति । जम्बुःउशृगालः ॥ Nyaas ----- `चतुष्पाद्भ्यः` इति। चत्वारः पाद आसामिति तास्तथोक्ताः। `पादस्य लोपऽहस्त्यादिभ्यः` (5.4.138) इति लोपः। इहाप्यर्थधर्मेण तदभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। अत एवाह - `चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यः` इति। बहुवचननिर्देशः स्वरूपविधिनिरासाय। `अणादीनाम्` इति। आदिशब्देन ढगादीनां ग्रहणम्। `कामण्डलेयः` इत्यादि। कमण्डलूशुन्तिबाहुजम्बुशब्दाश्चतुष्पाज्जातिवाचिनः,तेषां `ढे लोपोऽकद्रवाः` (6.4.147) इत्युवर्णलोपः॥अणादीनामपवादः। आदिशब्देन ढकः। बहुवचननिर्देशस्तु प्रकृतिभेदेन तयोर्भेदस्य विवक्षितत्वात्। तत्राजवस्तिमित्रयुशब्दयोरणोऽपवादः, शेषाणां **इतश्चानिञः** (4.1.122) इति ढकः॥ Prakriyasarvasvam ----------------- चतुष्पाद्वाचिभ्योऽपत्ये ढञ् । सुरभिगौः । तदपत्यं सौरभेयः । जम्बुः सृगालः । जाम्बेयः ॥