41134: मातृष्वसुश्च

Padacheda: मातृष्वसुः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘मातृष्वसृ’ शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते ‘मातृष्वसृ’शब्दस्य (अन्तिमवर्णस्य) लोपः भवति ।

Vasu English Summary

So also after the word मातृष्वसृ the affix छण् is added and the final is elided when ढक् follows in forming Patronymic.

Vasu English Translation

So also after the word मातृष्वसृ the affix छण् is added and the final is elided when ढक् follows in forming Patronymic. The Sutras (4.1.132), (4.1.133) above apply to मातृष्वसृ also. As मातृष्वस्रीयः or मातृष्वसेयः ‘the son of a mother’s sister’.

Bhashya

मातृष्वसुश्च (1380) (छण्साधकभाष्यम्) ढकि लोप इत्युच्यते तत्रेदं न सिध्यति -मातृष्वस्रीयः। नैष दोषः। एवं वक्ष्यामि -पितृष्वसुश्छण्, ढकि लोपः। ततो मातृष्वसुश्च। पितृष्वसुर्यदुक्तं तन्मातृष्वसुर्भवतीति। किं पुनस्तत्? छण् ढकि लोपश्च॥

Kashika

पितृष्वसुरित्येतदपेक्षते, पितृष्वसुर्यदुक्तं तद् मातृष्वसुरपि भवति। छण्प्रत्ययो ढकि लोपश्च। मातृष्वस्रीयः, मातृष्वसेयः॥

Siddhanta Kaumudi

पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥

Balamanorama

मातृष्वसुश्च - मातृष्वसुश्चा । चकाराच्छण्, ढकि लोपश्चानुकृष्यते । तदाह — पितृष्वसुर्यदुक्तमिति ।

Padamanjari

पितृष्वसुरित्येतपेक्ष्यते इति । चकारेणानुकृष्यत इत्यर्थः । तदनुवृतौ योऽर्थः सम्पद्यते, तं दर्शयति - पितृष्वसुर्यदुक्तमिति । किं पुनस्तदित्याह - च्छण् प्रत्ययो ढकि लोपश्चेति । तेन ठनन्तरस्य विधिर्वा भवति प्रति षेधो वाऽ इति ढकि लोप एव प्राप्नोति, न तु च्छणिति न चोदनीयमिति भावः ॥

Nyaas

पितृष्वसुरित्येतदपेक्षते`इति। इहापि `अनन्तरस्य पितृष्वसुर्विधिर्वा भवतिप्रतिषेधो वा इति लोप एवानन्तरः प्राप्नोति, न छण्; व्यवहितत्वात्। उभयमपि चैतदिष्यते, तत्र यतो हेतोरेतद्द्वयमपि लभ्यते तमनेन दर्शयति - पितृष्वसुः इति। एतदिहापेक्ष्यमाणं षष्ठन्तं ज्ञायते यथा लोपविधौ पितृष्वसुः (4.1.132) इति च षष्ठी, तेनायमर्थः सम्पद्यते - पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि तेन छण् ढकि लोपश्च लभ्यते। उभयमपि ह्रेतत् पितृष्वसुरुक्तम्॥

Prakriyasarvasvam

पितृष्वसुवत् स्यात् । मातृष्वस्रीयः । मातृष्वसेयः ॥

Sutra Prayogas

  • मातृ-ष्वसेय्याश्च (भट्टिकाव्यम्): तस्या अपत्यं मातृष्वसेयी मातृष्वसुश्च इति ठगन्तलोपौ।