41124: विकर्णकुषीतकात् काश्यपे¶
Padacheda: विकर्ण-कुषीतकात् | S | 5 | 1 |
काश्यपे | S | 7 | 1 |
Sutrartha¶
काश्यपकुलस्य निर्देशे ‘तस्य अपत्यम्’ अस्मिन् अर्थे विकर्णशब्दात् कुषीतकशब्दात् च ढक् प्रत्ययः भवति ।
Vasu English Summary¶
The affix ढक् comes after the words 1. विकर्ण and 2. कुषीत when they mean the descendants of काश्यप।
Vasu English Translation¶
The affix ढक् comes after the words 1. विकर्ण and 2. कुषीत when they mean the descendants of काश्यप। Thus वैकर्णेयः and कौषीतकेयः = काश्यपः; otherwise we have वैकर्णिः and कौषीतकिः formed by (4.1.95).
Kashika¶
विकर्णशब्दात् कुषीतकशब्दात् च काश्यपेऽपत्यविशेषे ढक् प्रत्ययो भवति। वैकर्णेयः। कौषीतकेयः। काश्यप इति किम् ? वैकर्णिः। कौषीतकिः॥
Siddhanta Kaumudi¶
अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः ॥
Balamanorama¶
विकर्णकुषीतकात् काश्यपे - विकर्णकुषीत । अपत्ये ढगिति । शेषपूरणम् ।काश्यप एवे॑ति नियमार्थं शुभ्रादिभ्यः पृथक् पाठः ।
Prakriyasarvasvam¶
काश्यपे दत्तपुत्रे वैकर्णेयः । कौषीतकेयः । स्वपुत्रे वैकर्णिः । कौषीतकिः ॥